धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 265

  1. [य] कथं भवति पापात्मा कथं धर्मं करॊति वा केन निर्वेदम आदत्ते मॊक्षं वा केन गच्छति ॥ 1 ॥

  2. [भी] विदिताः सर्वधर्मास ते सथित्य अर्थम अनुपृच्छसि शृणु मॊक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥ 2 ॥

  3. विज्ञानार्थं हि पञ्चानाम इच्छा पूर्वं परवर्तते पराप्य ताञ जायते कामॊ दवेषॊ वा भरतर्षभ ॥ 3 ॥

  4. ततस तदर्थं यतते कर्म चारभते पुनः इष्टानां रूपगन्धानाम अभ्यासं च चिकीर्षति ॥ 4 ॥

  5. ततॊ रागः परभवति दवेषश च तदनन्तरम ततॊ लॊभः परभवति मॊहश च तदनन्तरम ॥ 5 ॥

  6. लॊभमॊहाभिभूतस्य रागद्वेषान्वितस्य च न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च ॥ 6 ॥

  7. वयाजेन चरतॊ धर्मम अर्थव्याजॊ ऽपि रॊचते वयाजेन सिध्यमानेषु धनेषु कुरुनन्दन ॥ 7 ॥

  8. तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति सुहृद्भिर वार्यमाणॊ ऽपि पण्डितैश चापि भारत ॥ 8 ॥

  9. उत्तरं नयायसंबद्धं बरवीति विधियॊजितम अधर्मस तरिविधस तस्य वर्धते रागमॊहजः ॥ 9 ॥

  10. पापं चिन्तयते चैव परब्रवीति करॊति च तस्याधर्मप्रवृत्तस्य दॊषान पश्यन्ति साधवः ॥ 10 ॥

  11. एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः स नेह सुखम आप्नॊति कुत एव परत्र वै ॥ 11 ॥

  12. एवं भवति पापात्मा धर्मात्मानं तु मे शृणु यथा कुशलधर्मा स कुशलं परतिपद्यते ॥ 12 ॥

  13. य एतान परज्ञया दॊषान पूर्वम एवानुपश्यति कुशलः सुखदुःखानां साधूंश चाप्य उपसेवते ॥ 13 ॥

  14. तस्य साधु समाचाराद अभ्यासाच चैव वर्धते परज्ञा धर्मे च रमते धर्मं चैवॊपजीवति ॥ 14 ॥

  15. सॊ ऽथ धर्माद अवाप्तेषु धनेषु कुरुते मनः तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै ॥ 15 ॥

  16. धर्मात्मा भवति हय एवं मित्रं च लभते शुभम स मित्र धनलाभात तु परेत्य चेह च नन्दति ॥ 16 ॥

  17. शब्दे सपर्शे तथारूपे रसे गन्धे च भारत परभुत्वं लभते जन्तुर धर्मस्यैतत फलं विदुः ॥ 17 ॥

  18. स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा ॥ 18 ॥

  19. परज्ञा चक्षुर यदा कामे दॊषम एवानुपश्यति विरज्यते तदा कामान न च धर्मं विमुञ्चति ॥ 19 ॥

  20. सर्वत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम ततॊ मॊक्षाय यतते नानुपायाद उपायतः ॥ 20 ॥

  21. शनैर निर्वेदम आदत्ते पापं कर्म जहाति च धर्मात्मा चैव भवति मॊक्षं च लभते परम ॥ 21 ॥

  22. एतत ते कथितं तात यन मां तवं परिपृच्छसि पापं धर्मं तथा मॊक्षं निर्वेदं चैव भारत ॥ 22 ॥

  23. तस्माद धर्मे परवर्तेथाः सर्वावस्थं युधिष्ठिर धर्मे सथितानां कौन्तेय सिद्धिर भवति शाश्वती ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 266

Previous: अध्याय 264