[कपिल] एतावद अनुपश्यन्तॊ यतयॊ यान्ति मार्गगाः नैषां सर्वेषु लॊकेषु कश चिद अस्ति वयतिक्रमः ॥ 1 ॥
निर्द्वन्द्वा निर्नमस्कारा निराशिर बन्धना बुधाः विमुक्ताः सर्वपापेभ्यश चरन्ति शुचयॊ ऽमलाः ॥ 2 ॥
अपवर्गे ऽथ संत्यागे बुद्धौ च कृतनिश्चयाः बरह्मिष्ठा बरह्मभूताश च बरह्मण्य एव कृतालयाः ॥ 3 ॥
विशॊका नष्ट रजसस तेषां लॊकाः सनातनाः तेषां गतिं परां पराप्य गार्हस्थ्ये किं परयॊजनम ॥ 4 ॥
[षयू] यद्य एषा परमा निष्ठा यद्य एषा परमा गतिः गृहस्थान अव्यपाश्रित्य नाश्रमॊ ऽनयः परवर्तते ॥ 5 ॥
यथा मातरम आश्रित्य सर्वे जीवन्ति जन्तवः एवं गृहस्थम आश्रित्य वर्तन्त इतरे ऽऽशरमाः ॥ 6 ॥
गृहस्थ एव यजते गृहस्थस तप्यते तपः गार्हस्त्यम अस्य धर्मस्य मूलं यत किं चिद एजते ॥ 7 ॥
परजनाद धयभिनिर्वृत्ताः सर्वे पराण भृतॊ मुने परजनं चाप्य उतान्यत्र न कथं चन विद्यते ॥ 8 ॥
यास ताः सयुर बहिर ओषध्यॊ बह्व अरण्यास तथा दविज ओषधिभ्यॊ बहिर यस्मात परानी कश चिन न विद्यते कस्यैषा वाग भवेत सत्या मॊक्षॊ नास्ति गृहाद इति ॥ 9 ॥
अश्रद्दधानैर अप्राज्ञैः सूक्ष्मदर्शनवर्जितैः निराशैर अलसैः शरान्तैस तप्यमानैः सवकर्मभिः शरमस्यॊपरमॊ दृष्टः परव्रज्या नाम पण्डितैः ॥ 10 ॥
तरैलॊक्यस्यैव हेतुर हि मर्यादा शाश्वती धरुवा बराह्मणॊ नाम भगवाञ जन्मप्रभृति पूज्यते ॥ 11 ॥
पराग गर्भाधानान मन्त्रा हि परवर्तन्ते दविजातिषु अविश्रम्भेषु वर्तन्ते विश्रम्भेष्व अप्य असंशयम ॥ 12 ॥
दाहः पुनः संश्रयणे संस्थिते पात्रभॊजनम दानं गवां पशूनां वा पिन्दानां चाप्सु मज्जनम ॥ 13 ॥
अर्चिष्मन्तॊ बर्हिषदः करव्यादाः पितरः समृताः मृतस्याप्य अनुमन्यन्ते मन्त्रा मन्त्राश च कारणम ॥ 14 ॥
एवं करॊशत्सु वेदेषु कुतॊ मॊक्षॊ ऽसति कस्य चित ऋणवन्तॊ यदा मर्त्याः पितृदेवद्विजातिषु ॥ 15 ॥
शरिया विहीनैर अलसैः पण्डितैर अपलापितम वेदवादापरिज्ञानं सत्याभासम इवानृतम ॥ 16 ॥
न वै पापैर हरियते कृष्यते वा; यॊ बराह्मणॊ यजते वेद शास्त्रैः ऊर्ध्वं यज्ञः पशुभिः सार्धम एति; संतर्पितस तर्पयते च कामैः ॥ 17 ॥
न वेदानां परिभवान न शाथ्येन न मायया महत पराप्नॊति पुरुषॊ बरह्म बरह्मणि विन्दति ॥ 18 ॥
[कपिल] दर्शं च पौर्णमासं च अग्निहॊत्रं च धीमताम चातुर्मस्यानि चैवासंस तेषु यज्ञः सनातनः ॥ 19 ॥
अनारम्भाः सुधृतयः शुचयॊ बरह्म संश्रिताः बरह्मणैव सम ते देवांस तर्पयन्त्य अमृतैषिणः ॥ 20 ॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ 21 ॥
