[वैषम्पायन] दवैपायन वचॊ शरुत्वा कुपिते च धनंजये वयासम आमन्त्र्य कौन्तेयः परत्युवाच युधिष्ठिरः ॥ 1 ॥
न पार्थिवम इदं राज्यं न च भॊगाः पृथग्विधाः परीणयन्ति मनॊ मे ऽदय शॊकॊ मां नर्दयत्य अयम ॥ 2 ॥
शरुत्वा च वीर हीनानाम अपुत्राणां च यॊषिताम परिदेवयमानानां शान्तिं नॊपलभे मुने ॥ 3 ॥
इत्य उक्तः परत्युवाचेदं वयासॊ यॊगविदां वरः युधिष्ठिरं महाप्राज्ञं धर्मज्ञॊ वेद पारगः ॥ 4 ॥
न कर्मणा लभ्यते चिन्तया वा; नाप्य अस्य दाता पुरुषस्य कश चित पर्याय यॊगाद विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः ॥ 5 ॥
न बुद्धिशास्त्राध्ययनेन शक्यं; पराप्तुं विशेषैर मनुजैर अकाले मूर्खॊ ऽपि पराप्नॊति कदा चिद अर्थान; कालॊ हि कार्यं परति निर्विशेषः ॥ 6 ॥
नाभूति काले च फलं ददाति; शिल्पं न मन्त्राश च तथौषधानि तान्य एव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतकाले ॥ 7 ॥
कालेन शीघ्राः परविवान्ति वाताः; कालेन वृष्टिर जलदान उपैति कालेन पद्मॊत्पलवज जलं च; कालेन पुष्यन्ति नगा वनेषु ॥ 8 ॥
कालेन कृष्णाश च सिताश च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितॊ वहन्ति ॥ 9 ॥
नाकालमत्ताः खग पन्नगाश च; मृगद्विपाः शैलमहाग्रहाश च नाकालतः सत्रीषु भवन्ति गर्भा; नायान्त्य अकाले शिशिरॊष्ण वर्षाः ॥ 10 ॥
नाकालतॊ मरियते जायते वा; नाकालतॊ वयाहरते च बालः नाकालतॊ यौवनम अभ्युपैति; नाकालतॊ रॊहति बीजम उप्तम ॥ 11 ॥
नाकालतॊ भानुर उपैति यॊगं; नाकालतॊ ऽसतं गिरिम अभ्युपैति नाकालतॊ वर्धते हीयते च; चन्द्रः समुद्रश च महॊर्मिमाली ॥ 12 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥ 13 ॥
सर्वान एवैष पर्यायॊ मर्त्यान सपृशति दुस्तरः कालेन परिपक्वा हि मरियन्ते सर्वमानवाः ॥ 14 ॥
घनन्ति चान्यान नरा राजंस तान अप्य अन्ये नरास तथा संज्ञैषा लौकिकी राजन न हिनस्ति न हन्यते ॥ 15 ॥
हन्तीति मन्यते कश चिन न हन्तीत्य अपि चापरे सवभावतस तु नियतौ भूतानां परभवाप्ययौ ॥ 16 ॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते अहॊ कष्टम इति धयायञ शॊकस्यापचितिं चरेत ॥ 17 ॥
स किं शॊचसि मूढः सञ शॊच्यः किम अनुशॊचसि पश्य दुःखेषु दुःखानि भयेषु च भयान्य अपि ॥ 18 ॥
आत्मापि चायं न मम सर्वापि पृथिवी मम यथा मम तथान्येषाम इति पश्यन न मुह्यति ॥ 19 ॥
शॊकस्थान सहस्राणि हर्षस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम ॥ 20 ॥
एवम एतानि कालेन परिय दवेष्याणि भागशः जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ 21 ॥
दुःखम एवास्ति न सुखं तस्मात तद उपलभ्यते तृष्णार्ति परभवं दुःखं दुःखार्ति परभवं सुखम ॥ 22 ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम न नित्यं लभते दुःखं न नित्यं लभते सुखम ॥ 23 ॥
सुखम अन्ते हि दुःखानां दुःखम अन्ते सुखस्य च तस्माद एतद दवयं जह्याद य इच्छेच छाश्वतं सुखम ॥ 24 ॥
यन्निमित्तं भवेच छॊकस तापॊ वा दुःखमूर्छितः आयसॊ वापि यन मूलस तद एकाङ्गम अपि तयजेत ॥ 25 ॥
सुखं वा यदि वा दुःखं परियं वा यदि वाप्रियम पराप्तं पराप्तम उपासीत हृदयेनापराजितः ॥ 26 ॥
ईषद अप्य अङ्गदाराणां पुत्राणां वा चराप्रियम ततॊ जञास्यसि कः कस्य केन वा कथम एव वा ॥ 27 ॥
ये च मूढतमा लॊके ये च बुद्धेः परं गताः त एव सुखम एधन्ते मध्यः कलेशेन युज्यते ॥ 28 ॥
इत्य अब्रवीन महाप्राज्ञॊ युधिष्ठिर स सेनजित परावरज्ञॊ लॊकस्य धर्मवित सुखदुःखवित ॥ 29 ॥
सुखी परस्य यॊ दुःखे न जातु स सुखी भवेत दुःखानां हि कषयॊ नास्ति जायते हय अपरात परम ॥ 30 ॥
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च पर्यायशः सर्वम इह सपृशन्ति; तस्माद धीरॊ नैव हृष्येन न कुप्येत ॥ 31 ॥
दीक्षां यज्ञे पालनं युद्धम आहुर; यॊगं राष्ट्रे दण्डनीत्या च सम्यक वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग जञानं पावनानीति विद्यात ॥ 32 ॥
रक्षन राष्ट्रं बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलॊ महात्मा सर्वाँल लॊकान धर्ममूर्त्या चरंश चाप्य; ऊर्ध्वं देहान मॊदते देवलॊके ॥ 33 ॥
जित्वा संग्रामान पालयित्वा च राष्ट्रं; सॊमं पीत्वा वर्धयित्वा परजाश च युक्त्या दण्डं धारयित्वा परजानां; युद्धे कषीणॊ मॊदते देवलॊके ॥ 34 ॥
सम्यग वेदान पराप्य शास्त्राण्य अधीत्य; सम्यग राष्ट्रं पालयित्वा च राजा चातुर्वर्ण्यं सथापयित्वा सवधर्मे; पूतात्मा वै मॊदते देवलॊके ॥ 35 ॥
यस्य वृत्तं नमस्यन्ति सवर्गस्थस्यापि मानवाः पौरजानपदामात्याः स राजा राजसत्तमः ॥ 36 ॥
शान्तिपर्व · Shanti Parva
अध्याय 26
Reach this point to mark the section finished.
Continue to अध्याय 27