धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 251

  1. [य] इमे वै मानवाः सर्वे धर्मं परति विशङ्किताः कॊ ऽयं धर्मः कुतॊ धर्मस तन मे बरूहि पितामह ॥ 1 ॥

  2. धर्मॊ नव अयम इहार्थः किम अमुत्रार्थॊ ऽपि वा भवेत उभयार्थॊ ऽपि वा धर्मस तन मे बरूहि पितामह ॥ 2 ॥

  3. [भीस्म] सद आचारः समृतिर वेदास तरिविधं धर्मलक्षणम चतुर्थम अर्थम इत्य आहुः कवयॊ धर्मलक्षणम ॥ 3 ॥

  4. अपि हय उक्तानि कर्माणि वयवस्यन्त्य उत्तरावरे लॊकयात्रार्थम एवेह धर्मस्य नियमः कृतः उभयत्र सुखॊदर्क इह चैव परत्र च ॥ 4 ॥

  5. अलब्ध्वा निपुनं धर्मं पापः पापे परसज्जति न च पापकृतः पापान मुच्यन्ते के चिद आपदि ॥ 5 ॥

  6. अपापवादी भवति यदा भवति धर्मवित धर्मस्य निष्ठा सवाचारस तम एवाश्रित्य भॊत्स्यसे ॥ 6 ॥

  7. यदाधर्मसमाविष्टॊ धनं गृह्णाति तस्करः रमते निर्हरन सतेनः परवित्तम अराजके ॥ 7 ॥

  8. यदास्य तद धरन्त्य अन्ये तदा राजानम इच्छति तदा तेषां सपृहयते ये वै तुष्टाः सवकैर धनैः ॥ 8 ॥

  9. अभीतः शुचिर अभ्येति राजद्वारम अशङ्कितः न हि दुश्चरितं किं चिद अन्तरात्मनि पश्यति ॥ 9 ॥

  10. सत्यस्य वचनं साधु न सत्याद विद्यते परम सत्येन विधृतं सर्वं सर्वं सत्ये परतिष्ठितम ॥ 10 ॥

  11. अपि पापकृतॊ रौद्राः सत्यं कृत्वा पृथक पृथक अद्रॊहम अविसंवादं परवर्तन्ते तदाश्रयाः ते चेन मिथॊ ऽधृतिं कुर्युर विनश्येयुर असंशयम ॥ 11 ॥

  12. न हर्तव्यं परधनम इति धर्मः सनातनः मन्यन्ते बलवन्तस तं दुर्बलैः संप्रवर्तितम यदा नियति दौर्बल्यम अथैषाम एव रॊचते ॥ 12 ॥

  13. न हय अत्यन्तं बलयुता भवन्ति सुखिनॊ ऽपि वा तस्माद अनार्जवे बुद्धिर न कार्या ते कथं चन ॥ 13 ॥

  14. असाधुभ्यॊ ऽसय न भयं न चॊरेभ्यॊ न राजतः न किं चित कस्य चित कुर्वन निर्भयः शुचिर आवसेत ॥ 14 ॥

  15. सर्वतः शङ्कते सतेनॊ मृगॊ गरामम इवेयिवान बहुधाचरितं पापम अन्यत्रैवानुपश्यति ॥ 15 ॥

  16. मुदितः शुचिर अभ्येति सर्वतॊ निर्भयः सदा न हि दुश्चरितं किं चिद आत्मनॊ ऽनयेषु पश्यति ॥ 16 ॥

  17. दातव्यम इत्य अयं धर्म उक्तॊ भूतहिते रतैः तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम ॥ 17 ॥

  18. यदा नियति कार्पण्यम अथैषाम एव रॊचते न हय अत्यन्तं धनवन्तॊ भवन्ति सुखिनॊ ऽपि वा ॥ 18 ॥

  19. यद अन्यैर विहितं नेच्छेद आत्मनः कर्म पूरुषः न तत्परेषु कुर्वीत जानन्न अप्रियम आत्मनः ॥ 19 ॥

  20. यॊ ऽनयस्य सयाद उपपतिः स कं किं वक्तुम अर्हति यद अन्यस तस्य तत कुर्यान न मृष्येद इति मे मतिः ॥ 20 ॥

  21. जीवितुं यः सवयं चेच्छेत कथं सॊ ऽनयं परघातयेत यद यद आत्मन इच्छेत तत्परस्यापि चिन्तयेत ॥ 21 ॥

  22. अतिरिक्तैः संविभजेद भॊगैर अन्यान अकिंचनान एतस्मात कारणाद धात्रा कुसीदं संप्रवर्तितम ॥ 22 ॥

  23. यस्मिंस तु देवाः समये संतिष्ठेरंस तथा भवेत अथ चेल लाभसमये सथितिर धर्मे ऽपि शॊभना ॥ 23 ॥

  24. सर्वं परियाभ्युपगतं धर्मम आहुर मनीषिणः पश्यैतं लक्षणॊद्देशं धर्माधर्मे युधिष्ठिर ॥ 24 ॥

  25. लॊकसंग्रह संयुक्तं विधात्रा विहितं पुरा सूक्ष्मधर्मार्थनियतं सतां चरितम उत्तमम ॥ 25 ॥

  26. धर्मलक्षणम आख्यातम एतत ते कुरुसत्तम तस्माद अनार्जवे बुद्धिर न कार्या ते कथं चन ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 252

Previous: अध्याय 250