धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 25

  1. [वैषम्पायन] पुनर एव महर्षिस तं कृष्णद्वैपायनॊ ऽबरवीत अजातशत्रुं कौन्तेयम इदं वचनम अर्थवत ॥ 1 ॥

  2. अरण्ये वसतां तात भरातॄणां ते तपस्विनाम मनॊरथा महाराज ये तत्रासन युधिष्ठिर ॥ 2 ॥

  3. तान इमे भरतश्रेष्ठ पराप्नुवन्तु महारथाः परशाधि पृथिवीं पार्थ ययातिर इव नाहुषः ॥ 3 ॥

  4. अरण्ये दुःखवसतिर अनुभूता तपस्विभिः दुःखस्यान्ते नरव्याघ्राः सुखं तव अनुभवन्त्व इमे ॥ 4 ॥

  5. धर्मम अर्थं च कामं च भरातृभिः सह भारत अनुभूय ततः पश्चात परस्थातासि विशां पते ॥ 5 ॥

  6. अतिथीनां च पितॄणां देवतानां च भारत आनृण्यं गच्छ कौन्तेय ततः सवर्गं गमिष्यसि ॥ 6 ॥

  7. सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन ततः पश्चान महाराज गमिष्यसि परां गतिम ॥ 7 ॥

  8. भरातॄंश च सर्वान करतुभिः संयॊज्य बहु दक्षिणैः संप्राप्तः कीर्तिम अतुलां पाण्डवेय भविष्यसि ॥ 8 ॥

  9. विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन शृणु मच च यथा कुर्वन धर्मान न चयवते नृपः ॥ 9 ॥

  10. आददानस्य च धनं निग्रहं च युधिष्ठिर समानं धर्मकुशलाः सथापयन्ति नरेश्वर ॥ 10 ॥

  11. देशकालप्रतीक्षे यॊ दस्यॊर दर्शयते नृपः शास्त्रजां बुद्धिम आस्थाय नैनसा स हि युज्यते ॥ 11 ॥

  12. आदाय बलिषड भागं यॊ राष्ट्रं नाभिरक्षति परतिगृह्णाति तत पापं चतुर्थांशेन पार्थिवः ॥ 12 ॥

  13. निबॊध च यथातिष्ठन धर्मान न चयवते नृपः निग्रहाद धर्मशास्त्राणाम अनुरुध्यन्न अपेतभीः कामक्रॊधाव अनादृत्य पितेव समदर्शनः ॥ 13 ॥

  14. दैवेनॊपहते राजा कर्मकाले महाद्युते परमादयति तत कर्म न तत्राहुर अति करमम ॥ 14 ॥

  15. तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः पापैः सह न संदध्याद राष्ट्रं पण्यं न कारयेत ॥ 15 ॥

  16. शूराश चार्याश च सत्कार्या विद्वांसश च युधिष्ठिर गॊमतॊ धनिनश चैव परिपाल्या विशेषतः ॥ 16 ॥

  17. वयवहारेषु धर्म्येषु नियॊज्याश च बहुश्रुताः गुणयुक्ते ऽपि नैकस्मिन विश्वस्याच च विचक्षणः ॥ 17 ॥

  18. अरक्षिता दुर्विनीतॊ मानी सतब्धॊ ऽभयसूयकः एनसा युज्यते राजा दुर्दान्त इति चॊच्यते ॥ 18 ॥

  19. ये ऽरक्ष्यमाणा हीयन्ते दैवेनॊपहते नृपे तस्करैश चापि हन्यन्ते सर्वं तद राजकिल्बिषम ॥ 19 ॥

  20. सुमन्त्रिते सुनीते च विधिवच चॊपपादिते पौरुषे कर्मणि कृते नास्त्य अधर्मॊ युधिष्ठिर ॥ 20 ॥

  21. विपद्यन्ते समारम्भाः सिध्यन्त्य अपि च दैवतः कृते पुरुषकारे तु नैनॊ सपृशति पार्थिवम ॥ 21 ॥

  22. अत्र ते राजशार्दूल वर्तयिष्ये कथाम इमाम यद्वृत्तं पूर्वराजर्षेर हयग्रीवस्य पार्थिव ॥ 22 ॥

  23. शत्रून हत्वा हतस्याजौ शूरस्याक्लिष्ट कर्मणः असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ॥ 23 ॥

  24. यत कर्म वै निग्रहे शात्रवाणां; यॊगश चाग्र्यः पालने मानवानाम कृत्वा कर्म पराप्य कीर्तिं सुयुद्धे; वाजिग्रीवॊ मॊदते देवलॊके ॥ 24 ॥

  25. संत्यक्तात्मा समरेष्व आततायी; शस्त्रैश छिन्नॊ दस्युभिर अर्द्यमानः अश्वग्रीवः कर्म शीलॊ महात्मा; संसिद्धात्मा मॊदते देवलॊके ॥ 25 ॥

  26. धनुर यूपॊ रशना जया शरः सरुक; सरुवः खङ्गॊ रुधिरं यत्र चाज्यम रथॊ वेदी कामगॊ युद्धम अग्निश; चातुर्हॊत्रं चतुरॊ वाजिमुख्याः ॥ 26 ॥

  27. हुत्वा तस्मिन यज्ञवह्नाव अथारीन; पापान मुक्तॊ राजसिंहस तरस्वी पराणान हुत्वा चावभृथे रणे स; वाजिग्रीवॊ मॊदते देवलॊके ॥ 27 ॥

  28. राष्ट्रं रक्षन बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलॊ महात्मा सर्वाँल लॊकान वयाप्य कीर्त्या मनस्वी; वाजिग्रीवॊ मॊदते देवलॊके ॥ 28 ॥

  29. दैवीं सिद्धिं मानुषीं दण्डनीतिं; यॊगन्यायैः पालयित्वा महीं च तस्माद राजा धर्मशीलॊ महात्मा; हयग्रीवॊ मॊदते सवर्गलॊके ॥ 29 ॥

  30. विद्वांस तयागी शरद्दधानः कृतज्ञस; तयक्त्वा लॊकं मानुषं कर्मकृत्वा मेधाविनां विदुषां संमतानां; तनुत्यजां लॊकम आक्रम्य राजा ॥ 30 ॥

  31. सम्यग वेदान पराप्य शास्त्राण्य अधीत्य; सम्यग राष्ट्रं पालयित्वा महात्मा चातुर्वर्ण्यं सथापयित्वा सवधर्मे; वाजिग्रीवॊ मॊदते देवलॊके ॥ 31 ॥

  32. जित्वा संग्रामान पालयित्वा परजाश च; सॊमं पीत्वा तर्पयित्वा दविजाग्र्यान युक्त्या दण्डं धारयित्वा परजानां; युद्धे कषीणॊ मॊदते देवलॊके ॥ 32 ॥

  33. वृत्तं यस्य शलाघनीयं मनुष्याः; सन्तॊ विद्वांसश चार्हयन्त्य अर्हणीयाः सवर्गं जित्वा वीरलॊकांश च गत्वा; सिद्धिं पराप्तः पुण्यकीर्तिर महात्मा ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 26

Previous: अध्याय 24