[उषनस] नमस तस्मै भगवते देवाय परभविष्णवे यस्य पृथ्वी तलं तात साकाशं बाहुगॊचरम ॥ 1 ॥
मूर्धा यस्य तव अनन्तं च सथानं दानव सत्तम तस्याहं ते परवक्ष्यामि विष्णॊर माहात्म्यम उत्तमम ॥ 2 ॥
[भी] तयॊः संवदतॊर एवम आजगाम महामुनिः सनत्कुमारॊ धर्मात्मा संशय छेदनाय वै ॥ 3 ॥
स पूजितॊ ऽसुरेन्द्रेण मुनिनॊशनसा तथा निषसादासने राजन महार्हे मुनिपुंगवः ॥ 4 ॥
तम आसीनं महाप्राज्ञम उशना वाक्यम अब्रवीत बरूह्य अस्मै दानवेन्द्राय विन्सॊर माहात्म्यम उत्तमम ॥ 5 ॥
सनत्कुमारस तु ततः शरुत्वा पराह वचॊ ऽरथवत विष्णॊर माहात्म्य संयुक्तं दानवेन्द्राय धीमते ॥ 6 ॥
शृणु सर्वम इदं दैत्य विन्सॊर माहात्म्यम उत्तमम विष्णौ जगत सथितं सर्वम इति विद्धि परंतप ॥ 7 ॥
सृजत्य एष महाबाहॊ भूतग्रामं चराचरम एष चाक्षिपते काले काले विसृजते पुनः अस्मिन गच्छन्ति विलयम अस्माच च परभवन्त्य उत ॥ 8 ॥
नैष दानवता शक्यस तपसा नैव चेज्यया संप्राप्तुम इन्द्रियाणां तु संयमेनैव शक्यते ॥ 9 ॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि सथितः निर्मली कुरुते बुद्ध्या सॊ ऽमुत्रानन्त्यम अश्नुते ॥ 10 ॥
यथा हिरण्यकर्ता वै रूप्यम अग्नौ विशॊधयेत बहुशॊ ऽतिप्रयत्नेन महतात्म कृतेन ह ॥ 11 ॥
तद्वज जातिशतैर जीवः शुध्यते ऽलपेन कर्मणा यत्नेन महता चैवाप्य एकजातौ विशुध्यते ॥ 12 ॥
लीलयाल्पं यथा गात्रात परमृज्याद आत्मनॊ रजः बहु यत्नेन महता दॊषनिर्हरनं तथा ॥ 13 ॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम न मुञ्चति सवकं गन्धं तद्वत सूक्ष्मस्य दर्शनम ॥ 14 ॥
तद एव बहुभिर माल्यैर वास्यमानं पुनः पुनः विमुञ्चति सवकं गन्धं माल्यगन्धे ऽवतिष्ठति ॥ 15 ॥
एवं जातिशतैर युक्तॊ गुणैर एव परसङ्गिषु बुद्ध्या निवर्तते दॊषॊ यत्नेनाभ्यासजेन वै ॥ 16 ॥
कर्मणा सवेन रक्तानि विरक्तानि च दानव यथा कर्मविशेषांश च पराप्नुवन्ति तथा शृणु ॥ 17 ॥
यथा च संप्रवर्तन्ते यस्मिंस तिष्ठन्ति वा विभॊ तत ते ऽनुपूर्व्या वयाख्यास्ये तद इहैकमनाः शृणु ॥ 18 ॥
अनादि निधनं शरीमान हरिर नारायणः परभुः स वै सृजति भूतानि सथावराणि चराणि च ॥ 19 ॥
एष सर्वेषु भूतेषु कषरश चाक्षर एव च एकादश विकारात्मा जगत पिबति रश्मिभिः ॥ 20 ॥
पादौ तस्य महीं विद्धि मूर्धानं दिवम एव च बाहवस तु दिशॊ दैत्य शरॊत्रम आकाशम एव च ॥ 21 ॥
तस्य तेजॊमयः सूर्यॊ मनश चन्द्रमसि सथितम बुद्धिर जञानगता नित्यं रसस तवाप्सु परवर्तते ॥ 22 ॥
भरुवॊर अनन्तरास तस्य गरहा दानव सत्तम नक्षत्रचक्रं नेत्राभ्यां पादयॊर भूश च दानव ॥ 23 ॥
रजस तमश च सत्त्वं च विद्धि नारायणात्मकम सॊ ऽऽशरमाणां मुखं तात कर्मणस तत फलं विदुः ॥ 24 ॥
अकर्मणः फलं चैव स एव परम अव्ययः छन्दांसि तस्य रॊमाणि अक्षरं च सरस्वती ॥ 25 ॥
बह्व आश्रयॊ बहु मुखॊ धर्मॊ हृदि समाश्रितः स बरह्म परमॊ धर्मस तपश च सद असच च सः ॥ 26 ॥
शरुतिशास्त्रग्रहॊपेतः षॊडशर्त्विक्क्रतुश च सः पितामहश च विष्णुश च सॊ ऽशविनौ स पुरंदरः ॥ 27 ॥
मित्रश च वरुणश चैव यमॊ ऽथ धनदस तथा ते पृथग दर्शनास तस्य संविदन्ति तथैकताम एकस्य विद्धि देवस्य सर्वं जगद इदं वशे ॥ 28 ॥
नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्य अयम जन्तुः पश्यति जञानेन ततः सत्त्वं परकाशते ॥ 29 ॥
संहार विक्षेपसहस्रकॊतीस; तिष्ठन्ति जीवाः परचरन्ति चान्ये परजा विसर्गस्य च पारिमाण्यं; वापी सहस्राणि बहूनि दैत्य ॥ 30 ॥
वाप्यः पुनर यॊजनविस्तृतास ताः; करॊशं च गम्भीरतयावगाधाः आयामतः पञ्चशताश च सर्वाः; परत्येकशॊ यॊजनतः परवृत्थाः ॥ 31 ॥
वाप्या जलं कषिप्यति वालकॊत्या; तव अह्ना सकृच चाप्य अथ न दवितीयम तासां कषये विद्धि कृतं विसर्गं; संहारम एकं च तथा परजानाम ॥ 32 ॥
सॊ जीव वर्गाः परमं परमाणं; कृष्णॊ धूम्रॊ नीलम अथास्य मध्यम रक्तं पुनः सह्यतरं सुखं तु; हारिद्र वर्णं सुसुखं च शुक्लम ॥ 33 ॥
परं तु शुक्लं विमलं विशॊकं; गतक्लमं सिध्यति दानवेन्द्र गत्वा तु यॊनिप्रभवानि दैत्य; सहस्रशः सिद्धिम उपैति जीवः ॥ 34 ॥
गतिं च यां दर्शनम आह देवॊ; गत्वा शुभं दर्शनम एव चाह गतिः पुनर वर्णकृता परजानां; वर्णस तथा कालकृतॊ ऽसुरेन्द्र ॥ 35 ॥
शतं सहस्राणि चतुर्दशेह; परा गतिर जीव गुणस्य दैत्य आरॊहणं तत कृतम एव विद्धि; सथानं तथा निःसरणं च तेषाम ॥ 36 ॥
कृष्णस्य वर्णस्य गतिर निकृष्टा; स मज्जते नरके पच्यमानः सथानं तथा दुर्गतिभिस तु तस्य; परजा विसर्गान सुबहून वदन्ति ॥ 37 ॥
शतं सहस्राणि ततश चरित्वा; पराप्नॊति वर्णं हरितं तु पश्चात स चैव तस्मिन निवसत्य अनीशॊ; युगक्षये तमसा संवृतात्मा ॥ 38 ॥
स वै यदा सत्त्वगुणेन युक्तस; तमॊ वयपॊहन घतते सवबुद्ध्या स लॊहितं वर्णम उपैति नीलॊ; मनुष्यलॊके परिवर्तते च ॥ 39 ॥
स तत्र संहार विसर्गम एव; सवकर्मजैर बन्धनैः कलिश्यमानः ततः स हारिद्रम उपैति वर्णं; संहार विक्षेपशते वयतीते ॥ 40 ॥
हारिद्र वर्णस तु परजा विसर्गान; सहस्रशस तिष्ठति संचरन वै अविप्रमुक्तॊ निरये च दैत्य; ततः सहस्राणि दशापरानि ॥ 41 ॥
गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव विमुक्तम एनं निरयाच च विद्धि; सर्वेषु चान्येषु च संभवेषु ॥ 42 ॥
स देवलॊके विहरत्य अभीक्ष्णं; ततश चयुतॊ मानुषताम उपैति संहार विक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्न अमृतत्वम एति ॥ 43 ॥
सॊ ऽसमाद अथ भरश्यति कालयॊगात; कृष्णे तले तिष्ठति सर्वकस्ते यथा तव अयं सिध्यति जीवलॊकस; तत ते ऽभिधास्याम्य असुरप्रवीर ॥ 44 ॥
दैवानि स वयूह शतानि सप्त; रक्तॊ हरिद्रॊ ऽथ तथैव शुक्लः संश्रित्य संधावति शुक्लम एतम; अस्तापरान अर्च्यतमान स लॊकान ॥ 45 ॥
अष्टौ च षष्टिं च शतानि यानि; मनॊ विरुद्धानि महाद्युतीनाम शुक्लस्य वर्णस्य परा गतिर या; तरीण्य एव रुद्धानि महानुभाव ॥ 46 ॥
संहार विक्षेपम अनिष्टम एकं; चत्वारि चान्यानि वसत्य अनीशः सस्थस्य वर्णस्य परा गतिर या; सिद्धा विशिष्टस्य गतक्लमस्य ॥ 47 ॥
सप्तॊत्तरं तेषु वसत्य अनीशः; संहार विक्षेपशतं सशेषम तस्माद उपावृत्य मनुष्यलॊके; ततॊ महान मानुषताम उपैति ॥ 48 ॥
तस्माद उपावृत्य ततः करमेण; सॊ ऽगरे सम संतिष्ठति भूतसर्गम स सप्तकृत्वश च परैति लॊकान; संहार विक्षेपकृतप्रवासः ॥ 49 ॥
