[य] कथं नु मुक्तः पृथिवीं चरेद अस्मद्विधॊ नृपः नित्यं कैश च गुणैर युक्तः सङ्गपाशाद विमुच्यते ॥ 1 ॥
[भी] अत्र ते वर्तयिष्यामि इतिहासं पुरातनम अरिष्टनेमिना परॊक्तं सगरायानुपृच्छते ॥ 2 ॥
[सगर] किं शरेयः परमं बरह्मन कृत्वेह सुखम अश्नुते कथं न शॊचेन न कषुभ्येद एतद इच्छामि वेदितुम ॥ 3 ॥
[भी] एवम उक्तस तदा तार्क्ष्यः सर्वशास्त्रविशारदः विबुध्य संपदं चाग्र्यां सद वाक्यम इदम अब्रवीत ॥ 4 ॥
सुखं मॊक्षसुखं लॊके न च लॊकॊ ऽवगच्छति परसक्तः पुत्रपशुषु धनधान्य समाकुलः ॥ 5 ॥
सक्तबुद्धिर अशान्तात्मा न स शक्यश चिकित्सितुम सनेहपाशसितॊ मूढॊ न स मॊक्षाय कल्पते ॥ 6 ॥
सनेहजान इह ते पाशान वक्ष्यामि शृणु तान मम सकर्णकेन शिरसा शक्याश छेत्तुं विजानता ॥ 7 ॥
संभाव्य पुत्रान कालेन यौवनस्थान निवेश्य च समर्थाञ जीवने जञात्वा मुक्तश चर यथासुखम ॥ 8 ॥
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम जञात्वा परजहि काले तवं परार्थम अनुदृश्य च ॥ 9 ॥
सापत्यॊ निरपत्यॊ वा मुक्तश चर यथासुखम इन्द्रियैर इन्द्रियार्थांस तवम अनुभूय यथाविधि ॥ 10 ॥
कृतकौतूहलस तेषु मुक्तश चर यथासुखम उपपत्त्यॊपलब्धेषु लाभेषु च समॊ भव ॥ 11 ॥
एष तावत समासेन तव संकीर्तितॊ मया मॊक्षार्थॊ विस्तरेणापि भूयॊ वक्ष्यामि तच छृणु ॥ 12 ॥
मुक्ता वीतभया लॊके चरन्ति सुखिनॊ नराः सक्तभावा विनश्यन्ति नरास तत्र न संशयः ॥ 13 ॥
आहारसंचयाश चैव तथा कीत पिपीलिकाः असक्ताः सुखिनॊ लॊके सक्ताश चैव विनाशिनः ॥ 14 ॥
सवजने न च ते चिन्ता कर्तव्या मॊक्षबुद्धिना इमे मया विना भूता भविष्यन्ति कथं तव इति ॥ 15 ॥
सवयम उत्पद्यते जन्तुः सवयम एव विवर्धते सुखदुःखे तथा मृत्युं सवयम एवाधिगच्छति ॥ 16 ॥
भॊजनाच छादने चैव मात्रा पित्रा च संग्रहम सवकृतेनाधिगच्छन्ति लॊके नास्त्य अकृतं पुरा ॥ 17 ॥
धात्रा विहित भक्ष्याणि सर्वभूतानि मेदिनीम लॊके विपरिधावन्ति रक्षितानि सवकर्मभिः ॥ 18 ॥
सवयं मृत पिण्ड भूतस्य परतन्त्रस्य सर्वदा कॊ हेतुः सवजनं पॊष्टुं रक्षितुं वादृधात्मनः ॥ 19 ॥
सवजनं हि यदा मृत्युर हन्त्य एव तव पश्यतः कृते ऽपि यत्ने महति तत्र बॊद्धव्यम आत्मना ॥ 20 ॥
जीवन्तम अपि चैवैनं भरणे रक्षणे तथा असमाप्ते परित्यज्य पश्चाद अपि मरिष्यसि ॥ 21 ॥
यदा मृतश च सवजनं न जञास्यसि कथं चन सुखितं दुःखितं वापि ननु बॊद्धव्यम आत्मना ॥ 22 ॥
मृते वा तवयि जीवे वा यदि भॊक्ष्यति वै जनः सवकृतं ननु बुद्ध्वैवं कर्तव्यं हितम आत्मनः ॥ 23 ॥
एवं विजानँल लॊके ऽसमिन कः कस्येत्य अभिनिश्चितः मॊक्षे निवेशय मनॊ भूयश चाप्य उपधारय ॥ 24 ॥
