धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 291

  1. [य] किं तद अक्षरम इत्य उक्तं यस्मान नावार्तते पुनः किं च तत कषरम इत्य उक्तं यस्माद आवर्तते पुनः ॥ 1 ॥

  2. अक्षरक्षरयॊर वयक्तिम इच्छाम्य अरिनिषूदन उपलब्धुं महाबाहॊ तत्त्वेन कुरुनन्दन ॥ 2 ॥

  3. तवं हि जञाननिधिर विप्रैर उच्यसे वेदपारगैः ऋषिभिश च महाभागैर यतिभिश च महात्मभिः ॥ 3 ॥

  4. शेषम अल्पं दिनानां ते दक्षिणायन भास्करे आवृत्ते भगवत्य अर्के गन्तासि परमां गतिम ॥ 4 ॥

  5. तवयि परतिगते शरेयः कुतः शरॊष्यामहे वयम कुरुवंशप्रदीपस तवं जञानद्रव्येण दीप्यसे ॥ 5 ॥

  6. तद एतच छरॊतुम इच्छामि तवत्तः कुरुकुलॊद्वह न तृप्यामीह राजेन्द्र शृण्वन्न अमृतम ईदृशम ॥ 6 ॥

  7. [भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम वसिष्ठस्य च संवादं कराल जनकस्य च ॥ 7 ॥

  8. वसिष्ठं शरेष्ठम आसीनम ऋषीणां भास्करद्युतिम पप्रच्छ जनकॊ राजा जञानं नैःश्रेयसं परम ॥ 8 ॥

  9. परम अध्यात्मकुशलम अध्यात्मगतिनिश्चयम मैत्रावरुणिम आसीनम अभिवाद्य कृताञ्जलिः ॥ 9 ॥

  10. सवक्षरं परश्रितं वाक्यं मधुरं चाप्य अनुल्बनम पप्रच्छर्षिवरं राजान कराल जनकः पुरा ॥ 10 ॥

  11. भगवञ शरॊतुम इच्छामि परं बरह्म सनातनम यस्मान न पुनर आवृत्तिम आप्नुवन्ति मनीषिणः ॥ 11 ॥

  12. यच च तत कषरम इत्य उक्तं यत्रेदं कषरते जगत यच चाक्षरम इति परॊक्तं शिवं कषेम्यम अनामयम ॥ 12 ॥

  13. [वसिस्ठ] शरूयतां पृथिवीपाल कषरतीदं यथा जगत यन न कषरति पूर्वेण यावत कालेन चाप्य अथ ॥ 13 ॥

  14. युगं दवादश साहस्रं कल्पं विद्धि चतुर्गुणम दश कल्पशतावृत्तं तद आहर बराह्मम उच्यते रात्रिश चैतावती राजन यस्यान्ते परतिबुध्यते ॥ 14 ॥

  15. सृजत्य अनन्त कर्माणं महान्तं भूतम अग्रजम मूर्तिमन्तम अमूर्तात्मा विश्वं शम्भुः सवयम्भुवः अनिमा लघिमा पराप्तिर ईशानं जयॊतिर अव्ययम ॥ 15 ॥

  16. सर्वतः पानि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति ॥ 16 ॥

  17. हिरण्यगर्भॊ भगवान एष बुद्धिर इति समृतः महान इति च यॊगेषु विरिञ्च इति चाप्य उत ॥ 17 ॥

  18. सांख्ये च पथ्यते शास्त्रे नामभिर बहुधात्मकः विचित्ररूपॊ विश्वात्मा एकाक्षर इति समृतः ॥ 18 ॥

  19. वृतं नैकात्मकं येन कृत्स्नं तरैलॊक्यम आत्मना तथैव बहुरूपत्वाद विश्वरूप इति समृतः ॥ 19 ॥

  20. एष वै विक्रियापन्नः सृजत्य आत्मानम आत्मना अहंकारं महातेजाः परजापतिम अहंकृतम ॥ 20 ॥

  21. अव्यक्ताद वयक्तम उत्पन्नं विद्या सर्गं वदन्ति तम महान्तं चाप्य अहंकारम अविद्या सर्गम एव च ॥ 21 ॥

  22. अविधिश च विधिश चैव समुत्पन्नौ तथैकतः विद्याविद्येति विख्याते शरुतिशास्त्रार्थ चिन्तकैः ॥ 22 ॥

  23. भूतसर्गम अहंकारात तृतीयं विद्धि पार्थिव अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम ॥ 23 ॥

