धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 266

  1. [य] मॊक्षः पितामहेनॊक्त उपायान नानुपायतः तम उपायं यथान्यायं शरॊतुम इच्छामि भारत ॥ 1 ॥

  2. [भी] तवय्य एवैतन महाप्राज्ञ युक्तं निपुन दर्शनम यद उपायेन सर्वार्थान नित्यं मृगयसे ऽनघ ॥ 2 ॥

  3. करणे घतस्य या बुद्धिर घतॊत्पत्तौ न सानघ एवं धर्माभ्युपायेषु नान्यद धर्मेषु कारणम ॥ 3 ॥

  4. पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम एकः पन्था हि मॊक्षस्य तन मे विस्तरतः शृणु ॥ 4 ॥

  5. कषमया करॊधम उच्छिन्द्यात कामं संकल्पवर्जनात सत्त्वसंसेवनाद धीरॊ निद्राम उच्छेतुम अर्हति ॥ 5 ॥

  6. अप्रमादाद भयं रक्षेच छवासं कषेत्रज्ञशीलनात इच्छां दवेषं च कामं च धैर्येण विनिवर्तयेत ॥ 6 ॥

  7. भरमं परमॊहम आवर्तम अभ्यासाद विनिवर्तयेत निद्रां च परतिभां चैव जञानाभ्यास न तत्त्ववित ॥ 7 ॥

  8. उपद्रवांस तथा रॊगान हितजीर्ण मिताशनात लॊभं मॊहं च संतॊषाद विषयांस तत्त्वदर्शनात ॥ 8 ॥

  9. अनुक्रॊषाद अधर्मं च जयेद धर्मम उपेक्षया आयत्या च जयेद आशाम अर्थं सङ्गविवर्जनात ॥ 9 ॥

  10. अनित्यत्वेन च सनेहं कषुधं यॊगेन पण्डितः कारुण्येनात्मनॊ मानं तृष्णां च परितॊषतः ॥ 10 ॥

  11. उत्थानेन जयेत तन्द्रीं वितर्कं निश्चयाज जयेत मौनेन बहु भास्यं च शौर्येण च भयं जयेत ॥ 11 ॥

  12. यच्छेद वाङ्मनसी बुद्ध्या तां यच्छेज जञानचक्षुषा जञानम आत्मा महान यच्छेत तं यच्छेच छान्तिर आत्मनः ॥ 12 ॥

  13. तद एतद उपशान्तेन बॊद्धव्यं शुचि कर्मणा यॊगदॊषान समुच्छिद्य पञ्च यान कवयॊ विदुः ॥ 13 ॥

  14. कामं करॊधं च लॊभं च भयं सवप्नं च पञ्चमम परित्यज्य निषेवेत तथेमान यॊगसाधनान ॥ 14 ॥

  15. धयानम अध्ययनं दानं सत्यं हरीर आर्जवं कषमा शौचम आहारतः शुद्धिर इन्द्रियाणां च संयमः ॥ 15 ॥

  16. एतैर विवर्धते तेजः पाप्मानम अपहन्ति च सिध्यन्ति चास्य संकल्पा विज्ञानं च परवर्तते ॥ 16 ॥

  17. धूतपापः स तेजस्वी लघ्व आहारॊ जितेन्द्रियः कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम ॥ 17 ॥

  18. अमूढत्वम असङ्गित्वं कामक्रॊधविवर्जनम अदैन्यम अनुदीर्णत्वम अनुद्वेगॊ वयवस्थितिः ॥ 18 ॥

  19. एष मार्गॊ हि मॊक्षस्य परसन्नॊ विमलः शुचिः तथा वाक्कायमनसां नियमः कामतॊ ऽनयथा ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 267

Previous: अध्याय 265