धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 290

  1. [य] सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः यॊगमार्गॊ यथान्यायं शिष्यायेह हितैषिणा ॥ 1 ॥

  2. सांख्ये तवेदानीं कार्त्स्न्येन विधिं परब्रूहि पृच्छते तरिषु लॊकेषु यज जञानं सर्वं तद वितिदं हि ते ॥ 2 ॥

  3. [भी] शृणु मे तवम इदं शुद्धं सांख्यानां विदितात्मनाम विहितं यतिभिर बुद्धैः कपिलादिभिर ईश्वरैः ॥ 3 ॥

  4. यस्मिन न विभ्रमाः के चिद दृश्यन्ते मनुजर्षभ गुणाश च यस्मिन बहवॊ दॊषहानिश च केवला ॥ 4 ॥

  5. जञानेन परिसंख्याय सदॊषान विषयान नृप मानुषान दुर्जयान कृत्स्नान पैशाचान विषयांस तथा ॥ 5 ॥

  6. राक्षसान विषयाञ जञात्वा यक्षाणां विषयांस तथा विषयान औरगाञ जञात्वा गान्धर्वविषयांस तथा ॥ 6 ॥

  7. पितॄणां विषयाञ जञात्वा तिर्यक्षु चरतां नृप सुपर्णविषयाञ जञात्वा मरुतां विषयांस तथा ॥ 7 ॥

  8. राजर्षिविषयाञ जञात्वा बरह्मर्षिविषयांस तथा आसुरान विषयाञ जञात्वा वैश्वदेवांस तथैव च ॥ 8 ॥

  9. देवर्षिविषयाञ जञात्वा यॊगानान अपि चेश्वरान विषयांश च परजेशानां बरह्मणॊ विषयांस तथा ॥ 9 ॥

  10. आयुषश च परं कालं लॊके विज्ञाय तत्त्वतः सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ 10 ॥

  11. पराप्ते काले च यद दुःखं पततां विषयैषिणाम तिर्यक च पततां दुःख्म पततां नरके च यत ॥ 11 ॥

  12. सवर्गस्य च गुणान कृत्स्नान दॊषान सर्वांश च भारत वेदवादे च ये दॊषा गुणा ये चापि वैदिकाः ॥ 12 ॥

  13. जञानयॊगे च ये दॊषा गुणा यॊगे च ये नृप सांख्यज्ञाने च ये दॊषास तथैव च गुणा नृप ॥ 13 ॥

  14. सत्त्वं दशगुणं जञात्वा रजॊ नव गुणं तथा तमश चास्त गुणं जञात्वा बुद्धिं सप्त गुणां तथा ॥ 14 ॥

  15. सॊ गुणं च नभॊ जञात्वा मनः पञ्च गुणं तथा बुद्धिं चतुर्गुणां जञात्वा तमश च तरिगुणं महत ॥ 15 ॥

  16. दविगुणं च रजॊ जञात्वा सत्त्वम एकगुणं पुनः मार्गं विज्ञाय तत्त्वेन परलये परेक्षणं तथा ॥ 16 ॥

  17. जञानविज्ञानसंपन्नाः कारणैर भाविताः शुभैः पराप्नुवन्ति शुभं मॊक्षं सूक्ष्मा इह नभः परम ॥ 17 ॥

  18. रूपेण दृष्टिं संयुक्तां घराणं गन्धगुणेन च शब्दे सक्तं तथा शरॊत्रं जिह्वां रसगुणेषु च ॥ 18 ॥

  19. तनुं सपर्शे तथा सक्तां वायुं नभसि चाश्रितम मॊहं तमसि संसक्तं लॊभम अर्थेषु संश्रितम ॥ 19 ॥

  20. विष्णुं करान्ते बले शक्रं कॊष्ठे सक्तं तथानलम अप्सु देवीं तथा सक्ताम अपस तेजसि चाश्रिताः ॥ 20 ॥

  21. तेजॊ वायौ तु संसक्तं वायुं नभसि चाश्रितम नभॊ महति संयुक्तं महद बुद्धौ च संश्रितम ॥ 21 ॥

  22. बुद्धिं तमसि संसक्तां तमॊ रजसि चाश्रितम रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ॥ 22 ॥

