धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 263

  1. [य] धर्मम अर्थं च कामं च वेदाः शंसन्ति भारत कस्य लाभॊ विशिष्टॊ ऽतर तन मे बरूहि पितामह ॥ 1 ॥

  2. [भी] अत्र ते वर्तयिष्यामि इतिहासं पुरातनम कुण्ड धारेण यत परीत्या भक्तायॊपकृतं पुरा ॥ 2 ॥

  3. अधनॊ बराह्मणः कश चित कामाद धर्मम अवैक्षत यज्ञार्थं स ततॊ ऽरथार्थी तपॊ ऽतप्यत दारुणम ॥ 3 ॥

  4. स निश्चयम अथॊ कृत्वा पूजयाम आस देवताः भक्त्या न चैवाध्यगच्छद धनं संपूज्य देवताः ॥ 4 ॥

  5. ततश चिन्तां पुनः पराप्तः कतमद दैवतं नु तत यन मे दरुतं परसीदेत मानुषैर अजदी कृतम ॥ 5 ॥

  6. अथ सौम्येन वपुषा देवानुचरम अन्तिके परत्यपश्यज जलधरं कुन्दधारम अवस्थितम ॥ 6 ॥

  7. दृष्ट्वैव तं महात्मानं तस्य भक्तिर अजायत अयं मे धास्यति शरेयॊ वपुर एतद धि तादृशम ॥ 7 ॥

  8. संनिकृष्टश च देवस्य न चान्यैर मानुषैर वृतः एष मे दास्यति धनं परभूतं शीघ्रम एव च ॥ 8 ॥

  9. ततॊ धूपैश च गन्धैश च माल्यैर उच्चावचैर अपि बलिभिर विविधैश चापि पूजयाम आस तं दविजः ॥ 9 ॥

  10. ततः सवल्पेन कालेन तुष्टॊ जलधरस तदा तस्यॊपकारे नियताम इमां वाचम उवाच ह ॥ 10 ॥

  11. बरह्मघ्ने च सुरापे च चॊरे भग्नव्रते तथा निष्कृतिर विहिता सद भिः कृतघ्ने नास्ति निष्कृतिः ॥ 11 ॥

  12. आशायास तनयॊ ऽधर्मः करॊधॊ ऽसूया सुतः समृतः पुत्रॊ लॊभॊ निकृत्यास तु कृतघ्नॊ नार्हति परजाम ॥ 12 ॥

  13. ततः स बराह्मणः सवप्ने कुन्दधारस्य तेजसा अपश्यत सर्वभूतानि कुशेषु शयितस तदा ॥ 13 ॥

  14. शमेन तपसा चैव भक्त्या च निरुपस्कृतः शुद्धात्मा बराह्मणॊ रात्रौ निदर्शनम अपश्यत ॥ 14 ॥

  15. मनिभद्रं स तत्रस्थं देवतानां महाद्युतिम अपश्यत महात्मानं वयादिशन्तं युधिष्ठिर ॥ 15 ॥

  16. तत्र देवाः परयच्छन्ति राज्यानि च धनानि च शुभैः कर्मभिर आरब्धाः परच्छिदन्त्य अशुभेषु च ॥ 16 ॥

  17. पश्यताम अथ यक्षाणां कुन्दधारॊ महाद्युतिः निष्पत्य पतितॊ भूमौ देवानां भरतर्षभ ॥ 17 ॥

  18. ततस तु देववचनान मनिभद्रॊ महायशः उवाच पतितं भूमौ कुन्दधार किम इष्यते ॥ 18 ॥

  19. [कुन्दधर] यदि परसन्ना देवा मे भक्तॊ ऽयं बराह्मणॊ मम अस्यानुग्रहम इच्छामि कृतं किं चित सुखॊदयम ॥ 19 ॥

  20. [भी] ततस तं मनिभद्रस तु पुनर वचनम अब्रवीत देवानाम एव वचनात कुन्दधारं महाद्युतिम ॥ 20 ॥

  21. उत्तिष्ठॊत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव यावद धनं परार्थयते बराह्मणॊ ऽयं सखा तव देवानां शासनात तावद असंख्येयं ददाम्य अहम ॥ 21 ॥

  22. विचार्य कुन्दधारस तु मानुष्यं चलम अध्रुवम तपसे मतिम आधत्त बराह्मणस्य यशस्विनः ॥ 22 ॥

  23. [कु] नाहं धनानि याचामि बराह्मणाय धनप्रद अन्यम एवाहम इच्छामि भक्तायानुग्रहं कृतम ॥ 23 ॥

  24. पृथिवीं रत्र पूर्णां वा महद वा धनसंचयम भक्ताय नाहम इच्छामि भवेद एष तु धार्मिकः ॥ 24 ॥

  25. धर्मे ऽसय रमतां बुद्धिर धर्मं चैवॊपजीवतु धर्मप्रधानॊ भवतु ममैषॊ ऽनुग्रहॊ मतः ॥ 25 ॥

  26. [मणिभद्र] यदा धर्मफलं राज्यं सुखानि विविधानि च फलान्य एवायम अश्नातु कायक्लेशविवर्जितः ॥ 26 ॥

  27. [भी] ततस तद एव बहुशः कुन्दधारॊ महायशः अभ्यासम अकरॊद धर्मे ततस तुष्टास्य देवताः ॥ 27 ॥

