धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 272

  1. [य] अहॊ धर्मिष्ठता तात वृत्रस्यामिततेजसः यस्य विज्ञानम अतुलं विष्णॊर भक्तिश च तादृशी ॥ 1 ॥

  2. दुर्विज्ञेयम इदं तात विष्णॊर अमिततेजसः कथं वा राजशार्दूल पदं तज्ज्ञातवान असौ ॥ 2 ॥

  3. भवता कथितं हय एतच छरद्दधे चाहम अच्युत भूयस तु मे समुत्पन्ना बुद्धिर अव्यक्तदर्शनात ॥ 3 ॥

  4. कथं विनिहतॊ वृत्रः शक्रेण भरतर्षभ धर्मिष्ठॊ विष्णुभक्तश च तत्त्वज्ञश च पदान्वये ॥ 4 ॥

  5. एतन मे संशयं बरूहि पृच्छतॊ भरतर्षभ वृत्रस तु राजशार्दूल यथा शक्रेण निर्जितः ॥ 5 ॥

  6. यथा चैवाभवद युद्धं तच चाचक्ष्व पितामह विस्तरेण महाबाहॊ परं कौतूहलं हि मे ॥ 6 ॥

  7. [भी] रथेनेन्द्रः परयातॊ वै सार्धं सुरगणैः पुरा ददर्शाथाग्रतॊ वृत्रं विष्ठितं पर्वतॊपमम ॥ 7 ॥

  8. यॊजनानां शतान्य ऊर्ध्वं पञ्चॊच्छ्रितम अरिंदम शतानि विस्तरेणाथ तरीण्य एवाभ्यधिकानि तु ॥ 8 ॥

  9. तत परेक्ष्य तादृशं रूपं तरैलॊक्येनापि दुर्जयम वृत्रस्य देवाः संत्रस्ता न शान्तिम उपलेभिरे ॥ 9 ॥

  10. शक्रस्य तु तदा राजन्न ऊरुस्तम्भॊ वयजायत भयाद वृत्रस्य सहसा दृष्ट्वा तद रूपम उत्तमम ॥ 10 ॥

  11. ततॊ नादः समभवद वादित्राणां च निस्वनः देवासुराणां सर्वेषां तस्मिन युद्ध उपस्थिते ॥ 11 ॥

  12. अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम उपस्थितम न संभ्रमॊ न भीः का चिद आस्था वा समजायत ॥ 12 ॥

  13. ततः समभवद युद्धं तरैलॊक्यस्य भयंकरम शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥ 13 ॥

  14. असिभिः पत्तिशैः शूलैः शक्तितॊमरम उद्गरैः शिलाभिर विविधाभिश च कार्मुकैश च महास्वनैः ॥ 14 ॥

  15. अस्त्रैश च विविधैर दिव्यैः पावकॊल्काभिर एव च देवासुरैस ततः सैन्यैः सर्वम आसीत समाकुलम ॥ 15 ॥

  16. पितामहपुरॊगाश च सर्वे देवगणास तथा ऋषयश च महाभागास तद युद्धं दरष्टुम आगमन ॥ 16 ॥

  17. विमानाग्र्यैर महाराज सिद्धाश च भरतर्षभ गन्धर्वाश च विमानाग्र्यैर अप्सरॊभिः समागमन ॥ 17 ॥

  18. ततॊ ऽतरिक्षम आवृत्य वृत्रॊ धर्मभृतां वरः अश्मवर्षेण देवेन्द्रं पर्वतात समवाकिरत ॥ 18 ॥

  19. ततॊ देवगणाः करुद्धाः सर्वतः शस्त्रवृष्टिभिः अश्मवर्षम अपॊहन्त वृत्रप्रेरितम आहवे ॥ 19 ॥

  20. वृत्रश च कुरुशार्दूल महामायॊ महाबलः मॊहयाम आस देवेन्द्रं मायायुद्धेन सर्वतः ॥ 20 ॥

  21. तस्य वृत्रार्दितस्याथ मॊह आसीच छतक्रतॊः रथंतरेण तं तत्र वसिष्ठः समबॊधयत ॥ 21 ॥

  22. [वसिस्ठ] देवश्रेष्ठॊ ऽसि देवेन्द्र सुरारिविनिबर्हण तरैलॊक्यबलसंयुक्तः कस्माच छक्र विषीदसि ॥ 22 ॥

