धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 289

  1. [य] सांख्ये यॊगे च मे तात विशेषं वक्तुम अर्हसि तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ॥ 1 ॥

  2. [भी] सांख्याः सांख्यं परशंसन्ति यॊगा यॊगं दविजातयः वदन्ति कारणैः शरैष्ठ्यं सवपक्षॊद्भावनाय वै ॥ 2 ॥

  3. अनीश्वरः कथं मुच्येद इत्य एवं शत्रुकर्शन वदन्ति करणैः शरैष्ठ्यं यॊगाः सम्यङ मनीषिणः ॥ 3 ॥

  4. वदन्ति कारणं चेदं सांख्याः सम्यग दविजातयः विज्ञायेह गतीः सर्वा विरक्तॊ विषयेषु यः ॥ 4 ॥

  5. ऊर्ध्वं स देहात सुव्यक्तं विमुच्येद इति नान्यथा एतद आहुर महाप्राज्ञाः सांख्यं वै मॊक्षदर्शनम ॥ 5 ॥

  6. सवपक्षे कारणं गराह्यं समर्थं वचनं हितम शिष्टानां हि मतं गराह्यं तवद्विधैः शिष्टसंमतैः ॥ 6 ॥

  7. परत्यक्षहेतवॊ यॊगाः सांख्याः शास्त्रविनिश्चयाः उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥ 7 ॥

  8. उभे चैते मते जञाने नृपते शिष्टसंमते अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम ॥ 8 ॥

  9. तुल्यं शौचं तयॊर युक्तं दया भूतेषु चानघ वरतानां धारणं तुल्यं दर्शनं न समं तयॊः ॥ 9 ॥

  10. [य] यदि तुल्यं वरतं शौचं दया चात्र पितामह तुल्यं न दर्शनं कस्मात तन मे बरूहि पितामह ॥ 10 ॥

  11. [भी] रागं मॊहं तथा सनेहं कामक्रॊधं च केवलम यॊगाच छित्त्वादितॊ दॊषान पञ्चैतान पराप्नुवन्ति तत ॥ 11 ॥

  12. यथा चानिमिषाः सथूला जालं छित्त्वा पुनर जलम पराप्नुवन्ति तथा यॊगास तत पदं वीतकल्मसाः ॥ 12 ॥

  13. तथैव वागुरां छित्त्वा बलवन्तॊ यथा मृगाः पराप्नुयुर विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ 13 ॥

  14. लॊभजानि तथा राजन बन्धनानि बलान्विताः छित्त्वा यॊगाः परं मार्गं गच्छन्ति विमलाः शिवम ॥ 14 ॥

  15. अबलाश च मृगा राजन वागुरासु तथापरे विनश्यति न संदेहस तद्वद यॊगबलाद ऋते ॥ 15 ॥

  16. बलहीनाश च कौन्तेय यथा जालगता झषाः अन्तं गच्छन्ति राजेन्द्र तथा यॊगाः सुदुर्बलाः ॥ 16 ॥

  17. यथा च शकुनाः सूक्ष्मं पराप्य जालम अरिंदम तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥ 17 ॥

  18. कर्मजैर बन्धनैर बद्धास तद्वद यॊगाः परंतप अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥ 18 ॥

  19. अल्पकश च यथा राजन वह्निः शाम्यति दुर्बलः आक्रान्त इन्धनैः सथूलैस तद्वद यॊगॊ ऽबलः परभॊ ॥ 19 ॥

  20. स एव च यदा राजन वह्निर जातबलः पुनः समीरण युतः कृत्स्नां दहेत कषिप्रं महीम अपि ॥ 20 ॥

  21. तद्वज जातबलॊ यॊनी दीप्ततेजा महाबलः अन्तकाल इवादित्यः कृत्स्नं संशॊषयेज जगत ॥ 21 ॥

  22. दुर्बलश च यथा राजन सरॊतसा हरियते नरः बलहीनस तथा यॊगॊ विषयैर हरियते ऽवशः ॥ 22 ॥

