धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 281

  1. [पराषर] कः कस्य चॊपकुरुते कश च कस्मै परयच्छति परानी करॊत्य अयं कर्म सर्वम आत्मार्थम आत्मना ॥ 1 ॥

  2. गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत सॊदर्यं भरातरम अपि किम उतान्यं पृथग्जनम ॥ 2 ॥

  3. विशिष्टस्य विशिष्टाच च तुल्यौ दानप्रतिग्रहौ तयॊः पुण्यतरं दानं तद दविजस्य परयच्छतः ॥ 3 ॥

  4. नयायागतं धनं वर्णैर नयायेनैव विवर्धितम संरक्ष्यं यत्नम आस्थाय धर्मार्थम इति निश्चयः ॥ 4 ॥

  5. न धर्मार्थी नृशंसेन कर्मणा धनम अर्जयेत शक्तितः सर्वकार्याणि कुर्यान नर्द्धिम अनुस्मरेत ॥ 5 ॥

  6. अपॊ हि परयतः शीतास तापिता जवलनेन वा शक्तितॊ ऽतिथये दत्त्वा कषुधार्तायाश्नुते फलम ॥ 6 ॥

  7. रन्तिदेवेन लॊकेष्टा सिद्धिः पराप्ता महात्मना फलपत्रैर अथॊ मूलैर मुनीन अर्चितवान असौ ॥ 7 ॥

  8. तैर एव फलपत्रैश च स माथरम अतॊषयत तस्माल लेभे परं सथानं शैब्यॊ ऽपि पृथिवीपतिः ॥ 8 ॥

  9. देवतातिथिभृत्येभ्यः पितृभ्यॊ ऽथात्मनस तथा ऋणवाञ जायते मर्त्यस तस्माद अनृणतां वरजेत ॥ 9 ॥

  10. सवाध्यायेन महर्षिभ्यॊ देवेभ्यॊ यज्ञकर्मणा पितृभ्यः शराद्धदानेन नृणाम अभ्यर्चनेन च ॥ 10 ॥

  11. वाचः शेषावहार्येण पालनेनात्मनॊ ऽपि च यथावद धृत्य वर्गस्य चिकीर्षेद धर्मम आदितः ॥ 11 ॥

  12. परयत्नेन च संसिद्धा धनैर अपि विवर्जिताः सम्यग घुत्वा हुतवहं मुनयः सिद्धिम आगताः ॥ 12 ॥

  13. विश्वामित्रस्य पुत्रत्वम ऋचीक तनयॊ ऽगमत ऋग्भिः सतुत्वा महाभागॊ देवान वै यज्ञभागिनः ॥ 13 ॥

  14. गतः शुक्रत्वम उशना देवदेव परसादनात देवीं सतुत्वा तु गगने मॊदते तेजसा वृतः ॥ 14 ॥

  15. असितॊ देवलश चैव तथा नारद पर्तवौ कक्षीवाञ जामदग्न्यश च रामस तान्द्यस तथांशुमान ॥ 15 ॥

  16. वसिष्ठॊ जमदग्निश च विश्वामित्रॊ ऽतरिर एव च भरद्वाजॊ हरिश्मश्रुः कुन्दधारः शरुतश्रवाः ॥ 16 ॥

  17. एते महर्षयः सतुत्वा विष्णुम ऋग्भिः समाहिताः लेभिरे तपसा सिद्धिं परसादात तस्य धीमतः ॥ 17 ॥

  18. अनर्हाश चार्हतां पराप्ताः सन्तः सतुत्वा तम एव ह न तु वृद्धिम इहान्विच्छेत कर्मकृत्वा जुगुप्सितम ॥ 18 ॥

  19. ये ऽरथा धर्मेण ते सत्या ये ऽधर्मेण धिग अस्तु तान धर्मं वै शाश्वतं लॊके न जह्याद धनकाङ्क्षया ॥ 19 ॥

  20. आहिताग्निर हि धर्मात्मा यः स पुण्यकृद उत्तमः वेदा हि सर्वे राजेन्द्र सथितास तरिष्व अग्निषु परभॊ ॥ 20 ॥

  21. स चाप्य अग्न्याहितॊ विप्रः करिया यस्य न हीयते शरेयॊ हय अनाहिताग्नित्वम अग्निहॊत्रं न निष्क्रियम ॥ 21 ॥

  22. अग्निर आत्मा च माता च पिता जनयिता तथा गुरुश च नरशार्दूल परिचर्या यथातथम ॥ 22 ॥

  23. मानं तयक्त्वा यॊ नरॊ वृद्धसेवी; विद्वान कलीबः पश्यति परीतियॊगात दाक्ष्येणाहीनॊ धर्मयुक्तॊ नदान्तॊ; लॊके ऽसमिन वै पूज्यते सद्भिर आर्यः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 282

Previous: अध्याय 280