[य] सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम परतिभा तव अस्ति मे का चित तां बरूयाम अनुमानतः ॥ 1 ॥
भूयांसॊ हृदये ये मे परश्नास ते वयाहृतास तवया इमम अन्यं परवक्ष्यामि न राजन विग्रहाद इव ॥ 2 ॥
इमानि हि परापयन्ति सृजन्त्य उत्तारयन्ति च न धर्मः परिपाथेन शक्यॊ भारत वेदितुम ॥ 3 ॥
अन्यॊ धर्मः समस्थस्य विषमस्थस्य चापरः आपदस तु कथं शक्याः परिपाठेन वेदितुम ॥ 4 ॥
सद आचारॊ मतॊ धर्मः सन्तस तव आचार लक्षणाः साध्यासाध्यं कथं शक्यं सद आचारॊ हय अलक्षणम ॥ 5 ॥
दृश्यते धर्मरूपेण अधर्मं पराकृतश चरन धर्मं चाधर्मरूपेण कश चिद अप्राकृतश चरन ॥ 6 ॥
पुनर अस्य परमानं हि निर्दिष्टं शास्त्रकॊविदैः वेदवादाश चानुयुगं हरसन्तीति ह नः शरुतम ॥ 7 ॥
अन्ये कृतयुगे धर्मास तरेतायां दवापरे ऽपरे अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥ 8 ॥
आम्नायवचनं सत्यम इत्य अयं लॊकसंग्रहः आम्नायेभ्यः परं वेदाः परसृता विश्वतॊमुखाः ॥ 9 ॥
ते चेत सर्वे परमानं वै परमानं तन न विद्यते परमाने चाप्रमाने च विरुद्धे शास्त्रता कुतः ॥ 10 ॥
धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः या या विक्रियते संस्था ततः सापि परनश्यति ॥ 11 ॥
विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा अनीयान कषुर धाराया गरीयान पर्वताद अपि ॥ 12 ॥
गन्धर्वनगराकारः परथमं संप्रदृश्यते अन्वीक्ष्यमाणः कविभिः पुनर गच्छत्य अदर्शनम ॥ 13 ॥
निपानानीव गॊऽभयाशे कषेत्रे कुल्येव भारत समृतॊ ऽपि शाश्वतॊ धर्मॊ विप्रहीनॊ न दृश्यते ॥ 14 ॥
कामाद अन्ये कषयाद अन्ये कारणैर अपरैस तथा असन्तॊ हि वृथाचारं भजन्ते बहवॊ ऽपरे ॥ 15 ॥
धर्मॊ भवति स कषिप्रं विलीनस तव एव साधुषु अन्ये तान आहुर उन्मत्तान अपि चावहसन्त्य उत ॥ 16 ॥
महाजना हय उपावृत्ता राजधर्मं समाश्रिताः न हि सर्वहितः कश चिद आचारः संप्रदृश्यते ॥ 17 ॥
तेनैवान्यः परभवति सॊ ऽपरं बाधते पुनः दृश्यते चैव स पुनस तुल्यरूपॊ यदृच्छया ॥ 18 ॥
येनैवान्यः परभवति सॊ ऽपरान अपि बाधते आचाराणाम अनैकाग्र्यं सर्वेषाम एव लक्षयेत ॥ 19 ॥
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः तेनाचारेण पूर्वेण संस्था भवति शाश्वती ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 252
Reach this point to mark the section finished.
Continue to अध्याय 253