  23. सक्तम आत्मानम ईशे च देवे नारायणे तथा देवं मॊक्षे च संसक्तं मॊक्षं सक्तं तु न कव चित ॥ 23 ॥

  24. जञात्वा सत्त्वयुतं देहं वृतं सॊदशभिर गुणैः सवभावं चेतनां चैव जञात्वा वै देहम आश्रिते ॥ 24 ॥

  25. मध्यस्थम एकम आत्मानं पापं यस्मिन न विद्यते दवितीयं कर्म विज्ञाय नृपतौ विषयैषिणाम ॥ 25 ॥

  26. इन्द्रियाणीन्द्रियार्थाश च सर्वान आत्मनि संशृतान पराणापानौ समानं च वयानॊदानौ च तत्त्वतः ॥ 26 ॥

  27. अवाक्चैवानिलं जञात्वा परवहं चानिलं पुनः सप्त वातांस तथा शेषान सप्तधा विधिवत पुनः ॥ 27 ॥

  28. परजापतीन ऋषींश चैव मार्गांश च सुबहून वरान सप्तर्षींश च बहूञ जञात्वा राजर्षींश च परंतप ॥ 28 ॥

  29. सुरर्षीन महतश चान्यान महर्षीन सूर्यसंनिभान ऐश्वर्याच चयाविताञ जञात्वा कालेन महता नृप ॥ 29 ॥

  30. महतां भूतसंघानां शरुत्वा नाशं च पार्थिव गतिं चाप्य अशुभां जञात्वा नृपते पापकर्मणाम ॥ 30 ॥

  31. वैतरण्यां च यद दुःखं पतितानां यमक्षये यॊनीषु च विचित्रासु संसारान अशुभांस तथा ॥ 31 ॥

  32. जथरे चाशुभे वासं शॊनितॊदक भाजने शलेष्म मूत्र पुरीषे च तीव्रगन्धसमन्विते ॥ 32 ॥

  33. शुक्रशॊनित संघाते मज्जास्नायुपरिग्रहे सिरा शतसमाकीर्णे नवद्वारे पुरे ऽशुचौ ॥ 33 ॥

  34. विज्ञायाहितम आत्मानं यॊगांश च विविधान नृप तामसानां च जन्तूनां रमणीयावृतात्मनाम ॥ 34 ॥

  35. सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ गर्हितं महताम अर्थे सांख्यानां विदितात्मनाम ॥ 35 ॥

  36. उपप्लवांस तथा घॊराञ शशिनस तेजसस तथा ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम ॥ 36 ॥

  37. दवन्द्वानां विप्रयॊगं च विज्ञाय कृपणं नृप अन्यॊन्यभक्षणं दृष्ट्वा भूतानाम अपि चाशुभम ॥ 37 ॥

  38. बाल्ये मॊहं च विज्ञाय कषयं देहस्य चाशुभम रागे मॊहे च संप्राप्ते कव चित सत्त्वं समाश्रितम ॥ 38 ॥

  39. सहस्रेषु नरः कश चिन मॊक्षबुद्धिं समाश्रितः दुर्लभत्वं च मॊक्षस्य विज्ञाय शरुतिपूर्वकम ॥ 39 ॥

  40. बहुमानम अलब्धेषु लब्धे मध्यस्थतां पुनः विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ॥ 40 ॥

  41. गतासूनां च कौन्तेय देहान दृष्ट्वा तथाशुभान वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ॥ 41 ॥

  42. बरह्मघ्नानां गतिं जञात्वा पतितानां सुदारुणाम सुरा पाने च सक्तानां बराह्मणानां दुरात्मनाम गुरु दारप्रसक्तानां गतिं विज्ञाय चाशुभाम ॥ 42 ॥

  43. जननीषु च वर्तन्ते ये न सम्यग युधिष्ठिर सदेवकेषु लॊकेषु ये न वर्तन्ति मानवाः ॥ 43 ॥

  44. तेन जञानेन विज्ञाय गतिं चाशुभ कर्मणाम तिर्यग्यॊनिगतानां च विज्ञाय गतयः पृथक ॥ 44 ॥

  45. वेदवादांस तथा चित्रान ऋतूनां पर्ययांस तथा कषयं संवत्सराणां च मासानां परक्षयं तथा ॥ 45 ॥

  46. पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम कषयं वृद्धिं च चन्द्रस्य दृष्ट्वा परत्यक्षतस तथा ॥ 46 ॥

