धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 254

  1. [भी] इत्य उक्तः स तदा तेन तुलाधारेण धीमता परॊवाच वचनं धीमाञ जाजलिर जपतां वरः ॥ 1 ॥

  2. विक्रीणानः सर्वरसान सर्वगन्धांश च वानिज वनस्पतीन ओषधीश च तेषां मूलफलानि च ॥ 2 ॥

  3. अध्यगा नैष्ठिकीं बुद्धिं कुतस तवाम इदम आगतम एतद आचक्ष्व मे सर्वं निखिलेन महामते ॥ 3 ॥

  4. एवम उक्तस तुलाधारॊ बराह्मणेन यशस्विना उवाच धर्मसूक्ष्माणि वैश्यॊ धर्मार्थतत्त्ववित जाजलिं कस्त तपसं जञानतृप्तस तदा नृप ॥ 4 ॥

  5. वेदाहं जाजले धर्मं सरहस्यं सनातनम सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥ 5 ॥

  6. अद्रॊहेणैव भूतानाम अल्पद्रॊहेण वा पुनः या वृत्तिः स परॊ धर्मस तेन जीवामि जाजले ॥ 6 ॥

  7. परिच्छिन्नैः काष्ठ तृणैर मयेदं शरणं कृतम अलक्तं पद्मकं तुङ्गं गन्धांश चॊच्चावचांस तथा ॥ 7 ॥

  8. रसांश च तांस तान विप्रर्षे मद्य्य वर्जान अहं बहून करीत्वा वै परतिविक्रीणे परहस्ताद अमायया ॥ 8 ॥

  9. सर्वेषां यः सुहृन नित्यं सर्वेषां च हिते रतः कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥ 9 ॥

  10. नाहं परेषां कर्माणि परशंसामि शपामि वा आकाशस्येव विप्रर्षे पश्यँल लॊकस्य चित्रताम ॥ 10 ॥

  11. नानुरुध्ये विरुध्ये वा न दवेष्मि न च कामये समॊ ऽसमि सर्वभूतेषु पश्य मे जाजले वरतम ॥ 11 ॥

  12. इष्टानिष्ट विमुक्तस्य परीतिरागबहिष्कृतः तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥ 12 ॥

  13. इति मां तवं विजानीहि सर्वलॊकस्य जाजले समं मतिमतां शरेष्ठ समलॊष्टाश्म काञ्चनम ॥ 13 ॥

  14. यथान्ध बधिरॊन्मत्ता उच्छ्वासपरमाः सदा देवैर अपिहित दवाराः सॊपमा पश्यतॊ मम ॥ 14 ॥

  15. यथा वृद्धातुर कृशा निःस्पृहा विषयान परति तथार्थ कामभॊगेषु ममापि विगता सपृहा ॥ 15 ॥

  16. यदा चायं न बिभेति यदा चास्मान न बिभ्यति यदा नेच्छति न दवेष्टि तदा सिध्यति वै दविजः ॥ 16 ॥

  17. यदा न कुरुते भावं सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा ॥ 17 ॥

  18. न भूतॊ न भविष्यश च न च धर्मॊ ऽसति कश चन यॊ ऽभयः सर्वभूतानां स पराप्नॊत्य अभयं पदम ॥ 18 ॥

  19. यस्माद उद्विजते लॊकः सर्वॊ मृत्युमुखाद इव वाक करूराद दण्ड पारुष्यात स पराप्नॊति महद भयम ॥ 19 ॥

  20. यथावद वर्तमानानां वृद्धानां पुत्रपौत्रिणाम अनुवर्तामहे वृत्तम अहिंस्राणां महात्मनाम ॥ 20 ॥

  21. परनस्तः शाश्वतॊ धर्मः सद आचारेण मॊहितः तेन वैद्यस तपस्वी वा बलवान वा विमॊह्यते ॥ 21 ॥

  22. आचाराञ जाजले पराज्ञः कषिप्रं धर्मम अवाप्नुयात एवं यः साधुभिर दान्तश चरेद अद्रॊह चेतसा ॥ 22 ॥

  23. नद्यां यथा चेह काष्ठम उह्यमानं यदृच्छया यदृच्छयैव काष्ठेन संधिं गच्छेत केन चित ॥ 23 ॥

  24. तत्राप्ररानि दारूणि संसृज्यन्ते ततस ततः तृणकाष्ठ करीसानि कदाचिन्न असमीक्षया एवम एवायम आचारः परादुर्भूतॊ यतस ततः ॥ 24 ॥

  25. यस्मान नॊद्विजते भूतं जातु किं चित कथं चन अभयं सर्वभूतेभ्यः स पराप्नॊति सदा मुने ॥ 25 ॥

  26. यस्माद उद्जिवते विद्वन सर्वलॊकॊ वृकाद इव करॊशतस तीरम आसाद्य यथा सर्वे जले चराः ॥ 26 ॥

  27. सहायवान दरव्यवान यः सुभगॊ ऽनयॊ ऽपरस तथा ततस तान एव कवयः शास्त्रेषु परवदन्त्य उत कीर्त्यर्थम अल्पहृल्लेखाः पततः कृत्स्ननिर्नयाः ॥ 27 ॥