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनम उपयान्ति निन्दा बाहुभ्यां वाच उदराद उपस्थात; तेषां दवारं दवारपालॊ बुभूसेत ॥ 22 ॥
नाक्षैर दीव्येन नाददीतान्य वित्तं; न वायॊनीयस्य शृतं परगृह्णेत करुद्धॊ न चैव परहरेत धीमांस; तथास्य तत पानि पादं सुगुप्तम ॥ 23 ॥
नाक्रॊशम अर्छेन न मृषा वदेच च; न पैशुनं जनवादं च कुर्यात सत्यव्रतॊ मित भासॊ ऽपरमत्तस; तथास्य वाग दवारम अथॊ सुगुप्तम ॥ 24 ॥
नानाशनः सयान न महाशनः सयाद; अलॊलुपः साधुभिर आगतः सयात यात्रार्थम आहारम इहाददीत; तथास्य सयाज जाथरी दवारगुप्तिः ॥ 25 ॥
न वीर पत्नीं विहरेत नारीं; न चापि नारीम अनृताव आह्वयीत भार्या वरतं हय आत्मनि धारयीत; तथास्य पस्थ दवारगुप्तिर भवेत ॥ 26 ॥
दवाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः उपस्थम उदरं बाहू वाक चतुर्थी स वै दविजः ॥ 27 ॥
मॊघान्य अगुप्त दवारस्य सर्वाण्य एव भवन्त्य उत किं तस्य तपसा कार्यं किं यज्ञेन किम आत्मना ॥ 28 ॥
अनुत्तरीय वसनम अनुपस्तीर्ण शायिनम बाहूपधानं शाम्यन्तं तं देवा बराह्मणं विदुः ॥ 29 ॥
दवन्द्वारामेषु सर्वेषु य एकॊ रमते मुनिः परेषाम अननुध्यायंस तं देवा बराह्मणं विदुः ॥ 30 ॥
येन सर्वम इदं बुद्धं परकृतिर विकृतिश च या गतिज्ञः सर्वभूतानां तं देवा बराह्मणं विदुः ॥ 31 ॥
अभयं सर्वभूतेभ्यः सर्वेषाम अभयं यतः सर्वभूतात्मभूतॊ यस तं देवा बराह्मणं विदुः ॥ 32 ॥
नान्तरेनानुजानन्ति वेदानां यत करियाफलम अनुज्ञाय च तत सर्वम अन्यद रॊचयते ऽफलम ॥ 33 ॥
फलवन्ति च कर्माणि वयुष्टिमन्ति धरुवाणि च विगुणानि च पश्यन्ति तथानैकान्तिकानि च ॥ 34 ॥
गुणाश चात्र सुदुर्ज्ञेया जञाताश चापि सुदुष्कराः अनुष्ठिताश चान्तवन्त इति तवम अनुपश्यसि ॥ 35 ॥
[सयू] यथा च वेद परामान्यं तयागश च सफलॊ यथा तौ पन्थानाव उभौ वयक्तौ भगवंस तद बरवीहि मे ॥ 36 ॥
[कपिल] परत्यक्षम इह पश्यन्ति भवन्तः सत्पथे सथिताः परत्यक्षं तु किम अत्रास्ति यद भवन्त उपासते ॥ 37 ॥
[सयू] सयूमरश्मिर अहं बरह्मञ जिज्ञासार्थम इहागतः शरेयः कामः परत्यवॊचम आर्जवान न विवक्षया इमं च संशयं घॊरं भगवान परब्रवीतु मे ॥ 38 ॥
परत्यक्षम इह पश्यन्तॊ भवन्तः सत्पथे सथिताः किम अत्र परत्यक्षतमं भवन्तॊ यद उपासते अन्यत्र तर्क शास्त्रेभ्य आगमाच च यथागमम ॥ 39 ॥
आगमॊ वेदवादस तु तर्क शास्त्राणि चागमः यथागमम उपासीत आगमस तत्र सिध्यति सिद्धिः परत्यक्षरूपा च दृश्यत्य आगमनिश्चयात ॥ 40 ॥
नौर वावीव निबद्धा हि सरॊतसा सनिबन्धना हरियमाणा कथं विप्र कुबुद्धींस तारयिष्यति एतद बरवीतु भगवान उपपन्नॊ ऽसम्य अधीहि भॊः ॥ 41 ॥