  47. वृद्धिं दृष्ट्वा समुद्राणां कषयं तेषां तथा पुनः कषयं धनानां च तथा पुनर वृद्धिं तथैव च ॥ 47 ॥

  48. समॊगानां कषयं दृष्ट्वा युगानां च विशेषतः कषयं च दृष्ट्वा शैलानां कषयं च सरितां तथा ॥ 48 ॥

  49. वर्णानां च कषयं दृष्ट्वा कषयान्तं च पुनः पुनः जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥ 49 ॥

  50. देहदॊषांस तथा जञात्वा तेषां दुःखं च तत्त्वतः देव विक्लवतां चैव सम्यग विज्ञाय भारत ॥ 50 ॥

  51. आत्मदॊषांश च विज्ञाय सर्वान आत्मनि संश्रितान सवदेहाद उत्थितान गन्धांस तथा विज्ञाय चाशुभम ॥ 51 ॥

  52. [य] कान सवगात्रॊद्भवान दॊषान पश्यस्य अमितविक्रम एतन मे संशयं कृत्स्नं वक्तुम अर्हसि तत्त्वतः ॥ 52 ॥

  53. [भी] पञ्च दॊषान परभॊ देहे परवदन्ति मनीषिणः मार्गज्ञाः कापिलाः सांख्याः शृणु तान अरिसूदन ॥ 53 ॥

  54. कामक्रॊधौ भयं निद्रा पञ्चमः शवास उच्यते एते दॊषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम ॥ 54 ॥

  55. छिन्दन्ति कषमया करॊधं कामं संकल्पवर्जनात सत्त्वसंशीलनान निद्राम अप्रमादाद भयं तथा छिन्दन्ति पञ्चमं शवासं लघ्व आहारतया नृप ॥ 55 ॥

  56. गुणान गुणशतैर जञात्वा दॊषान दॊषशतैर अपि हेतून हेतुशतैश चित्रैश चित्रान विज्ञाय तत्त्वतः ॥ 56 ॥

  57. अपां फेनॊपमं लॊकं विष्णॊर माया शतैर वृतम चित्तभित्ति परतीकाशं नल सारम अनर्थकम ॥ 57 ॥

  58. तमः शवभ्र निभं दृष्ट्वा वर्षबुद्बुद संनिभम नाश परायं सुखाद धीनं नाशॊत्तरम अभावगम रजस तमसि संमग्नं पङ्के दविपम इवावशम ॥ 58 ॥

  59. सांख्या राजन महाप्राज्ञास तयक्त्वा देहं परजा कृतम जञानज्ञेयेन सांख्येन वयापिना महता नृप ॥ 59 ॥

  60. राजसान अशुभान गन्धांस तामसांश च तथाविधान पुण्यांश च सात्त्विकान गन्धान सपर्शजान देहसंश्रितान छित्त्वाशु जञानशस्त्रेण तपॊ दन्देन भारत ॥ 60 ॥

  61. ततॊ दुःखॊदकं घॊरं चिन्ताशॊकमहाह्रदम वयाधिमृत्युमहाग्राहं महाभयमहॊरगम ॥ 61 ॥

  62. तमः कूर्मं रजॊ मीनं परज्ञया संतरन्त्य उत सनेहपङ्कं जरा दुर्गं सपर्शद्वीपम अरिंदम ॥ 62 ॥

  63. कर्मागाधं सत्यतीरं सथितव्रतम इदं नृप हिंसा शीघ्रमहावेगं नाना रसमहाकरम ॥ 63 ॥

  64. नाना परीतिमहारत्नं दुःखज्वर समीरणम शॊकतृष्णा महावर्तं तीस्क्न वयाधिमहागजम ॥ 64 ॥

  65. अस्थि संघातसंघातं शलेष्म फेनम अरिंदम दानम उक्ताकरं भीमं शॊनित हरद विद्रुतम ॥ 65 ॥

  66. हसितॊत्क्रुष्ट निर्घॊषं नाना जञानसुदुस्तरम रॊदनाश्रु मलक्षारं सङ्गत्यागपरायनम ॥ 66 ॥

  67. पुनर आ जन्म लॊकौघं पुत्र बान्धवपत्तनम अहिंसा सत्यमर्यादं पराण तयागमहॊर्मिणम ॥ 67 ॥

