धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 278

  1. [य] तिष्ठते मे सदा तात कौतूहलम इदं हृदि तद अहं शरॊतुम इच्छामि तवत्तः कुरुपितामह ॥ 1 ॥

  2. कथं देवर्षिर उशना सदा काव्यॊ महामतिः असुराणां परियकरः सुराणाम अप्रिये रतः ॥ 2 ॥

  3. वर्धयाम आस तेजश च किमर्थम अमितौजसाम नित्यं वैरनिबद्धाश च दानवाः सुरसत्तमैः ॥ 3 ॥

  4. कथं चाप्य उशना पराप शुक्रत्वम अमर दयुतिः ऋद्धिं च स कथं पराप्तः सर्वम एतद बरवीहि मे ॥ 4 ॥

  5. न यानि च स तेजस्वी मध्येन नभसः कथम एतद इच्छामि विज्ञातुं निखिलेन पितामह ॥ 5 ॥

  6. [भी] शृणु राजन्न अवहितः सर्वम एतद यथातथम यथामतियथा चैतच छरुत पूर्वं मयानघ ॥ 6 ॥

  7. एष भार्गव दायादॊ मुनिः सत्यॊ दृध वरतः असुराणां परियकरॊ निमित्ते करुणात्मके ॥ 7 ॥

  8. इन्द्रॊ ऽथ धनदॊ राजा यक्षरक्षॊऽधिपः स च परभविष्णुश च कॊशस्य जगतश च तथा परभुः ॥ 8 ॥

  9. तस्यात्मानम अथाविश्य यॊगसिद्धॊ महामुनिः रुद्ध्वा धनपतिं देवं यॊगेन हृतवान वसु ॥ 9 ॥

  10. हृते धने ततः शर्म न लेभे धनदस तथा आपन्न मन्युः संविग्नः सॊ ऽभयगात सुरसत्तमम ॥ 10 ॥

  11. निवेदयाम आस तदा शिवायामित तेजसे देव शरेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥ 11 ॥

  12. [कुबेर] यॊगात्मकेनॊशनसा रुद्ध्वा मम हृतं वसु यॊगेनात्म गतिं कृत्वा निःसृतश च महातपः ॥ 12 ॥

  13. [भी] एतच छरुत्वा ततः करुद्धॊ महायॊगी महेश्वरः संरक्तनयनॊ राजञ शूलम आदाय तस्थिवान ॥ 13 ॥

  14. कवास्वौ कवासाव इति पराह गृहीत्वा परमायुधम उशना दूरतस तस्य बभौ जञात्वा चिकीर्षितम ॥ 14 ॥

  15. स महायॊगिनॊ बुद्ध्वा तं रॊषं वै महात्मनः गतिम आगमनं वेत्ति सथानं वेत्ति ततः परभुः ॥ 15 ॥

  16. संचिन्त्यॊग्रेण तपसा महात्मानं महेश्वरम उशना यॊगसिद्धात्मा शूलाग्रे परत्यदृश्यत ॥ 16 ॥

  17. विज्ञात रूपः स तदा तपःसिद्धेन धन्विना जञात्वा शूलं च देवेशः पानिना समनामयत ॥ 17 ॥

  18. आनतेनाथ शूलेन पानिनामित तेजसा पिनाकम इति चॊवाच शूलम उग्रायुधः परभुः ॥ 18 ॥

  19. पानिमध्यगतं दृष्ट्वा भार्गवं तम उमापतिः आस्यं विवृत्य ककुदी पानिं संप्राक्षिपच छनैः ॥ 19 ॥

  20. स तु परविष्ट उशना कॊष्ठं माहेश्वरं परभुः वयचरच चापि तत्रासौ महात्मा भृगुनन्दनः ॥ 20 ॥

  21. [य] किमर्थं वयचरद राजन्न उशना तस्य धीमतः जथरे देवदेवस्य किं चाकार्षीन महाद्युतिः ॥ 21 ॥

  22. [भी] पुरा सॊ ऽनतर्जलगतः सथानु भूतॊ महाव्रतः वर्षाणाम अभवद राजन परयुतान्य अर्बुदानि च ॥ 22 ॥

  23. उदतिष्ठत तपस तप्त्वा दुश्चरं स महाह्रदात ततॊ देवातिदेवस तं बरह्मा समुपसर्पत ॥ 23 ॥

  24. तपॊवृद्धिम अपृच्छच च कुशलं चैनम अव्ययम तपः सुचीर्णम इति च परॊवाच वृषभध्वजः ॥ 24 ॥

  25. तत संयॊगेन वृद्धिं चाप्य अपश्यत स तु शंकरः महामतिर अचिन्त्यात्मा सत्यधर्मरतः सदा ॥ 25 ॥

  26. स तेनाध्यॊ महायॊगी तपसा च धनेन च वयराजत महाराज तरिषु लॊकेषु वीर्यवान ॥ 26 ॥

  27. ततः पिनाकी यॊगात्मा धयानयॊगं समाविशत उशना तु समुद्विग्नॊ निलिल्ये जथरे ततः ॥ 27 ॥

  28. तुष्टाव च महायॊगी देवं तत्रस्थ एव च निःसारं काङ्क्षमाणस तु तेजसा परत्यहन्यत ॥ 28 ॥

  29. उशना तु तदॊवाच जथरस्थॊ महामुनिः परसादं मे कुरुष्वेति पुनः पुनर अरिंदम ॥ 29 ॥

  30. तम उवाच महादेवॊ गच्छ शिश्नेन मॊक्षणम इति सरॊतांसि सर्वाणि रुद्ध्वा तरिदशपुंगवः ॥ 30 ॥

  31. अपश्यमानः स दवारं सर्वतः पिहितॊ मुनिः पर्यक्रामद दह्यमान इतश चेतश च तेजसा ॥ 31 ॥

  32. स विनिष्क्रम्य शिश्नेन शुक्रत्वम अभिपेदिवान कार्येण तेन नभसॊ नागच्छत च मध्यतः ॥ 32 ॥

  33. निष्क्रान्तम अथ तं दृष्ट्वा जवलन्तम इव तेजसा भवॊ रॊषसमाविष्टः शूलॊद्यतकरः सथितः ॥ 33 ॥

  34. नयवारयत तं देवी करुद्धं पशुपतिं पतिम पुत्रत्वम अगमद देव्या वारिते शङ्करे च सः ॥ 34 ॥

  35. [देवी] हिंसनीयस तवया नैष मम पुत्रत्वम आगतः न हि देवॊदरात कश चिन निःसृतॊ नाशम अर्छति ॥ 35 ॥

  36. [भी] ततः परीतॊ ऽभवद देव्याः परहसंश चेदम अब्रवीत गच्छत्य एष यथाकामम इति राजन पुनः पुनः ॥ 36 ॥

  37. ततः परनम्य वरदं देवं देवीम उमां तथा उशना पराप तद धीमान गतिम इष्टां महामुनिः ॥ 37 ॥

  38. एतत ते कथितं तात भार्गवस्य महात्मनः चरितं भरतश्रेष्ठ यन मां तवं परिपृच्छसि ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 279

Previous: अध्याय 277