धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 27

  1. [युधिस्ठिर] अभिमन्यौ हते बाले दरौपद्यास तनयेषु च धृष्टद्युम्ने विराते च दरुपदे च महीपतौ ॥ 1 ॥

  2. वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे तथान्येषु नरेन्द्रेषु नानादेश्येषु संगमे ॥ 2 ॥

  3. न विमुञ्चति मां शॊकॊ जञातिघातिनम आतुरम राज्यकामुकम अत्य उग्रं सववंशॊच्छेद कारकम ॥ 3 ॥

  4. यस्याङ्के करीडमानेन मया वै परिवर्तितम स मया राज्यलुब्धेन गाङ्गेयॊ विनिपातितः ॥ 4 ॥

  5. यदा हय एनं विघूर्णन्तम अपश्यं पार्थ सायकैः कम्पमानं यथा वज्रैः परेक्षमाणं शिखण्डिनम ॥ 5 ॥

  6. जीर्णं सिंहम इव परांशुं नरसिंहं पितामहम कीर्यमाणं शरैस तीक्ष्णैर दृष्ट्वा मे वयथितं मनः ॥ 6 ॥

  7. पराङ्मुखं सीदमानं च रथाद अपच्युतं शरैः घूर्णमानं यथा शैलं तदा मे कश्मलॊ ऽभवत ॥ 7 ॥

  8. यः स बाणधनुष पाणिर यॊधयाम आस भार्गवम बहून्य अहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥ 8 ॥

  9. समेतं पार्थिवं कषत्रं वारणस्यां नदी सुतः कन्यार्थम आह्वयद वीरॊ रथेनैकेन संयुगे ॥ 9 ॥

  10. येन चॊग्रायुधॊ राजा चक्रवर्ती दुरासदः दग्धः शस्त्रप्रतापेन स मया युधि घातितः ॥ 10 ॥

  11. सवयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम न बाणैः पातयाम आस सॊ ऽरजुनेन निपातितः ॥ 11 ॥

  12. यदैनं पतितं भूमाव अपश्यं रुधिरॊक्षितम तदैवाविशद अत्य उग्रॊ जवरॊ मे मुनिसत्तम येन संवर्धिता बाला येन सम परिरक्षिताः ॥ 12 ॥

  13. स मया राज्यलुब्धेन पापेन गुरु घातिना अल्पकालस्य राज्यस्य कृते मूढेन घातितः ॥ 13 ॥

  14. आचार्यश च महेष्वासः सर्वपार्थिवपूजितः अभिगम्य रणे मिथ्या पापेनॊक्तः सुतं परति ॥ 14 ॥

  15. तन मे दहति गात्राणि यन मां गुरुर अभाषत सत्यवाक्यॊ हि राजंस तवं यदि जीवति मे सुतः सत्यं मा मर्शयन विप्रॊ मयि तत्परिपृष्टवान ॥ 15 ॥

  16. कुञ्जरं चान्तरं कृत्वा मिथ्यॊपचरितं मया सुभृशं राज्यलुब्धेन पापेन गुरु घातिना ॥ 16 ॥

  17. सत्यकञ्चुकम आस्थाय मयॊक्तॊ गुरुर आहवे अश्वत्थामा हत इति कुञ्जरे विनिपातिते कान नु लॊकान गमिष्यामि कृत्वा तत कर्म दारुणम ॥ 17 ॥

  18. अघातयं च यत कर्णं समरेष्व अपलायिनम जयेष्ठं भरातरम अत्य उग्रं कॊ मत्तः पापकृत्तमः ॥ 18 ॥

  19. अभिमन्युं च यद बालं जातं सिंहम इवाद्रिषु परावेशयम अहं लुब्धॊ वाहिनीं दरॊण पालिताम ॥ 19 ॥

  20. तदा परभृति बीभत्सुं न शक्नॊमि निरीक्षितुम कृष्णं च पुण्डरीकाक्षं किल्बिषी भरूण हा यथा ॥ 20 ॥

  21. दरौपदीं चाप्य अदुःखार्हां पञ्च पुत्र विनाकृताम शॊचामि पृथिवीं हीनां पञ्चभिः पर्वतैर इव ॥ 21 ॥

  22. सॊ ऽहम आगः करः पापः पृथिवी नाश कारकः आसीन एवम एवेदं शॊषयिष्ये कलेवरम ॥ 22 ॥

  23. परायॊपविष्टं जानीध्वम अद्य मां गुरु घातिनम जातिष्व अन्यास्व अपि यथा न भवेयं कुलान्त कृत ॥ 23 ॥

  24. न भॊक्ष्ये न च पानीयम उपयॊक्ष्ये कथं चन शॊषयिष्ये परियान पराणान इह सथॊ ऽहं तपॊधन ॥ 24 ॥

  25. यथेष्टं गम्यतां कामम अनुजाने परसाद्य वः सर्वे माम अनुजानीत तयक्ष्यामीदं कलेवरम ॥ 25 ॥

  26. [वैषम्पायन] तम एवं वादिनं पार्थं बन्धुशॊकेन विह्वलम मैवम इत्य अब्रवीद वयासॊ निगृह्य मुनिसत्तमः ॥ 26 ॥

  27. अति वेलं महाराज न शॊकं कर्तुम अर्हसि पुनर उक्तं परवक्ष्यामि दिष्टम एतद इति परभॊ ॥ 27 ॥

  28. संयॊगा विप्रयॊगाश च जातानां पराणिनां धरुवम बुद्बुदा इव तॊयेषु भवन्ति न भवन्ति च ॥ 28 ॥

  29. सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम ॥ 29 ॥

  30. सुखं दुःखान्तम आलस्यं दाक्ष्यं दुःखं सुखॊदयम भूतिः शरीर हरीर धृतिः सिद्धिर नादक्षे निवसन्त्य उत ॥ 30 ॥

  31. नालं सुखाय सुहृदॊ नालं दुःखाय दुर्हृदः न च परज्ञालम अर्थैभ्यॊ न सुखैभ्यॊ ऽपय अलं धनम ॥ 31 ॥

  32. यथा सृष्टॊ ऽसि कौन्तेय धात्रा कर्मसु तत कुरु अत एव हि सिद्धिस ते नेशस तवम आत्मना नृप ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 28

Previous: अध्याय 26