  68. वेदान्तगमन दवीपं सर्वभूतदयॊदधिम मॊक्षदुष्प्राप विषयं वदवा मुखसागरम ॥ 68 ॥

  69. तरन्ति मुनयः सिद्धा जञानयॊगेन भारत तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ॥ 69 ॥

  70. ततस तान सुकृतीन सांख्यान सूर्यॊ वहति रश्मिभिः पद्मतन्तुवद आविश्य परवहन विषयान नृप ॥ 70 ॥

  71. तत्र तान परवहॊ वायुः परतिगृह्णाति भारत वीतरागान यतीन सिद्धान वीर्ययुक्तांस तपॊधनान ॥ 71 ॥

  72. सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश च भारत सप्तानां मरुतां शरेष्ठॊ लॊकान गच्छति यः शुभान स तान वहति कौन्तेय नभसः परमां गतिम ॥ 72 ॥

  73. नभॊ वहति लॊकेश रजसः परमां गतिम रजॊ वहति राजेन्द्र सत्त्वस्य परमां गतिम ॥ 73 ॥

  74. सत्त्वं वहति शुद्धात्मन परं नारायणं परभुम परभुर वहति शुद्धात्मा परमात्मानम आत्मना ॥ 74 ॥

  75. परमात्मानम आसाद्य तद भूतायतनामलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभॊ परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम ॥ 75 ॥

  76. [य] सथानम उत्तमम आसाद्य भगवन्तं सथिरव्रताः आजन्म मरणं वा ते समरन्त्य उप न वानघ ॥ 76 ॥

  77. यद अत्र तथ्यं तन मे तवं यथावद वक्तुम अर्हसि तवदृते मानवं नान्यं परस्तुम अर्हामि कौरव ॥ 77 ॥

  78. मॊक्षदॊषॊ महान एष पराप्य सिद्धिं गतान ऋषीन यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ 78 ॥

  79. परवृत्ति लक्षणं धर्मं पश्यामि परमं नृप मग्नस्य हि परे जञाने किं नु दुःखतरं भवेत ॥ 79 ॥

  80. [भी] यथान्यायं तवया तात परश्नः पृष्टः सुसंकटः बुद्धानाम अपि संमॊहः परश्ने ऽसमिन भरतर्षभ अत्रापि तत्त्वं परमं शृणु सम्यग भयेरितम ॥ 80 ॥

  81. बुद्धिश च परमा यत्र कापिलानां महात्मनाम इन्द्रियाण्य अपि बुध्यन्ते सवदेहं देहिनॊ नृप कारणाय आत्मनस तानि सूक्ष्मः पश्यति तैस तु सः ॥ 81 ॥

  82. आत्मना विप्रहीनानि काष्ठ कुन्द्य समानि तु विनश्यन्ति न संदेहः फेना इव महार्णवे ॥ 82 ॥

  83. इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन सूक्ष्मश चरति सर्वत्र नभसीव समीरणः ॥ 83 ॥

  84. स पश्यति यथान्यायं सपर्शान सपृशति चाभिभॊ बुध्यमानॊ यथापूर्वम अखिलेनेह भारत ॥ 84 ॥

  85. इन्द्रियाणीह सर्वाणि सवे सवे सथाने यथाविधि अनीशत्वात परलीयन्ते सर्पा हतविषा इव ॥ 85 ॥

  86. इन्द्रियाणां तु सर्वेषां सवस्थानेष्व एव सर्वशः आक्रम्य गतयः सूक्ष्माश चरत्य आत्मा न संशयः ॥ 86 ॥

  87. सत्त्वस्य च गुणान कृत्स्नान रजसश च गुणान पुनः गुणांश च तमसः सर्वान गुणान बुद्धेश च भारत ॥ 87 ॥

  88. गुणांश च मनसस तद्वन नभसश च गुणांस तथा गुणान वायॊश च धर्मात्मंस तेजसश च गुणान पुनः ॥ 88 ॥

  89. अपां गुणांस तथा पार्थ पार्थिवांश च गुणान अपि सर्वात्मना गुणैर वयाप्य कषेत्रज्ञः स युधिष्ठिर ॥ 89 ॥

