[य] अविरॊधेन भूतानां तयागः षाद्गुण्यकारकः यः सयाद उभय भाग्धर्मस तन मे बरूहि पितामह ॥ 1 ॥
गार्हस्थ्यस्य च धर्मस्य तयागधर्मस्य चॊभयॊः अदूरसंप्रस्थितयॊः किं सविच छरेयः पितामह ॥ 2 ॥
[भी] उभौ धर्मौ महाभागाव उभौ परमदुश्चरौ उभौ महाफलौ तात सद्भिर आचरिताव उभौ ॥ 3 ॥
अत्र ते वर्तयिष्यामि परामान्यम उभयॊस तयॊः शृणुष्वैक मनाः पार्थ छिन्नधर्मार्थसंशयम ॥ 4 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम कपिलस्य गॊश च संवादं तन निबॊध युधिष्ठिर ॥ 5 ॥
आम्नायम अनुपश्यन हि पुराणं शाश्वतं धरुवम नहुषः पूर्वम आलेभे तवस्तुर गाम इतिनः शरुतम ॥ 6 ॥
तां नियुक्ताम अदीनात्मा सत्त्वस्थः समये रतः जञानवान नियताहारॊ ददर्श पलिलस तदा ॥ 7 ॥
स बुद्धिम उत्तमां पराप्तॊ नैष्ठिकीम अकुतॊभयाम समरामि शिथिलं सत्यं वेदा इत्य अब्रवीत सकृत ॥ 8 ॥
तां गाम ऋषिः सयूम रश्मिः परविश्य यतिम अब्रवीत हंहॊ वेदा यदि मता धर्माः केनापरे मताः ॥ 9 ॥
तपस्विनॊ धृतिमतः शरुतिविज्ञानचक्षुषः सर्वम आर्षं हि मन्यन्ते वयाहृतं विदितात्मनः ॥ 10 ॥
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः ॥ 11 ॥
[कपिल] नाहं वेदान विनिन्दामि न विवक्षामि कर्हि चित पृथग आश्रमिणां कर्माण्य एकार्थानीति नः शरुतम ॥ 12 ॥
गच्छत्य एव परित्यागी वानप्रस्थश च गच्छति गृहस्थॊ बरह्मचारी च उभौ ताव अपि गच्छतः ॥ 13 ॥
देव याना हि पन्थानश चत्वारः शाश्वता मताः तेषां जयायः कनीयस्त्वं फलेषूक्तं बलाबलम ॥ 14 ॥
एवं विदित्वा सर्वार्थान आरभेद इति वैदिकम नारभेद इति चान्यत्र नैष्ठिकी शरूयते शरुतिः ॥ 15 ॥
अनारम्भे हय अदॊषः सयाद आरम्भे ऽदॊष उत्तमः एवं सथितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम ॥ 16 ॥
यद्य अत्र किं चित परत्यक्षम अहिंसायाः परं मतम ऋते तव आगमशास्त्रेभ्यॊ बरूहि तद यदि पश्यसि ॥ 17 ॥
[सयूमरष्मि] सवर्गकामॊ यजेतेति सततं शरूयते शरुतिः फलं परकल्प्य पूर्वं हि ततॊ यज्ञः परतायते ॥ 18 ॥
अजश चाश्वश च मेषश च गौश च पक्षिगणाश च ये गराम्यारण्या ओषधयः पराणस्यान्नम इति शरुतिः ॥ 19 ॥
तथैवान्नं हय अहर अहः सायं परातर्निरुप्यते पशवश चाथ धान्यं च यज्ञस्याङ्गम इति शरुतिः ॥ 20 ॥
एतानि सहयज्ञेन परजापतिर अकल्पयत तेन परजापतिर देवान यज्ञेनायजत परभुः ॥ 21 ॥
ते समान्यॊन्यं चराः सर्वे परानिनः सप्त सप्त च यज्ञेषूपाकृतं विश्वं पराहुर उत्तमसंज्ञितम ॥ 22 ॥
एतच चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस तथा कॊ जातु न विचिन्वीत विद्वान सवां शक्तिम आत्मनः ॥ 23 ॥
पशवश च मनुष्याश च दरुमाश चौषधिभिः सह सवर्गम एवाभिकाङ्क्षन्ते न च सवर्गस तव ऋते मखम ॥ 24 ॥
ओषध्यः पशवॊ वृक्षा वीरुदाज्यं पयॊ दधि हविर भूमिर दिशः शरद्धा कालश चैतानि दवादश ॥ 25 ॥
ऋचॊ यजूंसि सामानि यजमानश च सॊदशः अग्निर जञेयॊ गृहपतिः स सप्तदश उच्यते अङ्गान्य एतानि यज्ञस्य यज्ञॊ मूलम इति शरुतिः ॥ 26 ॥
आज्येन पयसा दध्ना शकृद आमिक्षया तवचा वालैः शृङ्गेन पादेन संभवत्य एव गौर्मखम एवं परत्येकशः सर्वं यद यद अस्य विधीयते ॥ 27 ॥
यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य उत ॥ 28 ॥
यज्ञार्थानि हि सृष्टानि यथा वै शरूयते शरुतिः एवं पूर्वे पूर्वतराः परवृत्ताश चैव मानवाः ॥ 29 ॥
न हिनस्ति हय आरभते नाभिद्रुह्यति किं चन यज्ञॊ यस्तव्य इत्य एव यॊ यजत्य अफलेप्सया ॥ 30 ॥
यज्ञाङ्गान्य अपि चैतानि यथॊक्तानि न संशयः विधिना विधियुक्तानि तारयन्ति परस्परम ॥ 31 ॥
आम्नायम आर्षं पश्यामि यस्मिन वेदाः परतिष्ठिताः तं विद्वांसॊ ऽनुपश्यन्ति बराह्मणस्यानुदर्शनात ॥ 32 ॥
बराह्मण परभवॊ यज्ञॊ बराह्मणार्पण एव च अनु यज्ञं जगत सर्वं यज्ञश चानु जगत सदा ॥ 33 ॥
ओम इति बरह्मणॊ यॊनिर नमः सवाहा सवधा वसत यस्यैतानि परयुज्यन्ते यथाशक्ति कृतान्य अपि ॥ 34 ॥
न तस्य तरिषु लॊकेषु परलॊकभयं विदुः इति वेदा वदन्तीह सिद्धाश च परमर्षयः ॥ 35 ॥
रिचॊ यजूंसि सामानि सतॊभाश च विधिचॊदिताः यस्मिन्न एतानि सर्वाणि बहिर एव स वै दविजः ॥ 36 ॥
अग्न्याधेये यद भवति यच च सॊमे सुते दविज यच चेतरैर महायज्ञैर्वेद तद भगवान सवतः ॥ 37 ॥
तस्माद बरह्मन यजेतैव याजयेच चाविचारयन यजतः सवर्गविधिना परेत्य सवर्गफलं महत ॥ 38 ॥
नायं लॊकॊ ऽसत्य अयज्ञानां परश चेति विनिश्चयः वेदवादविदश चैव परमानम उभयं तदा ॥ 39 ॥
शान्तिपर्व · Shanti Parva
अध्याय 260
Reach this point to mark the section finished.
Continue to अध्याय 261