धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 242

  1. [षुक्र] यस्माद धर्मात परॊ धर्मॊ विद्यते नेह कश चन यॊ विशिष्टश च धर्मेभ्यस तं भवान परब्रवीतु मे ॥ 1 ॥

  2. [वयास] धर्मं ते संप्रवक्ष्यामि पुराणम ऋषिसंस्तुतम विशिष्टं सर्वधर्मेभ्यस तम इहैकमनाः शृणु ॥ 2 ॥

  3. इन्द्रियाणि परमाथीनि बुद्ध्या संयम्य यत्नतः सर्वतॊ निष्पतिष्णूनि पिता बालान इवात्मजान ॥ 3 ॥

  4. मनसश चेन्द्रियाणां च हय ऐकाग्र्यं परमं तपः तज जयायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ 4 ॥

  5. तानि सर्वाणि संधाय मनः सस्थानि मेधया आत्मतृप्त इवासीत बहु चिन्त्यम अचिन्तयन ॥ 5 ॥

  6. गॊचरेभ्यॊ निवृत्तानि यदा सथास्यन्ति वेश्मनि तदा तवम आत्मनात्मानं परं दरक्ष्यसि शाश्वतम ॥ 6 ॥

  7. सर्वात्मानं महात्मानं विधूमम इव पावकम तं पश्यन्ति महात्मानॊ बराह्मणा ये मनीषिणः ॥ 7 ॥

  8. यथा पुष्प फलॊपेतॊ बहुशाखॊ महाद्रुमः आत्मनॊ नाभिजानीते कव मे पुष्पं कव मे फलम ॥ 8 ॥

  9. एवम आत्मा न जानीते कव गमिष्ये कुतॊ नव अहम अन्यॊ हय अत्रान्तर आत्मास्ति यः सर्वम अनुपश्यति ॥ 9 ॥

  10. जञानदीपेन दीप्तेन पश्यत्य आत्मानम आत्मना दृष्ट्वा तवम आत्मनात्मानं निरात्मा भव सर्ववित ॥ 10 ॥

  11. विमुक्तः सर्वपापेभ्यॊ मुक्तत्वच इवॊरगः परां बुद्धिम अवाप्येह विपाप्मा विगतज्वरः ॥ 11 ॥

  12. सर्वतः सरॊतसं घॊरां नदीं लॊकप्रवाहिनीम पञ्चेन्द्रिय गराहवतीं मनःसंकल्परॊधसम ॥ 12 ॥

  13. लॊभमॊहतृणछन्नां कामक्रॊधसरीसृपाम सत्यतीर्थानृत कषॊभां करॊधपङ्कां सरिद वराम ॥ 13 ॥

  14. अव्यक्तप्रभवां शीघ्रां दुस्तराम अकृतात्मभिः परतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम ॥ 14 ॥

  15. संसारसागर गमां यॊनिपाताल दुस्तराम आत्मजन्मॊद्भवां तात जिह्वावर्तां दुरासदाम ॥ 15 ॥

  16. यां तरन्ति कृतप्रज्ञा धृतिमन्तॊ मनीषिणः तां तीर्णः सर्वतॊ मुक्तॊ विपूतात्मात्मविच छुचिः ॥ 16 ॥

  17. उत्तमां बुद्धिम आस्थाय बरह्मभूयं गमिष्यसि संतीर्णः सर्वसंक्लेशान परसन्नात्मा विकल्मसः ॥ 17 ॥

  18. भूमिष्ठानीव भूतानि पर्वतस्थॊ निशामय अक्रुध्यन्न अप्रहृष्यंश च ननृशंस मतिस तथा ततॊ दरक्ष्यसि भूतानां सर्वेषां परभवाप्ययौ ॥ 18 ॥

  19. एवं वै सर्वधर्मेभ्यॊ विशिष्टं मेनिरे बुधाः धर्मं धर्मभृतां शरेष्ठ मुनयस तत्त्वदर्शिनः ॥ 19 ॥

  20. आत्मनॊ ऽवययिनॊ जञात्वा इदं पुत्रानुशासनम परयताय परवक्तव्यं हितायानुगताय च ॥ 20 ॥

  21. आत्मज्ञानम इदं गुह्यं सर्वगुह्यतमं महत अब्रुवं यद अहं तात आत्मसाक्षिकम अञ्जसा ॥ 21 ॥

  22. नैव सत्री न पुमान एतन नैव चेदं नपुंसकम अदुःखम असुखं बरह्मभूतभव्य भवात्मकम ॥ 22 ॥

  23. नैतज जञात्वा पुमान सत्री वा पुनर्भवम अवाप्नुयात अभव परतिपत्त्यर्थम एतद वर्त्म विधीयते ॥ 23 ॥

  24. अथा मतानि सर्वाणि न चैतानि यथा यथा कथितानि मया पुत्र भवन्ति न भवन्ति च ॥ 24 ॥

  25. तत परीतियुक्तेन गुणान्वितेन; पुत्रेण सत पुत्रगुणान्वितेन पृष्टॊ हीदं परीतिमता हितार्थं; बरूयात सुतस्येह यद उक्तम एतत ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 243

Previous: अध्याय 241