नैव तयागी न संतुष्टॊ नाशॊकॊ न निरामयः न निर्विवित्सॊ नावृत्तस्नापवृत्तॊ ऽसति कश चन ॥ 42 ॥
भवन्तॊ ऽपि च हृष्यन्ति शॊचन्ति च यथा वयम इन्द्रियार्थाश च भवतां समानाः सर्वजन्तुषु ॥ 43 ॥
एवं चतुर्णां वर्णानाम आश्रमाणां परवृत्तिषु एकम आलम्बमानानां निर्नये किं निरामयम ॥ 44 ॥
[कपिल] यद यद आचरते शास्त्रम अथ सर्वप्रवृत्तिषु यस्य यत्र हय अनुष्ठानं तत्र तत्र निरामयम ॥ 45 ॥
सर्वं पावयते जञानं यॊ जञानं हय अनुवर्तते जञानाद अपेत्य या वृत्तिः सा विनाशयति परजाः ॥ 46 ॥
भवन्तॊ जञानिनॊ नित्यं सर्वतश च निरागमाः ऐकात्म्यं नाम कश चिद धि कदा चिद अभिपद्यते ॥ 47 ॥
शास्त्रं हय अबुद्ध्वा तत्त्वेन के चिद वादबला जनाः कामद्वेषाभिभूतत्वाद अहंकारवशं गताः ॥ 48 ॥
याथातथ्यम अविज्ञाय शास्त्राणां शास्त्रदस्यवः बरह्म सतेना निरारम्भा अपक्व मतयॊ ऽशिवाः ॥ 49 ॥
वैगुण्यम एव पश्यन्ति न गुणान अनुयुञ्जते तेषां तमः शरीराणां तम एव परायनम ॥ 50 ॥
यॊ यथा परकृतिर जन्तुः परकृतेः सयाद वशानुगः तस्य दवेषश च कामश च करॊधॊ दम्भॊ ऽनृतं मदः नित्यम एवाभिवर्तन्ते गुणाः परकृतिसंभवाः ॥ 51 ॥
एतद बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम परां गतिम अभीप्सन्तॊ यतयः संयमे रताः ॥ 52 ॥
[षयू] सर्वम एतन मया बरह्मञ शास्त्रतः परिकीर्तितम न हय अविज्ञाय शात्रार्थं परवर्तन्ते परवृत्तयः ॥ 53 ॥
यः कश चिन नयाय्य आचारः सर्वं शास्त्रम इति शरुतिः यद अन्याय्यम अशास्त्रं तद इत्य एषा शरूयते शरुतिः ॥ 54 ॥
न परवृत्तिर ऋते शास्त्रात का चिद अस्तीति निश्चयः यद अन्यद वेदवादेभ्यस तद अशास्त्रम इति शरुतिः ॥ 55 ॥
शास्त्राद अपेतं पश्यन्ति बहवॊ वयक्तमानिनः शास्त्रदॊषान न पश्यन्ति इह चामुत्र चापरे अविज्ञान हतप्रज्ञा हीनप्रज्ञास तमॊवृताः ॥ 56 ॥
शक्यं तव एकेन मुक्तेन कृतकृत्येन सर्वशः पिण्ड मात्रं वयपाश्रित्य चरितुं सर्वतॊदिशम वेदवादं वयपाश्रित्य मॊक्षॊ ऽसतीति परभासितुम ॥ 57 ॥
इदं तु दुष्करं कर्म कुटुम्बम अभिसंश्रितम दानम अध्ययनं यज्ञः परजा संतानम आर्जवम ॥ 58 ॥
यद्य एतद एवं कृत्वापि न विमॊक्षॊ ऽसति कस्य चित धिक कर्तारं च कार्यं च शरमश चायं निरर्थकः ॥ 59 ॥
नास्तिक्यम अन्यथा च सयाद वेदानां पृष्ठतः करिया एतस्यानन्त्यम इच्छामि भगवञ शरॊतुम अञ्जसा ॥ 60 ॥
तथ्यं वदस्व मे बरह्मन्न उपसन्नॊ ऽसम्य अधीहि भॊः यथा ते विदितॊ मॊक्षस तथेच्छाम्य उपशिक्षितुम ॥ 61 ॥
शान्तिपर्व · Shanti Parva
अध्याय 261
Reach this point to mark the section finished.
Continue to अध्याय 262