[य] शॊकाद दुःखाच च मृत्यॊश च तरस्यन्ति परानिनः सदा उभयं मे यथा न सयात तन मे बरूहि पितामह ॥ 1 ॥
[भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादं समङ्गस्य च भारत ॥ 2 ॥
[नारद] उरसेव परनमसे बाहुभ्यां तरसीव च संप्रहृष्टमना नित्यं विशॊक इव लक्ष्यसे ॥ 3 ॥
उद्वेगं नेह ते किं चित सुसूक्ष्मम अपि लक्षये नित्यतृप्त इव सवस्थॊ बालवच च विचेष्टसे ॥ 4 ॥
[समन्ग] भूतं भव्यं भविष्यच च सर्वं सत्त्वेषु मानद तेषां तत्त्वानि जानामि ततॊ न विमना हय अहम ॥ 5 ॥
उपक्रमान अहं वेद पुनर एव फलॊदयान लॊके फलानि चित्राणि ततॊ न विमना हय अहम ॥ 6 ॥
अगाधाश चाप्रतिष्ठाश च गतिमन्तश च नारद अन्धा जदाश च जीवन्ति पश्यास्मान अपि जीवतः ॥ 7 ॥
विहितेनैव जीवन्ति अरॊगाङ्गा दिवौकसः बलवन्तॊ ऽबलाश चैव तद्वद अस्मान सभाजय ॥ 8 ॥
सहस्रिणश च जीवन्ति जीवन्ति शतिनस तथा शाकेन चान्ये जीवन्ति पश्यास्मान अपि जीवतः ॥ 9 ॥
यदा न शॊचेमहि किं नु न सयाद; धर्मेण वा नारद कर्मणा वा कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन न विधर्षयन्ति ॥ 10 ॥
यस्मै परज्ञां कथयन्ते मनुष्याः; परज्ञा मूलॊ हीन्द्रियाणां परसादः मुह्यन्ति शॊचन्ति यदेन्द्रियाणि; परज्ञा लाभॊ नास्ति मूढेन्द्रियस्य ॥ 11 ॥
मूढस्य दर्पः स पुनर मॊह एव; मूढस्य नायं न परॊ ऽसति लॊकः न हय एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशॊ लाभ एव ॥ 12 ॥
भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात इष्टान भॊगान नानुरुध्येत सुखं वा; न चिन्तयेद दुःखम अभ्यागतं वा ॥ 13 ॥
समाहितॊ न सपृहयेत परेषां; नाना गतं नाभिनन्देत लाभम न चापि हृष्येद विपुले ऽरथलाभे; तथार्थ नाशे च न वै विषीदेत ॥ 14 ॥
न बान्धवा न च वित्तं न कौली; न च शरुतं न च मन्त्रा न वीर्यम दुःखात तरातुं सर्व एवॊत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम ॥ 15 ॥
नास्ति बुद्धिर अयुक्तस्य नायॊगाद विद्यते सुखम धृतिश च दुःखत्यागश चाप्य उभयं नः सुखॊदयम ॥ 16 ॥
परियं हि हर्षजननं हर्ष उत्सेकवर्धनः उत्सेकॊ नरकायैव तस्मात तं संत्यजाम्य अहम ॥ 17 ॥
एताञ शॊकभयॊत्सेकान मॊहनान सुखदुःखयॊः पश्यामि साक्षिवल लॊके देहस्यास्य विचेष्टनात ॥ 18 ॥
अर्थकामौ परित्यज्य विशॊकॊ विगतज्वरः तृष्णा मॊहौ तु संत्यज्य चरामि पृथिवीम इमाम ॥ 19 ॥
न मृत्युतॊ न चाधर्मान न लॊभान न कुतश चन पीतामृतस्येवात्यन्तम इह चामुत्र वाभयम ॥ 20 ॥
एतद बरह्मन विजानामि महत कृत्वा तपॊ ऽवययम तेन नारद संप्राप्तॊ न मां शॊकः परबाधते ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 275
Reach this point to mark the section finished.
Continue to अध्याय 276