  28. [मणि] परीतास ते देवताः सर्वा दविजस्यास्य तथैव च भविष्यत्य एष धर्मात्मा धर्मे चाधास्यते मतिः ॥ 28 ॥

  29. [भी] ततः परीतॊ जलधरः कृतकार्यॊ युधिष्ठिर ईप्सितं मनसॊ लब्ध्वा वरम अन्यैः सुदुर्लभम ॥ 29 ॥

  30. ततॊ ऽपश्यत चीराणि सूक्ष्माणि दविजसत्तमः पार्श्वतॊ ऽभयागतॊ नयस्तान्य अथ निर्वेदम आगतः ॥ 30 ॥

  31. [बरा] अयं न सुकृतं वेत्ति कॊ नव अन्यॊ वेत्स्यते कृतम गच्छामि वनम एवाहं वरं धर्मेण जीवितुम ॥ 31 ॥

  32. [भी] निर्वेदाद देवतानां च परसादात स दविजॊत्तमः वनं परविश्य सुमहत तप आरब्धवांस तदा ॥ 32 ॥

  33. देवतातिथिशेषेण फलमूलाशनॊ दविजः धर्मे चापि महाराज रतिर अस्याभ्यजायत ॥ 33 ॥

  34. तयक्त्वा मूलफलं सर्वं पर्णाहारॊ ऽभवद दविजः पर्णं तयक्त्वा जलाहारस तदासीद दविजसत्तमः ॥ 34 ॥

  35. वायुभक्षस ततः पश्चाद बहून वर्षगणान अभूत न चास्य कषीयते पराणस तद अद्भुतम इवाभवत ॥ 35 ॥

  36. धर्मे च शरद्दधानस्य तपस्य उग्रे च वर्ततः कालेन महता तस्य दिव्या दृष्टिर अजायत ॥ 36 ॥

  37. तस्य बुद्धिः परादुरासीद यदि दद्यां महद धनम तुष्टः कस्मै चिद एवाहं न मिथ्या वाग भवेन मम ॥ 37 ॥

  38. ततः परहृष्टवदनॊ भूय आरब्धवांस तपः भूयश चाचिन्तयत सिद्धॊ यत परं सॊ ऽभयपद्यत ॥ 38 ॥

  39. यदि दद्याम अहं राज्यं तुष्टॊ वै यस्य कस्य चित स भवेद अचिराद राजा न मित्या वाग भवेन मम ॥ 39 ॥

  40. तस्य साक्षात कुन्दधारॊ दर्शयाम आस भारत बराह्मणस्य तपॊयॊगात सौहृदेनाभिचॊदितः ॥ 40 ॥

  41. समागम्य स तेनाथ पूजां चक्रे यथाविधि बराह्मणः कुन्दधारस्य विस्मितश चाभवन नृप ॥ 41 ॥

  42. ततॊ ऽबरवीत कुन्दधारॊ दिव्यं ते चक्षुर उत्तमम पश्य राज्ञां गतिं विप्र लॊकांश चावेक्ष चक्षुषा ॥ 42 ॥

  43. ततॊ राज्ञां सहस्राणि मग्नानि निरये तदा दूराद अपश्यद विप्रः स दिव्ययुक्तेन चक्षुषा ॥ 43 ॥

  44. [कु] मां पूजयित्वा भावेन यदि तवं दुःखम आप्नुयाः कृतं मया भवेत किं ते कश च ते ऽनुग्रहॊ भवेत ॥ 44 ॥

  45. पश्य पश्य च भूयस तवं कामान इच्छेत कथं नरः सवर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥ 45 ॥

  46. [भी] ततॊ ऽपश्यत स कामं च करॊधं लॊभं भयं मदम निद्रां तन्द्रीं तथालस्यम आवृत्य पुरुषान सथितान ॥ 46 ॥

  47. [कु] एतैर लॊकाः सुसंरुद्धा देवानां मानुषाद भयम तथैव देववचनाद विघ्नं कुर्वन्ति सर्वशः ॥ 47 ॥

  48. न देवैर अननुज्ञातः कश चिद भवति धार्मिकः एष शक्तॊ ऽसि तपसा राज्यं दातुं धनानि च ॥ 48 ॥

  49. [भी] ततः पपात शिरसा बराह्मणस तॊयधारिणे उवाच चैनं धर्मात्मा माहान मे ऽनुग्रहः कृतः ॥ 49 ॥

  50. कामलॊभानुबन्धेन पुरा ते यद असूयितम मया सनेहम अविज्ञाय तत्र मे कषन्तुम अर्हसि ॥ 50 ॥

  51. कषान्तम एव मयेत्य उक्त्वा कुन्दधारॊ दविजर्षभम संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥ 51 ॥

  52. ततः सर्वान इमाँल लॊकान बराह्मणॊ ऽनुचचार ह कुन्दधार परसादेन तपसा यॊजितः पुरा ॥ 52 ॥

  53. विहायसा च गमनं तथा संकल्पितार्थता धर्माच छक्त्या तथा यॊगाद या चैव परमा गतिः ॥ 53 ॥

  54. देवता बराह्मणाः सन्तॊ यक्षा मानुषचारणाः धार्मिकान पूजयन्तीह न धनाध्यान न कामिनः ॥ 54 ॥

  55. सुप्रसन्ना हि ते देवा यत ते धर्मे रता मतिः धने सुखकला का चिद धर्मे तु परमं सुखम ॥ 55 ॥

Reach this point to mark the section finished.

Continue to अध्याय 264

Previous: अध्याय 262