धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 262

  1. [कपिल] वेदाः परमानं लॊकानां न वेदाः पृष्ठतः कृताः दवे बरह्मणी वेदितव्ये शब्दब्रह्म परं च यत शब्दब्रह्मणि निष्णातः परं बरह्माधिगच्छति ॥ 1 ॥

  2. शरीरम एतत कुरुते यद वेदे कुरुते तनुम कृतशुद्ध शरीरॊ हि पात्रं भवति बराह्मणः ॥ 2 ॥

  3. आनन्त्यम अनुयुक्न्ते यः कर्मणा तद बरवीमि ते निरागमम अनैतिह्यं परत्यक्षं लॊकसाक्षिकम ॥ 3 ॥

  4. धर्म इत्य एव ये यज्ञान वितन्वन्ति निराशिषः उत्पन्न तयागिनॊ ऽलुब्धाः कृपासूयाव इवार्जिताः धनानाम एष वै पन्थास तीर्थेषु परतिपादनम ॥ 4 ॥

  5. अनाश्रिताः पापकृत्याः कदा चित कर्म यॊनितः मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥ 5 ॥

  6. अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः जञाननिष्ठास तरिशुक्लाश च सर्वभूतहिते रताः ॥ 6 ॥

  7. आसन गृहस्था भूयिष्ठम अव्युत्क्रान्ताः सवकर्मसु राजानश च तथायुक्ता बराह्मणाश च यथाविधि ॥ 7 ॥

  8. समा हय आर्जवसंपन्नाः संतुष्टा जञाननिश्चयाः परत्यक्षधर्माः शुचयः शरद्दधानाः परावरे ॥ 8 ॥

  9. पुरस्ताद भावितात्मानॊ यथावच चरितव्रताः चरन्ति धर्मं कृच्छ्रे ऽपि दुर्गे चैवाधिसंहताः ॥ 9 ॥

  10. संहत्य धर्मं चरतां पुरासीत सुखम एव तत तेषां नासीद विधातव्यं परायश्चित्तं कदा चन ॥ 10 ॥

  11. सत्यं हि धर्मम आस्थाय दुराधर्षतमा मताः न मात्राम अनुरुध्यन्ते न धर्मछलम अन्ततः ॥ 11 ॥

  12. य एव परथमः कल्पस तम एवाभ्याचरन सह अस्यां सथितौ सथितानां हि परायश्चित्तं न विद्यते दुर्बलात्मन उत्पन्नं परायश्चित्तम इति शरुतिः ॥ 12 ॥

  13. यत एवंविधा विप्राः पुराणा यज्ञवाहनाः तरैविद्य वृद्धाः शुचयॊ वृत्तवन्तॊ यशस्विनः यजन्तॊ ऽहर अहर यज्ञैर निराशीर बन्धना बुधाः ॥ 13 ॥

  14. तेषां यज्ञाश च वेदाश च कर्माणि च यथागमम आगमाश च यथाकालं संकल्पाश च यथा वरतम ॥ 14 ॥

  15. अपेतकामक्रॊधानां परकृत्या संशितात्मनाम ऋजूनां शम नित्यानां सथितानां सवेषु कर्मसु सर्वम आनन्त्यम एवासीद इति नः शाश्वती शरुतिः ॥ 15 ॥

  16. तेषाम अदीनसत्त्वानां दुश्चराचार कर्मणाम सवकर्मभिः संवृतानां तपॊ घॊरत्वम आगतम ॥ 16 ॥

  17. तं सद आचारम आश्वर्यं पुराणं शाश्वतं धरुवम अशक्नुवद्भिश चरितुं किं चिद धर्मेषु सूचितम ॥ 17 ॥

  18. निरापद धर्म आचारस तव अप्रमादॊ ऽपराभवः सर्ववर्णेषु यत तेषु नासीत कश चिद वयतिक्रमः ॥ 18 ॥

  19. धर्मम एकं चतुष्पादम आश्रितास ते नरर्षभाः तं सन्तॊ विधिवत पराप्य गच्छन्ति परमां गतिम ॥ 19 ॥

  20. गृहेभ्य एव निष्क्रम्य वनम अन्ये समाश्रिताः गृहम एवाभिसंश्रित्य ततॊ ऽनये बरह्मचारिणः ॥ 20 ॥

  21. धर्मम एतं चतुष्पादम आश्रमं बराह्मणा विदुः आनन्त्यं बरह्मणः सथानं बराह्मणा नाम निश्चयः ॥ 21 ॥

  22. अत एवंविधा विप्राः पुराणा धर्मचारिणः त एते दिवि दृश्यन्ते जयॊतिर भूता दविजातयः ॥ 22 ॥

