[य] धन्या धन्या इति जनाः सर्वे ऽसमान परवदन्त्य उत न दुःखिततरः कश चित पुमान अस्माभिर अस्ति ह ॥ 1 ॥
लॊकसंभावितैर दुःखं यत पराप्तं कुरुसत्तम पराप्य जातिं मनुष्येषु देवैर अपि पितामह ॥ 2 ॥
कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम दुःखम एतच छरीराणां धारणं कुरुसत्तम ॥ 3 ॥
विमुक्ताः सप्तदशभिर हेतुभूतैश च पञ्चभिः इन्द्रियार्थैर गुणैश चैव अस्ताभिः परपितामह ॥ 4 ॥
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः कदा वयं भविष्यामॊ राज्यं हित्वा परंतप ॥ 5 ॥
[भी] नास्त्य अनन्तं महाराज सर्वं संख्यान गॊचरम पुनर्भावॊ ऽपि संख्यातॊ नास्ति किं चिद इहाचलम ॥ 6 ॥
न चापि गम्यते राजन नैष दॊषः परसङ्गतः उद्यॊगाद एव धर्मज्ञ कालेनैव गमिष्यथ ॥ 7 ॥
ईशॊ ऽयं सततं देही नृपते पुण्यपापयॊः तत एव समुत्थेन तमसा रुध्यते ऽपि च ॥ 8 ॥
यथाञ्जन मयॊ वायुः पुनर मानः शिलं रजः अनुप्रविश्य तद्वर्णॊ दृश्यते रञ्जयन दिशः ॥ 9 ॥
तथा कर्मफलैर देही रञ्जितस तमसावृतः विवर्णॊ वर्मम आश्रित्य देहेषु परिवर्तते ॥ 10 ॥
जञानेन हि यदा जन्तुर अज्ञानप्रभवं तमः वयपॊहति तदा बरह्म परकाशेत सनातनम ॥ 11 ॥
अयत्न साध्यं मुनयॊ वदन्ति; ये चापि मुक्तास त उपासितव्याः तवया च लॊकेन च सामरेण; तस्मान न शाम्यन्ति महर्षिसंघाः ॥ 12 ॥
अस्मिन्न अर्थे पुरा गीतं शृणुष्वैक मना नृप यथा दैत्येन वृत्रेण भरष्टैश्वर्येण चेष्टितम ॥ 13 ॥
निर्जितेनासहायेन हृतराज्येन भारत अशॊचता शत्रुमध्ये बुद्धिम आस्थाय केवलाम ॥ 14 ॥
भरष्टैश्वर्यं पुरा वृत्रम उशना वाक्यम अब्रवीत कच चित पराजितस्याद्य न वयथा ते ऽसति दानव ॥ 15 ॥
[वृत्र] सत्येन तपसा चैव विदित्वा संक्षयं हय अहम न शॊचामि न हृष्यामि भूतानाम आगतिं गतिम ॥ 16 ॥
कालसंचॊदिता जीवा मज्जन्ति नरके ऽवशाः परिदृष्टानि सर्वाणि दिव्यान्य आहुर मनीषिणः ॥ 17 ॥
कषपयित्वा तु तं कालं गणितं कालचॊदिताः सावशेषेण कालेन संभवन्ति पुनः पुनः ॥ 18 ॥
तिर्यग्यॊनिसहस्राणि गत्वा नरकम एव च निर्गच्छन्त्य अवशा जीवाः कालबन्धन बन्धनाः ॥ 19 ॥
एवं संसरमाणानि जीवान्य अहम अदृष्टवान यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम ॥ 20 ॥
तिर्यग गच्छन्ति नरकं मानुष्यं दैवम एव च सुखदुःखे परियद्वेष्ये चरित्वा पूर्वम एव च ॥ 21 ॥
कृतान्तविधिसंयुक्तं सर्वलॊकः परपद्यते गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ 22 ॥
[भी] कालसंख्यान संख्यातं सृष्टि सथिति परायनम तं भासमानं भगवान उशनाः परत्यभासत भीमान दुष्टप्रलापांस तवं तात कस्मात परभाससे ॥ 23 ॥
[वृत्र] परत्यक्षम एतद भवतस तथान्येषां मनीसिनाम मया यज जय लुब्धेन पुरा तप्तं महत तपः ॥ 24 ॥
गन्धान आदाय भूतानां रसांश च विविधान अपि अवर्धं तरीन समाक्रम्य लॊकान वै सवेन तेजसा ॥ 25 ॥
जवालामाला परिक्षिप्तॊ वैहायसचरस तथा अजेयः सर्वभूतानाम आसं नित्यम अपेतभीः ॥ 26 ॥
ऐश्वर्यं तपसा पराप्तं भरष्टं तच च सवकर्मभिः धृतिम आस्थाय भगवन न शॊचामि ततस तव अहम ॥ 27 ॥
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ततॊ मे भगवान दृष्टॊ हरिर नारायणः परभुः ॥ 28 ॥
वैकुण्ठः पुरुषॊ विष्णुः शुक्लॊ ऽनन्तः सनातनः मुञ्जकेशॊ हरिश्मश्रुः सर्वभूतपितामहः ॥ 29 ॥
नूनं तु तस्य तपसः सावशेषं ममास्ति वै यद अहं परस्तुम इच्छामि भवन्तं कर्मणः फलम ॥ 30 ॥
ऐश्वर्यं वै महद बरह्मन कस्मिन वर्णे परतिष्ठितम निवर्तते चापि पुनः कथम ऐश्वर्यम उत्तमम ॥ 31 ॥
कस्माद भूतानि जीवन्ति परवर्तन्ते ऽथ वा पुनः किं वा फलं परं पराप्य जीवस तिष्ठति शाश्वतः ॥ 32 ॥
केन वा कर्मणा शक्यम अथ जञानेन केन वा बरह्मर्षे तत फलं पराप्तुं तन मे वयाख्यातुम अर्हसि ॥ 33 ॥
इतीदम उक्तः स मुनिस तदानीं; परत्याह यत तच छृणु राजसिंह मयॊच्यमानं पुरुषर्षभ तवम; अनन्यचित्तः सह सॊदरीयैः ॥ 34 ॥
शान्तिपर्व · Shanti Parva
अध्याय 270
Reach this point to mark the section finished.
Continue to अध्याय 271