  24. वायुर जयॊतिर अथाकाशम आपॊ ऽथ पृथिवी तथा शब्दः सपर्शश च रूपं च रसॊ गन्धस तथैव च ॥ 24 ॥

  25. एवं युगपद उत्पन्नं दशवर्गम असंशयम पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम अर्थवत ॥ 25 ॥

  26. शरॊत्रं तवक चक्षुषी जिह्वा घराणम एव च पञ्चमम वाक च हस्तौ च पादौ च पायुर मेध्रं तथैव च ॥ 26 ॥

  27. बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च संभूतानीह युगपन मनसा सह पार्थिव ॥ 27 ॥

  28. एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते यां जञात्वा नाभिशॊचन्ति बराह्मणास तत्त्वदर्शिनः ॥ 28 ॥

  29. एतद देहं समाख्यातं तरैलॊक्ये सर्वदेहिषु वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥ 29 ॥

  30. सयक्षभूतगन्धर्वे सकिंनरमहॊरगे सचारण पिशाचे व सदेवर्षिनिशाचरे ॥ 30 ॥

  31. सदंश कीत मशके सपूति कृमिमूषके शुनि शवपाके वैनेये सचन्दाले सपुल्कसे ॥ 31 ॥

  32. हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह यच च मूर्तिमयं किं चित सर्वत्रैतन निदर्शनम ॥ 32 ॥

  33. जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः सथानं देहवताम अस्ति इत्य एवम अनुशुश्रुम ॥ 33 ॥

  34. कृत्स्नम एतावतस तात कषरते वयक्तसंज्ञकम अहन्य अहनि भूतात्मा ततः कषर इति समृतः ॥ 34 ॥

  35. एतद अक्षरम इत्य उक्तं कषरतीदं यथा जगत जगन मॊहात्मकं पराहुर अव्यक्तं वयक्तसंज्ञकम ॥ 35 ॥

  36. महांश चैवाग्रजॊ नित्यम एतत कषर निदर्शनम कथितं ते महाराज यस्मान नावर्तते पुनः ॥ 36 ॥

  37. पञ्चविंशतिमॊ विष्णुर निस्तत्त्वस तत्त्वसंज्ञकः तत्त्वसंश्रयणाद एतत तत्त्वम आहुर मनीषिणः ॥ 37 ॥

  38. यद अमूर्त्य असृजद वयक्तं तत तन मूर्त्य अधितिष्ठति चतुर्विंशतिमॊ वयक्तॊ हय अमूर्तः पञ्चविंशकः ॥ 38 ॥

  39. स एव हृदि सर्वासु मूर्तिष्व आतिष्ठते ऽऽतमवान चेतयंश चेतनॊ नित्यः सर्वमूर्तिर अमूर्तिमान ॥ 39 ॥

  40. सर्ग परलय धर्मिण्या असर्ग परलयात्मकः गॊचरे वर्तते नित्यं निर्गुणॊ गुणसंज्ञकः ॥ 40 ॥

  41. एवम एष महान आत्मा सर्ग परलय कॊविदः विकुर्वाणः परकृतिमान अभिमन्यत्य अबुद्धिमान ॥ 41 ॥

  42. तमः सत्त्वरजॊ युक्तस तासु तास्व इह यॊनिषु लीयते ऽपरतिबुद्धत्वाद अबुद्ध जनसेवनात ॥ 42 ॥

  43. सह वासॊ निवासात्मा नान्यॊ ऽहम इति मन्यते यॊ ऽहं सॊ ऽहम इति हय उक्त्वा गुणान अनु निवर्तते ॥ 43 ॥

  44. तमसा तामसान भावान विविधान परतिपद्यते रजसा राजसांश चैव सात्त्विकान सत्त्वसंश्रयात ॥ 44 ॥

  45. शुक्ललॊहित कृष्णानि रूपाण्य एतानि तरीणि तु सर्वाण्य एतानि रूपाणि जानीहि पराकृतानि वै ॥ 45 ॥

  46. तामसा निरयं यान्ति राजसा मानुषांस तथा सात्त्विका देवलॊकाय गच्छन्ति सुखभागिनः ॥ 46 ॥

  47. निष्कैवल्येन पापेन तिर्यग्यॊनिम अवाप्नुयात पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥ 47 ॥

  48. एवम अव्यक्तविषयं कषरम आहुर मनीषिणः पञ्चविंशतिमॊ यॊ ऽयं जञानाद एव परवर्तते ॥ 48 ॥

Reach this point to mark the section finished.

Continue to अध्याय 292

Previous: अध्याय 290