  23. नक्षत्राणीव धिष्न्येषु बहवस तारका गणाः आनन्त्यम उपसंप्राप्ताः संतॊषाद इति वैदिकम ॥ 23 ॥

  24. यद्य आगच्छन्ति संसारं पुनर यिनिषु तादृशाः न लिप्यन्ते पापकृत्यैः कदा चित कर्म यॊनितः ॥ 24 ॥

  25. एवं युक्तॊ बराह्मणः सयाद अन्यॊ बराह्मणकॊ भवेत कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम ॥ 25 ॥

  26. एवं पक्वकसायानाम आनन्त्येन शरुतेन च सर्वम आनन्त्यम एवासीद एवं नः शाश्वती शरुतिः ॥ 26 ॥

  27. तेषाम अपेततृष्णानां निर्निक्तानां शुभात्मनाम चतुर्थ औपनिषदॊ धर्मः साधारणः समृतः ॥ 27 ॥

  28. स सिद्धैः साध्यते नित्यं बराह्मणैर नियतात्मभिः संतॊष मूलस तयागात्मा जञानाधिष्ठानम उच्यते ॥ 28 ॥

  29. अपवर्ग गतिर नित्यॊ यति धर्मः सनातनः साधारणः केवलॊ वा यथाबलम उपास्यते ॥ 29 ॥

  30. गच्छतॊ गच्छतः कषेमं दुर्बलॊ ऽतरावसीदति बरह्मणः पदम अन्विच्छन संसारान मुच्यते शुचिः ॥ 30 ॥

  31. [सयू] ये भुञ्जते ये ददते यजन्ते ऽधीयते च ये मात्राभिर धर्मलब्धाभिर ये वा तयागं समाश्रिताः ॥ 31 ॥

  32. एतेषां परेत्य भावे तु कतमः सवर्गजित्तमः एतद आचक्ष्व मे बरह्मन यथातथ्येन पृच्छतः ॥ 32 ॥

  33. [कप] परिग्रहाः शुभाः सर्वे गुणतॊ ऽभयुदयाश च ये न तु तयागसुखं पराप्ता एतत तवम अपि पश्यसि ॥ 33 ॥

  34. [सयू] भवन्तॊ जञाननिष्ठा वै गृहस्थाः कर्म निश्चयाः आश्रमाणां च सर्वेषां निष्ठायाम ऐक्यम उच्यते ॥ 34 ॥

  35. एकत्वे च पृथक्त्वे च विशेषॊ नान्य उच्यते तद यथावद यथान्यायं भगवान परब्रवीतु मे ॥ 35 ॥

  36. [कप] शरीरपक्तिः कर्माणि जञानं तु परमा गतिः पक्वे कसाये वमनै रसज्ञाने न तिष्ठति ॥ 36 ॥

  37. आनृशंस्यं कषमा शान्तिर अहिंसा सत्यम आर्जवम अद्रॊहॊ नाभिमानश च हरीस तितिक्षा शमस तथा ॥ 37 ॥

  38. पन्थानॊ बरह्मणस तव एते एतैः पराप्नॊति यत परम तद विद्वान अनुबुध्येत मनसा कर्म निश्चयम ॥ 38 ॥

  39. यां विप्राः सर्वतः शान्ता विशुद्धा जञाननिश्चयाः गतिं गच्छन्ति संतुष्टास ताम आहुः परमां गतिम ॥ 39 ॥

  40. वेदांश च वेदितव्यं च विदित्वा चयथा सथिति एवं वेदविद इत्य आहुर अतॊ ऽनयॊ वातरेतकः ॥ 40 ॥

  41. सर्वं विदुर वेदविदॊ वेदे सर्वं परतिष्ठितम वेदे हि निष्ठा सर्वस्य यद यद अस्ति च नास्ति च ॥ 41 ॥

  42. एषैव निष्ठा सर्वस्य यद यद अस्ति चनास्ति च एतद अन्तं च मध्यं च सच चासच च विजानतः ॥ 42 ॥

  43. समस्त तयाग इत्य एवं शम इत्य एव निष्ठितः संतॊष इत्य अत्र शुभम अपवर्गे परतिष्ठितम ॥ 43 ॥

  44. ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं सथावरं च सर्वं सुखं यच छिवम उत्तमं च; बरह्माव्यक्तं परभवश चाव्ययश च ॥ 44 ॥

  45. तेजः कषमा शान्तिर अनामयं शुभं; तथाविधं वयॊम सनातनं धरुवम एतैः शब्दैर गम्यते बुद्धिनेत्रैस; तस्मै नमॊ बरह्मणे बराह्मणाय ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 263

Previous: अध्याय 261