[य] य इमे पृथिवीपालाः शेरते पृथिवीतले पृतना मध्य एते हि गतसत्त्वा महाबलाः ॥ 1 ॥
एकैकशॊ भीमबला नागायुत बलास तथा एते हि निहताः संख्ये तुल्यतेजॊबलैर नरैः ॥ 2 ॥
नैषां पश्यामि हन्तारं परानिनां संयुगे पुरा विक्रमेणॊपसंपन्नास तेजॊबलसमन्विताः ॥ 3 ॥
अथ चेमे महाप्राज्ञ शेरते हि गतासवः मृता इति च शब्दॊ ऽयं वर्तत्य एषु गतासुषु ॥ 4 ॥
इमे मृता नृपतयः परायशॊ भीमविक्रमाः तत्र मे संशयॊ जातः कुतः संज्ञा मृता इति ॥ 5 ॥
कस्य मृत्युः कुतॊ मृत्युः केन मृत्युर इह परजाः हरत्य अमरसंकाश तन मे बरूहि पितामह ॥ 6 ॥
[भी] पुरा कृतयुगे तात राजासीद अविकम्पकः स शत्रुवशम आपन्नः संग्रामे कषीणवाहनः ॥ 7 ॥
तत्र पुत्रॊ हरिर नाम नारायण समॊ बले स शत्रुभिर हतः संख्ये सबलः सपदानुगः ॥ 8 ॥
स राजा शत्रुवशगः पुत्रशॊकसमन्वितः यदृच्छयाशान्ति परॊ ददर्श भुवि नारदम ॥ 9 ॥
स तस्मै सर्वम आचस्त यथावृत्तं जनेश्वरः शत्रुभिर गरहणं संख्ये पुत्रस्य मरणं तथा ॥ 10 ॥
तस्य तद वचनं शरुत्वा नारदाथ तपॊधनः आख्यानम इदम आचस्त पुत्रशॊकापहं तदा ॥ 11 ॥
राजञ शृणु समाख्यानम अद्येदं बहुविस्तरम यथावृत्तं शरुतं चैव मयापि वसुधाधिप ॥ 12 ॥
परजाः सृष्ट्वा महातेजाः परजा सर्गे पितामहः अतीव वृद्धा बहुला नामृष्यत पुनः परजाः ॥ 13 ॥
न हय अन्तरम अभूत किं चित कव चिज जन्तुभिर अच्युत निरुच्छ्वासम इवॊन्नद्धं तरैलॊक्यम अभवन नृप ॥ 14 ॥
तस्य चिन्ता समुत्पन्न संहारं परति भूपते चिन्तयन नाध्यगच्छच च संहारे हेतुकारणम ॥ 15 ॥
तस्य रॊषान महाराज खेभ्यॊ ऽगनिर उदतिष्ठत तेन सर्वदिशॊ राजन ददाह स पितामहः ॥ 16 ॥
ततॊ दिवं भुवं खं च जगच च सचराचरम ददाह पावकॊ राजन भगवत कॊपसंभवः ॥ 17 ॥
तत्रादह्यन्त भूतानि जङ्गमानि धरुवाणि च महता कॊपवेगेन कुपिते परपितामहे ॥ 18 ॥
ततॊ हरि जतः सथानुर वेदाध्वर पतिः शिवः जगाद शरणं देवॊ बराह्मणं परवीरहा ॥ 19 ॥
तस्मिन्न अभिगते सथानौ परजानां हितकाम्यया अब्रवीद वरदॊ देवॊ जवलन्न इव तदा शिवम ॥ 20 ॥
करवाण्य अद्य कं कामं वरार्हॊ ऽसि मतॊ मम कर्ता हय अस्मि परियं शम्भॊ तव यद धृदि वर्तते ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 248
Reach this point to mark the section finished.
Continue to अध्याय 249