[य] भरातरः पितरा पुत्रा जञातयः सुहृदस तथा अर्थहेतॊर हताः करूरैर अस्माभिः पापबुद्धिभिः ॥ 1 ॥
येयम अर्थॊद्भवा तृष्णा कथम एतां पितामह निवर्तयेम पापं हि तृष्णया कारिता वयम ॥ 2 ॥
[भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गीतं विदेहराजेन मान्दव्यायानुपृच्छते ॥ 3 ॥
सुसुखं बत जीवामि यस्य मे नास्ति किं चन मिथिलायां परदीप्तायां न मे दह्यति किं चन ॥ 4 ॥
अर्थाः खलु समृद्धा हि बाधं दुःखं विजानताम असमृद्धास तव अपि सदा मॊहयन्त्य अविचक्षणान ॥ 5 ॥
यच च कामसुखं लॊके यच च दिव्यं महत सुखम तृष्णा कषयसुखस्यैते नार्हतः सॊदशीं कलाम ॥ 6 ॥
यथैव शृङ्गं गॊः काले वर्धमानस्य वर्धते तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥ 7 ॥
किं चिद एव ममत्वेन यदा भवति कल्पितम तद एव परितापाय नाशे संपद्यते पुनः ॥ 8 ॥
न कामान अनुरुध्येत दुःखं कामेषु वै रतिः पराप्यार्थम उपयुञ्जीत धर्मे कामं विवर्जयेत ॥ 9 ॥
विद्वान सर्वेषु भूतेषु वयाघ्रमांसॊपमॊ भवेत कृतकृत्यॊ विशुद्धात्मा सर्वं तयजति वै सह ॥ 10 ॥
उभे सत्यानृते तयक्त्वा शॊकानन्दौ परियाप्रियौ भयाभये च संत्यज्य संप्रशान्तॊ निरामयः ॥ 11 ॥
या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम ॥ 12 ॥
चारित्रम आत्मनः पश्यंश चन्द्र शुद्धम अनामयम धर्मात्मा लभते कीर्तिं परेत्य चेह यथासुखम ॥ 13 ॥
राज्ञस तद वचनं शरुत्वा परीतिमान अभवद दविजः पूजयित्वा च तद वाक्यं मान्दव्यॊ मॊक्षम आश्रितः ॥ 14 ॥
शान्तिपर्व · Shanti Parva
अध्याय 268
Reach this point to mark the section finished.
Continue to अध्याय 269