  23. तद एव च यथा सरॊतॊ विष्टम्भयति वारुणः तद्वद यॊगबलं लब्ध्वा वयूहते विषयान बहून ॥ 23 ॥

  24. विशन्ति चावशाः पार्थ यॊगा यॊगबलान्विताः परजापतीन ऋषीन देवान महाभूतानि चेश्वराः ॥ 24 ॥

  25. न यमॊ नान्तकः करुद्धॊ न मृत्युर भीमविक्रमः ईशते नृपते सर्वे यॊगस्यामित तेजसः ॥ 25 ॥

  26. आत्मनां च सहस्राणि बहूनि भरतर्षभ यॊगः कुर्याद बलं पराप्य तैश च सर्वैर महीं चरेत ॥ 26 ॥

  27. पराप्नुयाद विषयांश चैव पुनश चॊग्रं तपश चरेत संक्षिपेच च पुनः पार्थ सूर्यस तेजॊ गुणान इव ॥ 27 ॥

  28. बलस्थस्य हि यॊगस्य बन्धनेशस्य पार्थिव विमॊक्षप्रभविष्णुत्वम उपपन्नम असंशयम ॥ 28 ॥

  29. बलानि यॊगे परॊक्तानि मयैतानि विशां पते निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस तव ॥ 29 ॥

  30. आत्मनश च समाधाने धारणां परति चाभिभॊ निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥ 30 ॥

  31. अप्रमत्तॊ यथा धन्वी लक्ष्यं हन्ति समाहितः युक्तः सम्यक तथा यॊगी मॊक्षं पराप्नॊत्य असंशयम ॥ 31 ॥

  32. सनेहपूर्णे यथा पात्रे मन आधाय निश्चलम पुरुषॊ यत्त आरॊहेत सॊपानं युक्तमानसः ॥ 32 ॥

  33. युक्त्वा तथायम आत्मानं यॊगः पार्थिव निश्चलम करॊत्य अमलम आत्मानं भास्करॊपम दर्शनम ॥ 33 ॥

  34. यथा च नावं कौन्तेय कर्णधारः समाहितः महार्णव गतां शीघ्रं नयेत पार्थिव पत्तनम ॥ 34 ॥

  35. तद्वद आत्मसमाधानं युक्त्वा यॊगेन तत्त्ववित दुर्गमं सथानम आप्नॊति हित्वा देहम इमं नृप ॥ 35 ॥

  36. सारथिश च यथा युक्त्वा सदश्वान सुसमाहितः देशम इष्टं नयत्य आशु धन्विनं पुरुषर्षभ ॥ 36 ॥

  37. तथैव नृपते यॊगी धारणासु समाहितः पराप्नॊत्य आशु परं सथानं लक्षं मुक्त इवाशुगः ॥ 37 ॥

  38. आवेश्यात्मनि चात्मानं यॊगी तिष्ठति यॊ ऽचलः पापं हन्तेव मीनानां पदम आप्नॊति सॊ ऽजरम ॥ 38 ॥

  39. नाभ्यां कन्थे च शीर्षे च हृदि वक्षसि पार्श्वयॊः दर्शने सपर्शने चापि घराणे चामितविक्रम ॥ 39 ॥

  40. सथानेष्व एतेषु यॊ यॊगी महाव्रतसमाहितः आत्मना सूक्ष्मम आत्मानं युङ्क्ते सम्यग विशां पतौ ॥ 40 ॥

  41. स शीघ्रम अमलप्रज्ञः कर्म दग्ध्वा शुभाशुभम उत्तमं यॊगम आस्थाय यदीच्छति विमुच्यते ॥ 41 ॥

  42. [य] आहारान कीदृशान कृत्वा कानि जित्वा च भारत यॊगी बलम अवाप्नॊति तद भवान वक्तुम अर्हति ॥ 42 ॥

  43. [भी] कनानां भक्षणे युक्तः पिन्याकस्य च भक्षणे सनेहानां वर्जने युक्तॊ यॊगी बलम अवाप्नुयात ॥ 43 ॥

