धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 282

  1. [पराषर] वृत्तिः सकाशाद वर्णेभ्यस तरिभ्यॊ हीनस्य शॊभना परीत्यॊपनीता निर्दिष्टा धर्मिष्ठान कुरुते सदा ॥ 1 ॥

  2. वृत्तिश चेन नास्ति शूद्रस्य पितृपैतामही धरुवा न वृत्तिं परतॊ मार्गेच छुश्रूसां तु परयॊजयेत ॥ 2 ॥

  3. सद्भिस तु सह संसर्गः शॊभते धर्मदर्शिभिः नित्यं सर्वास्व अवस्थासु नासद्भिर इति मे मतिः ॥ 3 ॥

  4. यथॊदय गिरौ दरव्यं संनिकर्षेण दीप्यते तथा सत संनिकर्षेण हीनवर्णॊ ऽपि दीप्यते ॥ 4 ॥

  5. यादृशेन हि वर्णेन भाव्यते शुक्लम अम्बरम तादृशं कुरुते रूपम एतद एवम अवैहि मे ॥ 5 ॥

  6. तस्माद गुणेषु रज्येथा मा दॊषेषु कदा चन अनित्यम इह मर्त्यानां जीवितं हि चलाचलम ॥ 6 ॥

  7. सुखे वा यदि वा दुःखे वर्तमानॊ विचक्षणः यश चिनॊति शुभान्य एव स भद्राणीह पश्यति ॥ 7 ॥

  8. धर्माद अपेतं यत कर्म यद्य अपि सयान महाफलम न तत सेवेत मेधावी न तद धितम इहॊच्यते ॥ 8 ॥

  9. यॊ हृत्वा गॊसहस्राणि नृपॊ दद्याद अरक्षिता स शब्दमात्रफलभाग राजा भवति तस्करः ॥ 9 ॥

  10. सवयम्भूर असृजच चाग्रे धातारं लॊकपूजितम धातासृजत पुत्रम एकं परजानां धारणे रतम ॥ 10 ॥

  11. तम अर्चयित्वा वैश्यस तु कुर्याद अत्यर्थम ऋद्धिमत रक्षितव्यं तु राजन्यैर उपयॊज्यं दविजातिभिः ॥ 11 ॥

  12. अजिह्मैर अशथ करॊधैर हव्यकव्य परयॊक्तृभिः शूद्रैर निर्मार्जनं कार्यम एवं धर्मॊ न नश्यति ॥ 12 ॥

  13. अप्रनस्ते ततॊ धर्मे भवन्ति सुखिताः परजाः सुखेन तासां राजेन्द्र मॊदन्ते दिवि देवताः ॥ 13 ॥

  14. तस्माद यॊ रक्षति नृपः स धर्मेणाभिपूज्यते अधीते चापि यॊ विप्रॊ वैश्यॊ यश चार्जने रतः ॥ 14 ॥

  15. यश च शुश्रूसते शूद्रः सततं नियतेन्द्रियः अतॊ ऽनयथा मनुष्येन्द्र सवधर्मात परिहीयते ॥ 15 ॥

  16. पराण संतापनिर्दिष्टाः काकिन्यॊ ऽपि महाफलाः नयायेनॊपार्जिता दत्ताः किम उतान्याः सहस्रशः ॥ 16 ॥

  17. सत्कृत्य तु दविजातिभ्यॊ यॊ ददाति नराधिप यादृशं तादृशं नित्यम अश्नाति फलम ऊर्जितम ॥ 17 ॥

  18. अभिगम्य दत्तं तुष्ट्या यद धन्यम आहुर अभिष्टुतम याचितेन तु यद दत्तं तद आहुर्मध्यमं बुधाः ॥ 18 ॥

  19. अवज्ञया दीयते यत तथैवाश्रद्धयापि च तद आहुर अधमं दानं मुनयः सत्यवादिनः ॥ 19 ॥

  20. अतिक्रमे मज्जमानॊ विविधेन नरः सदा तथा परयत्नं कुर्वीत यथा मुच्येत संशयात ॥ 20 ॥

  21. दमेन शॊभते विप्रः कषत्रियॊ विजयेन तु धनेन वैश्यः शूद्रस तु नित्यं दाक्ष्येण शॊभते ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 283

Previous: अध्याय 281