  23. एष बरह्मा च विष्णुश च शिवश चैव जगत्प्रभुः सॊमश च भगवान देवः सर्वे च परमर्षयः ॥ 23 ॥

  24. मा कार्षीः कश्मलं शक्र कश चिद एवेतरॊ यथा आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥ 24 ॥

  25. एष लॊकगुरुस तर्यक्षः सर्वलॊकनमस्कृतः निरीक्षते तवां भगवांस तयज मॊहं सुरेश्वर ॥ 25 ॥

  26. एते बरह्मर्षयश चैव बृहस्पतिपुरॊगमाः सतवेन शक्र दिव्येन सतुवन्ति तवां जयाय वै ॥ 26 ॥

  27. [भी] एवं संबॊध्यमानस्य वसिष्ठेन महात्मना अतीव वासवस्यासीद बलम उत्तमतेजसः ॥ 27 ॥

  28. ततॊ बुद्धिम उपागम्य भगवान पाकशासनः यॊगेन महता युक्तस तां मायां वयपकर्षत ॥ 28 ॥

  29. ततॊ ऽङगिरः सुतः शरीमांस ते चैव परमर्षयः दृष्ट्वा वृत्रस्य विक्रान्तम उपगम्य महेश्वरम ऊचुर वृत्र विनाशार्थं लॊकानां हितकाम्यया ॥ 29 ॥

  30. ततॊ भगवतस तेजॊ जवरॊ भूत्वा जगत्पतेः समाविशन महारौद्रं वृत्रं दैत्यवरं तदा ॥ 30 ॥

  31. विष्णुश च भगवान देवः सर्वलॊकाभिपूजितः ऐन्द्रं समाविशद वज्रं लॊकसंरक्षणे रतः ॥ 31 ॥

  32. ततॊ बृहस्पतिर धीमान उपागम्य शतक्रतुम वसिष्ठश च महातेजाः सर्वे च परमर्षयः ॥ 32 ॥

  33. ते समासाद्य वरदं वासवं लॊकपूजितम ऊचुर एकाग्रमनसॊ जहि वृत्रम इति परभॊ ॥ 33 ॥

  34. [महेष्वर] एष वृत्रॊ महाञ शक्र बलेन महता वृतः विश्वात्मा सर्वगश चैव बहुमायश च विश्रुतः ॥ 34 ॥

  35. तद एनम असुरश्रेष्ठं तरैलॊक्येनापि दुर्जयम जहि तवं यॊगम आस्थाय मावमंस्थाः सुरेश्वर ॥ 35 ॥

  36. अनेन हि तपस्तप्तं बलार्थम अमराधिप षष्टिं वर्षसहस्राणि बरह्मा चास्मै वरं ददौ ॥ 36 ॥

  37. महत्त्वं यॊगिनां चैव महामायत्वम एव च महाबलत्वं च तथा तेजश चाग्र्यं सुरेश्वर ॥ 37 ॥

  38. एतद वै मामकं तेजः समाविशति वासव वृत्रम एनं तवम अप्य एवं जहि वज्रेण दानवम ॥ 38 ॥

  39. [षक्र] भगवंस तवत्प्रसादेन दितिजं सुदुरासदम वज्रेण निहनिष्यामि पश्यतस ते सुरर्षभ ॥ 39 ॥

  40. [भी] आविश्यमाने दैत्ये तु जवरेणाथ महासुरे देवतानाम ऋषीणां च हर्षान नादॊ महान अभूत ॥ 40 ॥

  41. ततॊ दुन्दुभयश चैव शङ्खाश च सुमहास्वनाः मुरजा डिण्डिमाश चैव परावाद्यन्त सहस्रशः ॥ 41 ॥

  42. असुराणां तु सर्वेषां समृतिलॊपॊ ऽभवन महान परज्ञानाशश च बलवान कषणेन समपद्यत ॥ 42 ॥

  43. तम आविष्टम अथॊ जञात्वा ऋषयॊ देवतास तथा सतुवन्तः शक्रम ईशानं तथा पराचॊदयन्न अपि ॥ 43 ॥

  44. रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ऋषिभिः सतूयमानस्य रूपम आसीत सुदुर्दृशम ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 273

Previous: अध्याय 271