[पराषर] एष धर्मविधिस तात गृहस्थस्य परकीर्तितः तपस्विधिं तु वक्ष्यामि तन मे निगदतः शृणु ॥ 1 ॥
परायेन हि गृहस्थस्य ममत्वं नाम जायते सङ्गागतं नरश्रेष्ठ भावैस तामसराजसैः ॥ 2 ॥
गृहाण्य आश्रित्य गावश च कषेत्राणि च धनानि च दाराः पुत्राश च भृत्याश च भवन्तीह नरस्य वै ॥ 3 ॥
एवं तस्य परवृत्तस्य नित्यम एवानुपश्यतः रागद्वेषौ विवर्धेते हय अनित्यत्वम अपश्यतः ॥ 4 ॥
रागद्वेषाभिभूतं च नरं दरव्यवशानुगम मॊहजाता रतिर नाम समुपैति नराधिप ॥ 5 ॥
कृतार्थॊ भॊगतॊ भूत्वा स वै रतिपरायनः लाभं गराम्यसुखाद अन्यं रतितॊ नानुपश्यति ॥ 6 ॥
ततॊ लॊभाभिभूतात्मा सङ्गाद वर्धयते जनम पुष्ट्य अर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥ 7 ॥
स जानन्न अपि चाकार्यम अर्थार्थं सेवते नरः बाल सनेहपरीतात्मा तत कषयाच चानुतप्यते ॥ 8 ॥
ततॊ मानेन संपन्नॊ रक्षन्न आत्मपराजयम करॊति येन भॊगी सयाम इति तस्माद विनश्यति ॥ 9 ॥
तपॊ हि बुद्धियुक्तानां शाश्वतं बरह्म दर्शनम अन्विच्छतां शुभं कर्म नराणां तयजतां सुखम ॥ 10 ॥
सनेहायतन नाशाच च धननाशाच च पार्थिव आधिव्याधि परतापाच च निर्वेदम उपगच्छति ॥ 11 ॥
निर्वेदाद आत्मसंबॊधः संबॊधाच छास्त्र दर्शनम शास्त्रार्थदर्शनाद राजंस तप एवानुपश्यति ॥ 12 ॥
दुर्लभॊ हि मनुष्येन्द्र नरः परत्यवमर्शवान यॊ वै परिय सुखे कषीणे तपः कर्तुं वयवस्यति ॥ 13 ॥
तपः सर्वगतं तात हीनस्यापि विधीयते जितेन्द्रियस्य दान्तस्य सवर्गमार्गप्रदेशकम ॥ 14 ॥
परजापतिः परजाः पूर्वम असृजत तपसा विभुः कव चित कव चिद वरतपरॊ वरतान्य आस्थाय पार्थिव ॥ 15 ॥
आदित्या वसवॊ रुद्रास तथैवाग्न्य अश्विमारुताः विश्वेदेवास तथा साध्याः पितरॊ ऽथ मरुद्गणाः ॥ 16 ॥
यक्षराक्षस गन्धर्वाः सिद्धाश चान्ये दिवौकसः संसिद्धास तपसा तात ये चान्ये सवर्गवासिनः ॥ 17 ॥
ये चादौ बरह्मणा सृष्टा बराह्मणास तपसा पुरा ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥ 18 ॥
मर्त्यलॊके च राजानॊ ये चान्ये गृहमेधिनः महाकुलेषु दृश्यन्ते तत सर्वं तपसः फलम ॥ 19 ॥
कौशिकानि च वस्त्राणि शुभान्य आभरणानि च वाहनासन यानानि सर्वं तत तपसः फलम ॥ 20 ॥
मनॊ ऽनुकूलाः परमदा रूपवत्यः सहस्रशः वासः परासादपृष्ठे च तत सर्वं तपसः फलम ॥ 21 ॥
शयनानि च मुख्यानि भॊज्यानि विविधानि च अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम ॥ 22 ॥
नाप्राप्यं तपसा किं चित तरैलॊक्ये ऽसमिन परंतप उपभॊग परित्यागः फलान्य अकृतकर्मणाम ॥ 23 ॥
सुखितॊ दुःखितॊ वापि नरॊ लॊभं परित्यजेत अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥ 24 ॥
असंतॊषॊ ऽसुखायैव लॊभाद इन्द्रियविभ्रमः ततॊ ऽसय नश्यति परज्ञा विद्येवाभ्यास वर्जिता ॥ 25 ॥
नष्ट परज्ञॊ यदा भवति तदा नयायं न पश्यति तस्मात सुखक्षये पराप्ते पुमान उग्रं तपश चरेत ॥ 26 ॥
यद इष्टं तत सुखं पराहुर दवेष्यं दुःखम इहॊच्यते कृताकृतस्य तपसः फलं पश्यस्व यादृशम ॥ 27 ॥
नित्यं भद्राणि पश्यन्ति विषयांश चॊपभुञ्जते पराकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥ 28 ॥
अप्रियाण्य अवमानांश च दुःखं बहुविधात्मकम फलार्थी तत पथत्यक्तः पराप्नॊति विषयात्मकम ॥ 29 ॥
धर्मे तपसि दाने च विचिकित्सास्य जायते स कृत्वा पापकान्य एव निरयं परतिपद्यते ॥ 30 ॥
सुखे तु वर्तमानॊ वै दुःखे वापि नरॊत्तम सववृत्ताद यॊ न चलति शास्त्रचक्षुः स मानवः ॥ 31 ॥
इषुप्रपात मात्रं हि सपर्शयॊगे रतिः समृता रसने दर्शने घराणे शरवणे च विशां पते ॥ 32 ॥
ततॊ ऽसय जायते तीव्रा वेदना तत कषयात पुनः बुधा येन परशंसन्ति मॊक्षं सुखम अनुत्तमम ॥ 33 ॥
ततः फलार्थं चरति भवन्ति जयायसॊ गुणाः धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥ 34 ॥
अप्रयत्नागताः सेव्या गृहस्थैर विषयाः सदा परयत्नेनॊपगम्यश च सवधर्म इति मे मतिः ॥ 35 ॥
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम धर्मक्रिया वियुक्तानाम अशक्त्या संवृतात्मनाम ॥ 36 ॥
करियमाणं यदा कर्म नाशं गच्छति मानुषम तेषां नान्यद ऋते लॊके तपसः कर्म विद्यते ॥ 37 ॥
सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम दाक्ष्येण हव्यकव्यार्थं सवधर्मं विचरेन नृप ॥ 38 ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम एवम आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम ॥ 39 ॥
शान्तिपर्व · Shanti Parva
अध्याय 284
Reach this point to mark the section finished.
Continue to अध्याय 285