  44. भुज्ञानॊ यावकं रूक्षं दीर्घकालम अरिंदम एकारामॊ विशुद्धात्मा यॊगी बलम अवाप्नुयात ॥ 44 ॥

  45. पक्षान मासान ऋतूंश चित्रान संचरंश च गुहास तथा अपः पीत्वा पयॊ मिश्रा यॊगी बलम अवाप्नुयात ॥ 45 ॥

  46. अखन्दम अपि वा मासं सततं मनुजेश्वर उपॊष्य सम्यक शुद्धात्मा यॊगी बलम अवाप्नुयात ॥ 46 ॥

  47. कामं जित्वा तथा करॊधं शीतॊष्णे वर्षम एव च भयं निद्रां तथा शवासं पौरुषं विषयांस तथा ॥ 47 ॥

  48. अरतिं दुर्जयां चैव घॊरां तृष्णां च पार्थिव सपर्शान सर्वांस तथा तन्द्रीं दुर्जयां नृपसत्तम ॥ 48 ॥

  49. दीपयन्ति महात्मानः सूक्ष्मम आत्मानम आत्मना वीतरागा महाप्राज्ञा धयानाध्ययन संपदा ॥ 49 ॥

  50. दुर्गस तव एष मतः पन्था बराह्मणानां विपश्चिताम न कश चिद वरजति हय अस्मिन कषेमेण भरतर्षभ ॥ 50 ॥

  51. यथा कश चिद वनं घॊरं बहु सर्पसरीसृपम शवभ्रवत तॊयहीनं च दुर्गमं बहु कन्तकम ॥ 51 ॥

  52. अभक्तम अतवी परायं दावदग्धमहीरुहम पन्थानं तस्कराकीर्णं कषेमेणाभिपतेद युवा ॥ 52 ॥

  53. यॊगमार्गं तथासाद्य यः कश चिद भजते दविजः कषेमेणॊपरमेन मार्गाद बहुदॊषॊ हि स समृतः ॥ 53 ॥

  54. सुष्ठेयं कषुर धारासु निशितासु महीपते धारणासु तु यॊगस्य दुःस्थेयम अकृतात्मभिः ॥ 54 ॥

  55. विपन्ना धारणास तात नयन्ति न शुभां गतिम नेतृहीना यथा नावः पुरुषान अर्णवे नृप ॥ 55 ॥

  56. यस तु तिष्ठति कौन्तेय धारणासु यथाविधि मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥ 56 ॥

  57. नाना शास्त्रेषु निष्पन्नं यॊगेष्व इदम उदाहृतम परं यॊगं तु यत्कृत्स्नं निश्चितं तद दविजातिषु ॥ 57 ॥

  58. परं हि तद बरह्म महन महात्मन; बरह्माणम ईशं वरदं च विष्णुम भवं च धर्मं च षडाननं च; सॊ बरह्मपुत्रांश च महानुभावान ॥ 58 ॥

  59. तमश च कस्तं सुमहद रजश च; सत्त्वं च शुद्धं परकृतिं परां च सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश च कृत्स्नं सुमहच च धैर्यम ॥ 59 ॥

  60. नराधिपं वै विमलं सतारं; विश्वांश च देवान उरगान पितॄंश च शैलांश च कृत्स्नान उदधींश च घॊरान; नदीश च सर्वाः सवनन घनांश च ॥ 60 ॥

  61. नागान नगान यक्षगणान दिशश; च गन्धर्वसंघान पुरुषान सत्रियश च परस्परं पराप्य महान महात्मा; विशेत यॊगी नचिराद विमुक्तः ॥ 61 ॥

  62. कथा च येयं नृपते परसक्ता; देवे महावीर्यमतौ सुभा यम यॊगान स सर्वान अभिभूय मर्त्यान; नारायणात्मा कुरुते महात्मा ॥ 62 ॥

Reach this point to mark the section finished.

Continue to अध्याय 290

Previous: अध्याय 288