[य] बहूनां यज्ञतपसाम एकार्थानां पितामह धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ॥ 1 ॥
[भी] अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे बराह्मणस्य ह ॥ 2 ॥
रास्त्रे धर्मॊत्तरे शरेष्ठे विदर्भेष्व अभवद दविजः उञ्छवृत्तिर ऋषिः कश चिद यज्ञे यज्ञं समादधे ॥ 3 ॥
शयामाकम अशनं तत्र सूर्यपत्नी सुवर्चला तिक्तं च विरसं शाकं तपसा सवादुतां गतम ॥ 4 ॥
उपगम्य वने पृथ्वीं सर्वभूतविहिंसया अपि मूलफलैर इज्यॊ यज्ञः सवर्ग्यः परंतप ॥ 5 ॥
तस्य भार्या वरतकृशा शुचिः पुष्कर चारिणी यज्ञपत्नीत्वम आनीता सत्येनानुविधीयते सा तु शापपरित्रस्ता न सवभावानुवर्तिनी ॥ 6 ॥
मयूरजीर्ण पर्णानां वस्त्रं तस्याश च पर्णिनाम अकामायाः कृतं तत्र यज्ञे हॊत्रानुमार्गतः ॥ 7 ॥
शुक्रस्य पुनर आजातिर अपध्यानाद अधर्मवित तस्मिन वने समीपस्थॊ मृगॊ ऽभूत सहचारिकः वचॊ भिर अब्रवीत सत्यं तवया दुष्कृतकं कृतम ॥ 8 ॥
यदि मन्त्राङ्गहीनॊ ऽयं यज्ञॊ भवति वैकृतः मां भॊः परक्षिप हॊत्रे तवं गच्छ सवर्गम अतन्द्रितः ॥ 9 ॥
ततस तु यज्ञे सावित्री साक्षात तं संन्यमन्त्रयत निमन्त्रयन्ती परत्युक्ता न हन्यां सहवासिनम ॥ 10 ॥
एवम उक्ता निवृत्ता सा परविष्टा यज्ञपावकम किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम ॥ 11 ॥
सा तु बद्धाञ्जलिं सत्यम अयाचद धरिणं पुनः सत्येन संपरिष्वज्य संदिष्टॊ गम्यताम इति ॥ 12 ॥
ततः स हरिणॊ गत्वा पदान्य अस्तौ नयवर्तत साधु हिंसय मां सत्यहतॊ यास्यामि सद गतिम ॥ 13 ॥
पश्य हय अप्सरसॊ दिव्या मया दत्तेन चक्षुषा विमानानि विचित्राणि गन्धर्वाणां महात्मनाम ॥ 14 ॥
ततः सुरुचिरं दृष्ट्वा सपृहा लग्नेन चक्षुषा मृगम आलॊक्य हिंसायां सवर्गवासं समर्थयत ॥ 15 ॥
स तु धर्मॊ मृगॊ भूत्वा बहुवर्षॊषितॊ वने तस्य निष्कृतिम आधत्त न हय असौ यज्ञसंविधिः ॥ 16 ॥
तस्य तेन तु भावेन मृगहिंसात्मनस तदा तपॊ महत समुच्छिन्नं तस्माद धिंसा न यज्ञिया ॥ 17 ॥
ततस तं भगवान धर्मॊ यज्ञं याजयत सवयम समाधानं च भार्याया लेभे स तपसा परम ॥ 18 ॥
अहिंसा सकलॊ धर्मॊ हिंसा यज्ञे ऽसमाहिता सत्यं ते ऽहं परवक्ष्यामि यॊ धर्मः सत्यवादिनाम ॥ 19 ॥
शान्तिपर्व · Shanti Parva
अध्याय 264
Reach this point to mark the section finished.
Continue to अध्याय 265