[भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परजानाम अनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥ 1 ॥
छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम गॊग्रहे यज्ञवातस्य परेक्षमाणः स पार्थिवः ॥ 2 ॥
सवस्ति गॊभ्यॊ ऽसतु लॊकेषु ततॊ निर्वचनं कृतम हिंसायां हि परवृत्तायाम आशीर एषानुकल्पिता ॥ 3 ॥
अव्यवस्थित मर्यादैर विमूढैर नास्तिकैर नरैः संशयात्मभिर अव्यक्तैर हिंसा समनुकीर्तिता ॥ 4 ॥
सर्वकर्म सवहिंसा हि धर्मात्मा मनुर अब्रवीत कामरागाद विहिंसन्ति बहिर वेद्यां पशून नराः ॥ 5 ॥
तस्मात परमानतः कार्यॊ धर्मः सूक्ष्मॊ विजानता अहिंसैव हि सर्वेभ्यॊ धर्मेभ्यॊ जयायसी मता ॥ 6 ॥
उपॊष्य संशितॊ भूत्वा हित्वा वेद कृताः शरुतीः आचार इत्य अनाचाराः कृपणाः फलहेतवः ॥ 7 ॥
यदि यज्ञांश च वृक्षांश च यूपांश चॊद्धिश्य मानवाः वृथा मांसानि खादन्ति नैष धर्मः परशस्यते ॥ 8 ॥
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम धूर्तैः परवर्तितं हय एतन नैतद वेदेषु कल्पितम ॥ 9 ॥
कामान मॊहाच च लॊभाच च लौल्यम एतत परवर्तितम विष्णुम एवाभिजानन्ति सर्वयज्ञेषु बराह्मणाः पायसैः सुमनॊभिश च तस्यापि यजनं समृतम ॥ 10 ॥
यज्ञियाश चैव ये वृक्षा वेदेषु परिकल्पिताः यच चापि किं चित कर्तव्यम अन्यच चॊक्षैः सुसंस्कृतम महासत्त्वैः शुद्धभावैः सर्वं देवार्हम एव तत ॥ 11 ॥
[य] शरीरम आपदश चापि विवदन्त्य अविहिंसतः कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥ 12 ॥
[भी] यथा शरीरं न गलायेन नेयान मृत्युवशं यथा तथा कर्मसु वर्तेत समर्थॊ धर्मम आचरेत ॥ 13 ॥
शान्तिपर्व · Shanti Parva
अध्याय 257
Reach this point to mark the section finished.
Continue to अध्याय 258