  90. आत्मा च याति कषेत्रज्ञं कर्मणी च शुभाशुभे शिष्या इव महात्मानम इन्द्रियाणि च तं विभॊ ॥ 90 ॥

  91. परकृतिं चाप्य अतिक्रम्य गच्छत्य आत्मानम अव्ययम परं नारायणात्मानं निर्द्वन्द्वं परकृतेः परम ॥ 91 ॥

  92. विमुक्तः पुण्यपापेभ्यः परविष्टस तम अनामयम परमात्मानम अगुणं न निवर्तति भारत ॥ 92 ॥

  93. शिष्टं तव अत्र मनस तात इन्द्रियाणि च भारत आगच्छन्ति यथाकालं गुरॊः संदेशकारिणः ॥ 93 ॥

  94. शक्यं चाल्पेन कालेन शान्तिं पराप्तुं गुणार्थिना एवं युक्तेन कौन्तेय युक्तज्ञानेन मॊक्षिणा ॥ 94 ॥

  95. सांख्या राजन महाप्राज्ञा गच्छन्ति परमां गतिम जञानेनानेन कौन्तेय तुल्यं जञानं न विद्यते ॥ 95 ॥

  96. अत्र ते संशयॊ मा भूज जञानं सांख्यं परं मतम अक्षरं धरुवम अव्यक्तं पूर्वं बरह्म सनातनम ॥ 96 ॥

  97. अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम कूतस्थं चैव नित्यं च यद वदन्ति शमात्मकाः ॥ 97 ॥

  98. यतः सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः यच च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ 98 ॥

  99. सर्वे विप्राश च देवाश च तथागमविदॊ जनाः बरह्मण्यं परमं देवम अनन्तं परतॊ ऽचयुतम ॥ 99 ॥

  100. परार्थयन्तश च तं विप्रा वदन्ति गुणबुद्दयः सम्यग युक्तास तथा यॊगाः सांख्याश चामितदर्शनाः ॥ 100 ॥

  101. अमूर्तेस तस्य कौन्तेय सांख्यं मूर्तिर इति शरुतिः अभिज्ञानानि तस्याहुर मतं हि भरतर्षभ ॥ 101 ॥

  102. दविविधानीह भूतानि पृथिव्यां पृथिवीपते जङ्गमागम संज्ञानि जङ्गमं तु विशिष्यते ॥ 102 ॥

  103. जञानं महद यद धि महत्सु राजन; वेदेषु सांख्येषु तथैव यॊगे यच चापि दृष्टं विविधं पुराणं; सांख्यागतं तन निखिलं नरेन्द्र ॥ 103 ॥

  104. यच चेतिहासेषु महत्सु दृष्टं; यच चार्थशास्त्रे नृप शिष्टजुष्टे जञानं च लॊके यद इहास्ति किं चित; सांख्यागतं तच च महन महात्मन ॥ 104 ॥

  105. शमश च दृष्टः परमं बलं च; जञानं च सूक्ष्मं च यथावद उक्तम तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद विहितानि राजन ॥ 105 ॥

  106. विपर्यये तस्य हि पार्थ देवान; गच्छन्ति सांख्याः सततं सुखेन तांश चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः ॥ 106 ॥

  107. हित्वा च देहं परविशन्ति मॊक्षं; दिवौकसॊ दयाम इव पार्थ सांख्याः ततॊ ऽधिकं ते ऽभिरता महार्हे; सांख्ये दविजाः पार्थिव शिष्टजुष्टे ॥ 107 ॥

  108. तेषां न तिर्यग गमनं हि दृष्टं; नावाग गतिः पापकृतां निवासः न चाबुधानाम अपि ते दविजातयॊ; ये जञानम एतन नृपते ऽनुरक्ताः ॥ 108 ॥

  109. सांक्यं विशालं परमं पुराणं; महार्णवं विमलम उदारकान्तम कृत्स्नं च सांख्यं नृपते महात्मा; नारायणॊ धारयते ऽपरमेयम ॥ 109 ॥

  110. एतन मयॊक्तं नरदेव तत्त्वं; नारायणॊ विश्वम इदं पुराणम स सर्ग काले च करॊति सर्गं; संहार काले च तद अत्ति भूयः ॥ 110 ॥

Reach this point to mark the section finished.

Continue to अध्याय 291

Previous: अध्याय 289