धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 256

  1. [तुलाधार] सद्भिर वा यदि वासद्भिर अयं पन्थाः समाश्रितः परत्यक्षं करियतां साधु ततॊ जञास्यसि तद यथा ॥ 1 ॥

  2. एते शकुन्ता बहवः समन्ताद विचरन्ति हि तवॊत्तमाङ्गे संभूताः शयेनाश चान्याश च जातयः ॥ 2 ॥

  3. आह्वयैनान महाब्रह्मन विशमानांस ततस ततः पश्येमान हस्तपादेषु शलिष्टान देहे च सर्वशः ॥ 3 ॥

  4. संभावयन्ति पितरं तवया संभाविताः खगाः असंशयं पिता च तवं पुत्रान आह्वय जाजले ॥ 4 ॥

  5. [भी] ततॊ जाजलिना तेन समाहूता पतत्रिणः वाचम उच्चारयन दिव्यां धर्मस्य वचनात किल ॥ 5 ॥

  6. अहिंसादि कृतं कर्म इह चैव परत्र च सपर्धा निहन्ति वै बरह्मन सा हता हन्ति तं नरम ॥ 6 ॥

  7. शरद्धा वृद्धं वाङ्मनसी न यज्ञस तरातुम अर्हति अत्र गाथा बरह्म गीताः कीर्तयन्ति पुरा विदः ॥ 7 ॥

  8. शुचेर अश्रद्दधानस्य शरद्दधानस्य चाशुचेः देवाश चित्तम अमन्यन्त सशृशं यज्ञकर्मणि ॥ 8 ॥

  9. शरॊत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः मीमांसित्वॊभयं देवाः समम अन्नम अकल्पयन ॥ 9 ॥

  10. परजापतिस तान उवाच विषमं कृतम इत्य उत शरद्धा पूतं वदान्यस्य हतम अश्रद्धयेतरत भॊज्यम अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ॥ 10 ॥

  11. अश्रद्दधान एवैकॊ देवानां नार्हते हविः तस्यैवान्नं न भॊक्तव्यम इति धर्मविदॊ विदुः ॥ 11 ॥

  12. अश्रद्धा परमं पापं शरद्धा पापप्रमॊचिनी जहाति पापं शरद्धावान सर्पॊ जीर्णाम इव तवचम ॥ 12 ॥

  13. जयायसी यापवित्राणां निवृत्तिः शरद्धया सह निवृत्तशीलदॊषॊ यः शरद्धावान पूत एव सः ॥ 13 ॥

  14. किं तस्य तपसा कार्यं किं वृत्तेन किम आत्मना शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः ॥ 14 ॥

  15. इति धर्मः समाख्यातः सद्भिर धर्मार्थदर्शिभिः वयं जिज्ञासमानास तवा संप्राप्ता धर्मदर्शनात ॥ 15 ॥

  16. सपर्धां जहि महाप्राज्ञ ततः पराप्स्यसि यत परम शरद्धावाञ शरद्दधानश च धर्मांश चैवेह वानिजः सववर्त्मनि सथितश चैव गरीयान एष जाजले ॥ 16 ॥

  17. एवं बहुमतार्थं च तुलाधारेण भासितम सम्यक चैवम उपालब्धॊ धर्मश चॊक्तः सनातनः ॥ 17 ॥

  18. तस्य विख्यातवीर्यस्य शरुत्वा वाक्यानि स दविजः तुलाधारस्य कौन्तेय शान्तिम एवान्वपद्यत ॥ 18 ॥

  19. ततॊ ऽचिरेण कालेन तुलाधारः स एव च दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम सवं सवं सथानम उपागम्य सवकर्मफलनिर्जितम ॥ 19 ॥

  20. समानां शरद्दधानानां संयतानां सुचेतसाम कुर्वतां यज्ञ इत्य एव न यज्ञॊ जातु नेष्यते ॥ 20 ॥

  21. शरद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप सावित्री परसवित्री च जीव विश्वासिनी तथा ॥ 21 ॥

  22. वाग वृद्धं तरायते शरद्धा मनॊ वृद्धं च भारत यथौपम्यॊपदेशेन किं भूयः शरॊतुम इच्छसि ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 257

Previous: अध्याय 255