सप्तैव संहारम उपप्लवानि; संभाव्य संतिष्ठति सिद्धलॊके ततॊ ऽवययं सथानम अनन्तम एति; देवस्य विष्णॊर अथ बरह्मणश च शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णॊः परमस्य चैव ॥ 50 ॥
संहार काले परिदग्ध काया; बरह्माणम आयान्ति सदा परजा हि चेष्टात्मनॊ देवगणाश च सर्वे; ये बरह्मलॊकाद अमराः सम ते ऽपि ॥ 51 ॥
परजा विसर्गं तु सशेषकालं; सथानानि सवान्य एव सरन्ति जीवाः निःशेषाणां तत पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः ॥ 52 ॥
ये तु चयुताः सिद्धलॊकात करमेण; तेषां गतिं यान्ति तथानुपूर्व्या जीवाः परे तद बलवेषरूपा; विधिं सवकं यान्ति विपर्ययेन ॥ 53 ॥
स यावद एवास्ति सशेषभुक्ते; परजाश च देवौ च तथैव शुक्ले तावत तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रिय रूपम एतत ॥ 54 ॥
शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन ततॊ ऽवययं सथानुम उपैति बरह्म; दुष्प्रापम अभ्येति स शाश्वतं वै इत्य एतद आख्यातम अहीनसत्त्व; नारायणस्येह बलं मया ते ॥ 55 ॥
[वृत्र] एवंगते मे न विषादॊ ऽसति कश चित; सम्यक च पश्यामि वचस तवैतत शरुत्वा च ते वाचम अदीनसत्त्व; विकल्मषॊ ऽसम्य अद्य तथा विपाप्मा ॥ 56 ॥
परवृत्तम एतद भगवन महर्षे; महाद्युतेश चक्रम अनन्व वीर्यम विष्णॊर अनन्तस्य सनातनं तत; सथानं सर्गा यत्र सर्वे परवृत्ताः स वै महात्मा पुरुषॊत्तमॊ वै; तस्मिञ जगत सर्वम इदं परतिष्ठितम ॥ 57 ॥
[भी] एवम उक्त्वा स कौन्तेय वृत्रः परानान अवासृजत यॊजयित्वा तथात्मानं परं सथानम अवाप्तवान ॥ 58 ॥
[य] अयं स भगवान देवः पितामह जनार्दनः सनत्कुमारॊ वृत्राय यत तद आख्यातवान पुरा ॥ 59 ॥
[भी] मूलस्थायी स भगवान सवेनानन्तेन तेजसा तत्स्थः सृजति तान भावान नानारूपान महातपः ॥ 60 ॥
तुरीयार्धेन तस्येमं विद्धि केशवम अच्युतम तुरीयार्धेन लॊकांस तरीन भावयत्य एष बुद्धिमान ॥ 61 ॥
अर्वाक सथितस तु यः सथायी कल्पान्ते परिवर्तते स शेते भगवान अप्सु यॊ ऽसाव अतिबलः परभुः तान विधाता परसन्नात्मा लॊकांश चरति शाश्वतान ॥ 62 ॥
सर्वाण्य अशून्यानि करॊत्य अनन्तः; सनत्कुमारः संचरते च लॊकान स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत सर्वम इदं विचित्रम ॥ 63 ॥
[य] वृत्रेण परमार्थज्ञ दृष्टा मन्ये ऽऽतमनॊ गतिः शुभा तस्मात स सुखितॊ न शॊचति पितामह ॥ 64 ॥
शुक्लः शुक्लाभिजातीयः साध्यॊ नावर्तते ऽनघ तिर्यग्गतेश च निर्मुक्तॊ निरयाच च पितामह ॥ 65 ॥
हारिद्र वर्णे रक्ते वा वर्तमानस तु पार्थिव तिर्यग एवानुपश्येत कर्मभिस तामसैर वृतः ॥ 66 ॥
वयं तु भृशम आपन्ना रक्ताः कस्त मुखे ऽसुखे कां गतिं परतिपत्स्यामॊ नीलां कृष्णाधमाम अथ ॥ 67 ॥
[भी] शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः विहृत्य देवलॊकेषु पुनर मानुष्यम एष्यथ ॥ 68 ॥
परजा विसर्गं च सुखेन काले; परत्येत्य देवेषु सुखानि भुक्त्वा सुखेन संयास्यथ सिद्धसंख्यां; मा वॊ भयं भूद विमलाः सथ सर्वे ॥ 69 ॥
शान्तिपर्व · Shanti Parva
अध्याय 271
Reach this point to mark the section finished.
Continue to अध्याय 272