धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 280

  1. [पराषर] मनॊरथरथं पराप्य इन्द्रियार्थ हयं नरः रश्मिभिर जञानसंभूतैर यॊ गच्छति स बुद्धिमान ॥ 1 ॥

  2. सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते दविजातिहस्तान निर्वृत्ता न तु तुल्यात परस्परम ॥ 2 ॥

  3. आयुर नसुलभं लब्ध्वा नावकर्षेद विशां पते उत्कर्षार्थं परयतते नरः पुण्येन कर्मणा ॥ 3 ॥

  4. वर्णेभ्यॊ ऽपि परिभ्रष्टः स वै संमानम अर्हति न तु यः सत्क्रियां पराप्य राजसं कर्म सेवते ॥ 4 ॥

  5. वर्णॊत्कर्षम अवाप्नॊति नरः पुण्येन कर्मणा दुर्लभं तम अलब्धा हि हन्यात पापेन कर्मणा ॥ 5 ॥

  6. अज्ञानाद धि कृतं पापं तपसैवाभिनिर्नुदेत पापं हि कर्मफलति पापम एव सवयं कृतम तस्मात पापं न सेवेत कर्म दुःखफलॊदयम ॥ 6 ॥

  7. पापानुबन्धं यत कर्म यद्य अपि सयान महाफलम न तत सेवेत मेधावी शुचिः कुसलिलं यथा ॥ 7 ॥

  8. किं कस्तम अनुपश्यामि फलं पापस्य कर्मणः परत्यापन्नस्य हि सतॊ नात्मा तावद विरॊचते ॥ 8 ॥

  9. परत्यापत्तिश च यस्येह बालिशस्य न जायते तस्यापि सुमहांस तापः परस्थितस्यॊपजायते ॥ 9 ॥

  10. विरक्तं शॊध्यते वस्त्रं न तु कृष्णॊपसंहितम परयत्नेन मनुष्येन्द्र पापम एवं निबॊध मे ॥ 10 ॥

  11. सवयं कृत्वा तु यः पापं शुभम एवानुतिष्ठति परायश्चित्तं नरः कर्तुम उभयं सॊ ऽशनुते पृथक ॥ 11 ॥

  12. अजानात तु कृतां हिंसाम अहिंसा वयपकर्षति बराह्मणाः शास्त्रनिर्देशाद इत्य आहुर बरह्मवादिनः ॥ 12 ॥

  13. कथा कामकृतं चास्य विहिंसैवापकर्षति इत्य आहुर धर्मशास्त्रज्ञा बराह्मणा वेदपारगाः ॥ 13 ॥

  14. अहं तु तावत पश्यामि कर्म यद वर्तते कृतम गुणयुक्तं परकाशं च पापेनानुपसंहितम ॥ 14 ॥

  15. यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥ 15 ॥

  16. भवत्य अल्पफलं कर्म सेवितं नित्यम उल्बनम अबुद्धिपूर्वं धर्मज्ञ कृतम उग्रेण कर्मणा ॥ 16 ॥

  17. कृतानि यानि कर्माणि दैवतैर मुनिभिस तथा नाचरेत तानि धर्मात्मा शरुत्वा चापि न कुत्सयेत ॥ 17 ॥

  18. संचिन्त्य मनसा राजन विदित्वा शक्तिम आत्मनः करॊति यः शुभं कर्म स वै भद्राणि पश्यति ॥ 18 ॥

  19. नवे कपाले सलिलं संन्यस्तं हीयते यथा नवेतरे तथा भावं पराप्नॊति सुखभावितम ॥ 19 ॥

  20. सतॊये ऽनयत तु यत तॊयं तस्मिन्न एव परसिच्यते वृद्धे वृद्धिम अवाप्नॊति सलिले सलिलं यथा ॥ 20 ॥

  21. एवं कर्माणि यानीह बुद्धियुक्तानि भूपते नसमानीह हीनानि तानि पुण्यतमान्य अपि ॥ 21 ॥

  22. राज्ञा जेतव्याः सायुधाश चॊन्नताश च; सम्यक कर्तव्यं पालनं च परजानाम अग्निश चेयॊ बहुभिश चापि यज्ञैर; अन्ते मध्ये वा वनम आश्रित्य सथेयम ॥ 22 ॥

  23. दमान्वितः पुरुषॊ धर्मशीलॊ; भूतानि चात्मानम इवानुपश्येत गरीयसः पूजयेद आत्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 281

Previous: अध्याय 279