  28. तपॊ भॊर यज्ञदानैश च वाक्यैः परज्ञाश्रितैस तथा पराप्नॊत्य अभयदानस्य यद यत फलम इहाश्नुते ॥ 28 ॥

  29. लॊके यः सर्वभूतेभ्यॊ ददात्य अभयदक्षिणाम स सर्वयज्ञैर ईजानः पराप्नॊत्य अभयदक्षिणाम न भूतानाम अहिंसाया जयायान धर्मॊ ऽसति कश चन ॥ 29 ॥

  30. यस्मान नॊद्विजते भूतं जातु किं चित कथं चन ते ऽभयं सर्वभूतेभ्यः संप्राप्नॊति महामुने ॥ 30 ॥

  31. यस्माद उद्विजते लॊकः सर्पाद वेश्म गताद इव न स धर्मम अवाप्नॊति इह लॊके परत्र च ॥ 31 ॥

  32. सर्वभूतात्मभूतस्य सम्यग भूतानि पश्यतः देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ 32 ॥

  33. दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम बरवीमि ते सत्यम इदं शरद्दधस्व च जाजले ॥ 33 ॥

  34. स एव सुभगॊ भूत्वा पुनर भवति दुर्भगः वयापत्तिं कर्मणा दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥ 34 ॥

  35. अकारणॊ हि नेहास्ति धर्मः सूक्ष्मॊ ऽपि जाजले भूतभव्यार्थम एवेह धर्मप्रवचनं कृतम ॥ 35 ॥

  36. सूक्ष्मत्वान न स विज्ञातुं शक्यते बहु निह्नवः उपलभ्यान्तरा चान्यान आचारान अवबुध्यते ॥ 36 ॥

  37. ये च छिन्दन्ति वृषणान ये च भिन्दन्ति नस्तकान वहन्ति महतॊ भारान बध्नन्ति दमयन्ति च ॥ 37 ॥

  38. हत्वा सत्त्वानि खादन्ति तान कथं न विगर्हसे मानुषा मानुषान एव दासभॊगेन बुञ्जते ॥ 38 ॥

  39. वधबन्धविरॊधेन कारयन्ति दिवानिशम आत्मना चापि जानासि यद दुःखं वधतादने ॥ 39 ॥

  40. पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम आदित्यश चन्द्रमा वायुर बरह्मा पराणः करतुर यमः ॥ 40 ॥

  41. तानि जीवानि विक्रीय का मृतेषु विचारणा का तैले का घृते बरह्मन मधुन्य अप्स्व औषधेषु वा ॥ 41 ॥

  42. अदंश मशके देशे सुखं संवर्थितान पशून तांश च मातुः परियाञ जानन्न आक्रम्य बहुधा नराः बहु दंश कुशान देशान नयन्ति बहु कर्दमान ॥ 42 ॥

  43. वाहसंपीडिता धुर्याः सीदन्त्य अविधिनापरे न मन्ये भरूण हत्यापि विशिष्टा तेन कर्मणा ॥ 43 ॥

  44. कृषिं साध्व इति मन्यन्ते सा च वृत्तिः सुदारुणा भूमिं भूमिशयांश चैव हन्ति काष्ठम अयॊमुखम तथैवानदुहॊ युक्तान समवेक्षस्व जाजले ॥ 44 ॥

  45. अघ्न्या इति गवां नाम क एनान हन्तुम अर्हति महच चकाराकुशलं पृषध्रॊ गालभन्न इव ॥ 45 ॥

  46. ऋषयॊ यतयॊ हय एतन नहुषे परत्यवेदयन गां मातरं चाप्य अवधीर वृषभं च परजापतिम अकार्यं नहुषाकार्षीर लप्स्यामस तवत्कृते भयम ॥ 46 ॥

  47. शतं चैकं च रॊगाणां सर्वभूतेष्व अपातयन ऋषयस तु महाभागाः परजास्व एव हि जाजले भरूणहं नहुषं तव आहुर न ते हॊष्यामहे हविः ॥ 47 ॥

  48. इत्य उक्त्वा ते महात्मानः सर्वे तत्त्वार्थ दर्शिनः ऋषयॊ यतयः शान्तास तरसा परत्यवेदयन ॥ 48 ॥

  49. ईदृशान अशिवान घॊरान आचारान इह जाजले केवलाचरितत्वात तु निपुनान नावबुध्यसे ॥ 49 ॥

  50. कारणाद धर्मम अन्विच्छेन न लॊकचरितं चरेत यॊ हन्याद यश च मां सतौति तत्रापि शृणु जाजले ॥ 50 ॥

  51. समौ ताव अपि मे सयातां न हि मे सतः परियाप्रिये एतद ईदृशकं धर्मं परशंसन्ति मनीषिणः ॥ 51 ॥

  52. उपपत्त्या हि संपन्नॊ यतिभिश चैव सेव्यते सततं धर्मशीलैश च नैपुण्येनॊपलक्षितः ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 255

Previous: अध्याय 253