धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 267

  1. [भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादं देवलस्यासितस्य च ॥ 1 ॥

  2. आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः नारदः परिपप्रच्छ भूतानां परभवाभ्ययम ॥ 2 ॥

  3. कुतः सृष्टम इदं विश्वं बरह्मन सथावरजङ्गमम परलये च कम अभ्येति तद भवान परब्रवीतु मे ॥ 3 ॥

  4. [असित] येभ्यः सृजति भूतानि कालॊ भावप्रचॊदितः महाभूतानि पञ्चेति तान्य आहुर भूतचिन्तकाः ॥ 4 ॥

  5. तेभ्यः सृजति भूतानि काल आत्मप्रचॊदितः एतेभ्यॊ यः परं बरूयाद असद बरूयाद असंशयम ॥ 5 ॥

  6. विद्धि नारद पञ्चैताञ शाश्वतान अचलान धरुवान महतस तेजसॊ राशीन कालषष्ठान सवभावतः ॥ 6 ॥

  7. आपश चैवान्तरिक्षं च पृथिवी वायुपावकौ असिद्धिः परम एतेभ्यॊ भूतेभ्यॊ मुक्तसंशयम ॥ 7 ॥

  8. नॊपपत्त्या न वा युक्त्या तव असद बरूयाद असंशयम वेत्थ तान अभिनिर्वृत्तान स एते यस्य राशयः ॥ 8 ॥

  9. पञ्चैव तानि कालश च भावाभावौ च केवलौ अस्तौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ॥ 9 ॥

  10. अभावाद भावितेष्व एव तेभ्यश च परभवन्त्य अपि विनस्तॊ ऽपि च तान्य एव जन्तुर भवति पञ्चधा ॥ 10 ॥

  11. तस्य भूमिमयॊ देहः शरॊत्रम आकाशसंभवम सूर्यश चक्षुर असुर वायुर अद्भ्यस तु खलु शॊनितम ॥ 11 ॥

  12. चक्षुषी नासिका कर्णौ तवग जिह्वेति च पञ्चमी इन्द्रियाणीन्द्रियार्थानां जञानानि कवयॊ विदुः ॥ 12 ॥

  13. दर्शनं शरवणं घराणं सपर्शनं रसनं तथा उपपत्त्या गुणान विद्धि पञ्च पञ्चसु पञ्चधा ॥ 13 ॥

  14. रूपं गन्धॊ रसः सपर्शः शब्दश चैवाथ तद गुणाः इन्द्रियैर उपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥ 14 ॥

  15. रूपं गन्धं रसं सपर्शं शब्दं चैतांस तु तद गुणान इन्द्रियाणि न बुध्यन्ते कषेत्रज्ञस तैस तु बुध्यते ॥ 15 ॥

  16. चित्तम इन्द्रियसंघातात परं तस्मात परं मनः मनसस तु परा बुद्धिः कषेत्रज्ञॊ बुद्धितः परम ॥ 16 ॥

  17. पूर्वं चेतयते जन्तुर इन्द्रियैर विषयान पृथक विचार्य मनसा पश्चाद अथ बुद्ध्या वयवस्यति इन्द्रियौर उपलब्धार्थान सर्वान यस तव अध्यवस्यति ॥ 17 ॥

  18. चित्तम इन्द्रियसंघातं मनॊ बुद्धिं तथास्तमीम अस्तौ जञानेन्द्रियाण्य आहुर एतान्य अध्यात्मचिन्तकाः ॥ 18 ॥

  19. पानि पादं च पायुश च मेहनं पञ्चमं मुखम इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्य अपि ॥ 19 ॥

  20. जल्पनाभ्यवहारार्थं मुखम इन्द्रियम उच्यते गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥ 20 ॥

  21. पायूपस्थौ विसर्गार्थम इन्द्रिये तुल्यकर्मणी विसर्गे च पुरीसस्य विसर्गे चाभिकामिके ॥ 21 ॥

  22. बलं सस्थं स एतानि वाचा सम्यग यथागमम जञानचेष्टेन्द्रिय गुणाः सर्वे संशब्दिता मया ॥ 22 ॥

  23. इन्द्रियाणां सवकर्मभ्यः शरमाद उपरमॊ यदा भवतीन्द्रिय संन्यासाद अथ सवपिति वै नरः ॥ 23 ॥

  24. इन्द्रियाणां वयुपरमे मनॊ ऽनुपरतं यदि सेवते विषयान एव तद्विद्यात सवप्नदर्शनात ॥ 24 ॥

  25. सात्त्विकाश चैव ये भावास तथा राजस तामसाः कर्म युक्तान परशंसन्ति सात्त्विकान इतरांस तथा ॥ 25 ॥

  26. आनन्दः कर्मणां सिद्धिः परतिपत्तिः परा गतिः सात्त्विकस्य निमित्तानि भावान संश्रयते समृतिः ॥ 26 ॥

  27. जन्तुष्व एकतमेष्व एवं भावा ये विधिम आस्थिताः भावयॊर ईप्सितं नित्यं परत्यक्षगमनं दवयॊः ॥ 27 ॥

  28. इन्द्रियाणि च भावाश च गुणाः सप्तदश समृताः तेषाम अस्तादशॊ देही यः शरीरे स शाश्वतः ॥ 28 ॥

  29. अथ वा सशरीरास ते गुणाः सर्वे शरीरिणाम संश्रितास तद वियॊगे हि सशरीरा न सन्ति ते ॥ 29 ॥

  30. अथ वा संनिपातॊ ऽयं शरीरं पाञ्चभौतिकम एतश च दश चास्तौ च गुणाः सह शरीरिणाम ऊष्मना सह विंशॊ वा संघातः पाञ्चभौतिकः ॥ 30 ॥

  31. महान संधारयत्य एतच छरीरं वायुना सह तस्यास्य भावयुक्तस्य निमित्तं देहभेदने ॥ 31 ॥

  32. यथैवॊत्पद्यते किं चित पञ्चत्वं गच्छते तथा पुण्यपापविनाशान्ते पुण्यपापसमीरितम देहं विशति कालेन ततॊ ऽयं कर्म संभवम ॥ 32 ॥

  33. हित्वा हित्वा हय अयं परैति देहाद देहं कृताश्रयः कालसंचॊदितः कषेत्री विशीर्णाद वा गृहाद गृहम ॥ 33 ॥

  34. तत्र नैवानुतप्यन्ते पराज्ञा निश्चित निश्चयाः कृपणास तव अनुतप्यन्ते जनाः संबन्धिमानिनः ॥ 34 ॥

  35. न हय अयं कस्य चित कश चिन नास्य कश चन विद्यते भवत्य एकॊ हय अयं नित्यं शरीरे सुखदुःखभाज ॥ 35 ॥

  36. नैव संजायते जन्तुर न च जातु विपद्यते याति देहम अयं भुक्त्वा कदा चित परमां गतिम ॥ 36 ॥

  37. पुण्यपापमयं देहं कषपयन कर्म संचयात कषीणदेहः पुनर देही बरह्मत्वम उपगच्छति ॥ 37 ॥

  38. पुण्यपापक्षयार्थं च सांख्यं जञानं विधीयते तत कषये हय अस्य पश्यन्ति बरह्म भावे परां गतिम ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 268

Previous: अध्याय 266