[पराषर] परतिग्रहागता विप्रे कषत्रिये शस्त्रनिर्जिताः वैश्ये नयायार्जिताश चैव शूद्रे शुश्रूसयार्जिताः सवलाप्य अर्थाः परशस्यन्ते धर्मस्यार्थे महाफलाः ॥ 1 ॥
नित्यं तरयाणां वर्णानां शूद्रः शुश्रूसुर उच्यते कषत्रधर्मा वैश्य धर्मा नावृत्तिः पतति दविजः शूद्र कर्मा यदा तु सयात तदा पतति वै दविजः ॥ 2 ॥
वानिज्यं पाशुपाल्यं च तथा शिल्पॊपजीवनम शूद्रस्यापि विधीयन्ते यदा वृत्तिर न जायते ॥ 3 ॥
रङ्गावतरणं चैव तथारूपॊपजीवनम मद्य मांसॊपजीव्यं च विक्रयॊ लॊहचर्मणॊः ॥ 4 ॥
अपूर्विणा न कर्तव्यं कर्म लॊके विगर्हितम कृतपूर्विणस तु तयजतॊ महान धर्म इति शरुतिः ॥ 5 ॥
संसिद्धिः पुरुषॊ लॊके यद आचरति पापकम मदेनाभिप्लुत मनास तच च न गराह्यम उच्यते ॥ 6 ॥
शरूयन्ते हि पुराणे वै परजा धिग दन्द शासनाः दान्ता धर्मप्रधानाश च नयायधर्मानुवर्तकाः ॥ 7 ॥
धर्म एव सदा नॄणाम इह राजन परशस्यते धर्मवृद्धा गुणान एव सेवन्ते हि नरा भुवि ॥ 8 ॥
तं धर्मम असुरास तात नामृष्यन्त जनाधिप विवर्धमानाः करमशस तत्र ते ऽनवाविशन परजाः ॥ 9 ॥
तेषां दर्पः समभवत परजानां धर्मनाशनः दर्पात्मनां ततः करॊधः पुनस तेषाम अजायत ॥ 10 ॥
ततः करॊधाभिभूतानां वृत्तं लज्जा समन्वितम हरीश चैवाप्य अनशद राजंस ततॊ मॊहॊ वयजायत ॥ 11 ॥
ततॊ मॊहपरीतास ते नापश्यन्त यथा पुरा परस्पराव अमर्देन वर्तयन्ति यथासुखम ॥ 12 ॥
तान पराप्य तु स धिग दण्डॊ न कारणम अतॊ ऽभवत ततॊ ऽभयगच्छन देवांश च बराह्मणांश चावमन्य ह ॥ 13 ॥
एतस्मिन्न एव काले तु देवा देववरं शिवम अगच्छञ शरणं वीरं बहुरूपं गणाधिपम ॥ 14 ॥
तेन सम ते गगनगाः सपुराः पातिताः कषितौ तिस्रॊ ऽपय एकेन बानेन देवाप्यायित तेजसा ॥ 15 ॥
तेषाम अधिपतिस तव आसीद भीमॊ भीमपराक्रमः देवतानां भयकरः स हतः शूलपाणिना ॥ 16 ॥
तस्मिन हते ऽथ सवं भावं परत्यपद्यन्त मानवाः परावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ॥ 17 ॥
ततॊ ऽभयसिञ्चन राज्येन देवानां दिवि वासवम सप्तर्षयश चान्वयुञ्जन नराणां दन्द धारणे ॥ 18 ॥
सप्तर्षीणाम अथॊर्ध्वं च विपृथुर नाम पार्थिवः राजानः कषत्रियाश चैव मन्दलेषु पृथक पृथक ॥ 19 ॥
महाकुलेषु ये जाता वृत्ताः पूर्वतराश च ये तेषाम अथासुरॊ भावॊ हृदयान नापसर्पति ॥ 20 ॥
तस्मात तेनैव भावेन सानुषङ्गेन पार्थिवाः आसुराण्य एव कर्माणि नयसेवन भीमविक्रमाः ॥ 21 ॥
परत्यतिष्ठंश च तेष्व एव तान्य एव सथापयन्ति च भजन्ते तानि चाद्यापि ये बालिशतमा नराः ॥ 22 ॥
तस्माद अहं बरवीमि तवां राजन संचिन्त्य शास्त्रतः संसिद्धाधिगमं कुर्यात कर्म हिंसात्मकं तयजेत ॥ 23 ॥
न संकरेण दरविणं विचिन्वीत विचक्षणः धर्मार्थं नयायम उत्सृज्य न तत कल्यानम उच्यते ॥ 24 ॥
स तवम एवंविधॊ दान्तः कषत्रियः परियबान्धवः परजा भृत्यांश च पुत्रांश च सवधर्मेणानुपालय ॥ 25 ॥
इष्टानिष्ट समायॊगॊ वैरं सौहार्दम एव च अथ जातिसहस्राणि बहूनि परिवर्तते ॥ 26 ॥
तस्माद गुणेषु रज्येथा मा दॊषेषु कदा चन निर्गुणॊ यॊ हि दुर्बुद्धिर आत्मनः सॊ ऽरिर उच्यते ॥ 27 ॥
मानुषेषु महाराज धर्माधर्मौ परवर्ततः न तथान्येषु भूतेषु मनुष्यरहितेष्व इह ॥ 28 ॥
धर्मशीलॊ नरॊ विद्वान ईहकॊ ऽनीहकॊ ऽपि वा आत्मभूतः सदा लॊके चरेद भूतान्य अहिंसयन ॥ 29 ॥
यदा वयपेतद धृल लेखं मनॊ भवति तस्य वै नानृतं चैव भवति तदा कल्यानम ऋच्छति ॥ 30 ॥
शान्तिपर्व · Shanti Parva
अध्याय 283
Reach this point to mark the section finished.
Continue to अध्याय 284