धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 249

  1. [सथाणु] परजा सर्ग निमित्तं मे कार्यवत्ताम इमां परभॊ विद्धि सृष्टास तवया हीमा मा कुप्यासां पितामह ॥ 1 ॥

  2. तव तेजॊ ऽगनिना देव परजा दह्यन्ति सर्वशः ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत परभॊ ॥ 2 ॥

  3. [परजापति] न कुप्ये न च मे कामॊ न भवेरन परजा इति लाघवार्थं धरण्यास तु ततः संहार इष्यते ॥ 3 ॥

  4. इयं हि मां सदा देवी भारार्ता समचॊदयत संहारार्थं महादेव भारेणाप्सु निमज्जति ॥ 4 ॥

  5. यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन संहारम आसां वृद्धानां ततॊ मां करॊध आविशत ॥ 5 ॥

  6. [सथाणु] संहारान्तं परसीदस्व मा करुधस तरिदशेश्वर मा परजाः सथावरं वैच जङ्गमं च विनीनशः ॥ 6 ॥

  7. पल्वलानि च सर्वाणि सर्वं चैव तृणॊलपम सथावरं जङ्गमं चैव भूतग्रामं चतुर्विधम ॥ 7 ॥

  8. तद एतद भस्मसाद भूतं जगत सर्वम उपप्लुतम परसीद भगवन साधॊ वर एष वृतॊ मया ॥ 8 ॥

  9. नष्टा न पुनर एष्यन्ति परजा हय एताः कथं चन तस्मान निवर्त्यताम एतत तेजः सवेनैव तेजसा ॥ 9 ॥

  10. उपायम अन्यं संपश्य परजानां हितकाम्यया यथेमे जन्तवः सर्वे निवर्तेरन परंतप ॥ 10 ॥

  11. अभावम अभिगच्छेयुर उत्सन्नप्रजना परजाः अधिदैव नियुक्तॊ ऽसमि तवया लॊकेष्व इहेश्वर ॥ 11 ॥

  12. तवद भवं हि जगन नाथ जगत सथावरजङ्गमम परसाद्य तवां महादेव याचाम्य आवृत्तिजाः परजाः ॥ 12 ॥

  13. [नारद] शरुत्वा तु वचनं देवः सथानॊर नियतवाङ्मनः तेजस तत सवं निजग्राह पुनर एवान्तर आत्मना ॥ 13 ॥

  14. ततॊ ऽगनिम उपसंगृह्य भगवाँल लॊकपूजितः परवृत्तिं च निवृत्तिं च कल्पयाम आस वै परभुः ॥ 14 ॥

  15. उपसंहरतस तस्य तम अग्निं रॊषजं तदा परादुर्बभूव विश्वेभ्यः खेभ्यॊ नारी महात्मनः ॥ 15 ॥

  16. कृष्णा रक्ताम्बरधरा रक्तनेत्र तलान्तरा दिव्यकुन्दल संपन्ना दिव्याभरणभीसिता ॥ 16 ॥

  17. सा विनिःसृत्य वै खेभ्यॊ दक्षिणाम आश्रिता दिशम ददृशाते ऽथ तौ कन्यादेवौ विश्वेश्वराव उभौ ॥ 17 ॥

  18. ताम आहूय तदा देवॊ लॊकानाम आदिर ईश्वरः मृत्यॊ इति महीपाल जहि चेमाः परजा इति ॥ 18 ॥

  19. तवं हि संहार बुद्ध्या मे चिन्तिता रुषितेन च तस्मात संहर सर्वास तवं परजाः सजद पण्डिताः ॥ 19 ॥

  20. अविशेषेण चैव तवं परजाः संहर भामिनि मम तवं हि नियॊगेन शरेयः परम अवाप्स्यसि ॥ 20 ॥

  21. एवम उक्ता तु सा देवी मृत्युः कमलमालिनी परदध्यौ दुःखिता बाला साश्रुपातम अतीव हि ॥ 21 ॥

  22. पानिभ्यां चैव जग्राह तान्य अश्रूणि जनेश्वरः मानवानां हितार्थाय ययाचे पुनर एव च ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 250

Previous: अध्याय 248