कषुत्पिपासादयॊ भावा जिता यस्येह देहिनः करॊधॊ लॊभस तथा मॊहः सत्त्ववान मुक्त एव सः ॥ 25 ॥
दयूते पाने तथा सत्रीषु मृगयायां च यॊ नरः न परमाद्यति संमॊहात सततं मुक्त एव सः ॥ 26 ॥
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा भॊक्तव्यम इति यः खिन्नॊ दॊषबुद्धिः स उच्यते ॥ 27 ॥
आत्मभावं तथा सत्रीषु मुक्तम एव पुनः पुनः यः पश्यति सदा युक्तॊ यथावन मुक्त एव सः ॥ 28 ॥
संभवं च विनाशं च भूतानां चेष्टितं तथा यस तत्त्वतॊ विजानाति लॊके ऽसमिन मुक्त एव सः ॥ 29 ॥
परस्थं वाहसहस्रेषु यात्रार्थं चैव कॊतिषु परासादे मञ्चक सथानं यः पश्यति स मुच्यते ॥ 30 ॥
मृत्युनाभ्याहतं लॊकं वयाधिभिश चॊपपीदितम अवृत्ति कर्शितं चैव यः पश्यति स मुच्यते ॥ 31 ॥
यः पश्यति सुखीतुष्टॊ नपश्यंश च विहन्यते यश चाप्य अल्पेन संतुष्टॊ लॊके ऽसमिन मुक्त एव सः ॥ 32 ॥
अग्नीसॊमाव इदं सर्वम इतियश चानुपश्यति न च संस्पृश्यते भावैर अद्भुतैर मुक्त एव सः ॥ 33 ॥
पर्यङ्क शय्या भूमिश च समाने यस्य देहिनः शालयश च कदन्नं च यस्य सयान मुक्त एव सः ॥ 34 ॥
कषौमं च कुशचीरं च कौशेयं वल्कलानि च आविकं चर्म च समं यस्य सयान मुक्त एव सः ॥ 35 ॥
पञ्च भूतसमुद्भूतं लॊकं यश चानुपश्यति तथा च वर्तते दृष्ट्वा लॊके ऽसमिन मुक्त एव सः ॥ 36 ॥
सुखदुःखे समे यस्य लाभालाभौ यजाजयौ इच्छा दवेषौ भयॊद्वेगौ सर्वथा मुक्त एव सः ॥ 37 ॥
रक्तमूत्र पुरीसानां दॊषाणां संचयं तथा शरीरं दॊषबहुलं दृष्ट्वा चेदं विमुच्यते ॥ 38 ॥
वली पलित संयॊगं कार्श्यं वैवर्ण्यम एव च कुब्ज भावं च जरया यः पश्यति स मुच्यते ॥ 39 ॥
पुंस्त्वॊपघातं कालेन दर्शनॊपरमं तथा बाधिर्यं पराण मन्तत्वं यः पश्यति स मुच्यते ॥ 40 ॥
गतान ऋषींस तथा देवान असुरांश च तथागतान लॊकाद अस्मात परं लॊकं यः पश्यति स मुच्यते ॥ 41 ॥
परभावैर अन्वितास तैस तैः पार्थिवेन्द्राः सहस्रशः ये गताः पृथिवीं तयक्त्वा इति जञात्वा विमुच्यते ॥ 42 ॥
अर्थांश च दुर्लभाँल लॊके कलेशांश च सुलभांस तथा दुःखं चैव कुतुम्बार्थे यः पश्यति स मुच्यते ॥ 43 ॥
अपत्यानां च वैगुण्यं जनं विगुणम एव च पश्यन भूयिष्ठशॊ लॊके कॊ मॊक्षं नाभिपूजयेत ॥ 44 ॥
शास्त्राल लॊकाच च यॊ बुद्धः सर्वं पश्यति मानवः असारम इव मानुष्यं सर्वथा मुक्त एव सः ॥ 45 ॥
एतच छरुत्वा मम वचॊ भवांश चरतु मुक्तवत गार्हस्थ्ये यदि ते मॊक्षे कृता बुद्धिर अविक्लवा ॥ 46 ॥
तत तस्य वचनं शरुत्वा सम्यक स पृथिवीपतिः मॊक्षजैश च गुणैर युक्तः पालयाम आस च परजाः ॥ 47 ॥
शान्तिपर्व · Shanti Parva
अध्याय 277
Reach this point to mark the section finished.
Continue to अध्याय 278