[वयास] गन्धान रसान नानुरुन्ध्यात सुखं वा; नालंकारांश चाप्नुयात तस्य तस्य मानं च कीर्तिं च यशश च नेच्छेत; स वै परचारः पश्यतॊ बराह्मणस्य ॥ 1 ॥
सर्वान वेदान अधीयीत शुश्रूसुर बरह्मचर्यवान ऋचॊ यजूंसि सामानि न तेन न स बराह्मणः ॥ 2 ॥
जञातिवत सर्वभूतानां सर्ववित सर्ववेदवित नाकामॊ मरियते जातु न तेन न च बराह्मणः ॥ 3 ॥
इष्टीश च विविधाः पराप्य करतूंश चैवाप्तदक्षिणान नैव पराप्नॊति बराह्मण्यम अभिध्यानात कथं चन ॥ 4 ॥
यदा चायं न बिभेति यदा चास्मान न बिभ्यति यदा नेच्छति न दवेष्टि बरह्म संपद्यते तदा ॥ 5 ॥
यदा न कुरुते भावं सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा ॥ 6 ॥
कामबन्धनम एवैकं नान्यद अस्तीह बन्धनम कामबन्धन मुक्तॊ हि बरह्मभूयाय कल्पते ॥ 7 ॥
कामतॊ मुच्यमानस तु धूम्राभ्राद इव चन्द्रमः विरजाः कामम आकाङ्क्षन धीरॊ धैर्येण वर्तते ॥ 8 ॥
आपूर्यमाणम अचलप्रतिष्ठं; समुद्रम आपः परविशन्ति यद्वत स कामकान्तॊ न तु कामकामः; स वै लॊकात सवर्गम उपैति देही ॥ 9 ॥
वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः दमस्यॊपनिषद दानं दानस्यॊपनिषत तपः ॥ 10 ॥
तपसॊपनिषत तयागस तयागस्यॊपनिषत सुखम सुखस्यॊपनिषत सवर्गः सवर्गस्यॊपनिषच छमः ॥ 11 ॥
कलेदनं शॊकमनसॊः संतापं तृष्णया सह सत्त्वम इच्छसि संतॊषाच छान्ति लक्षणम उत्तमम ॥ 12 ॥
विशॊकॊ निर्ममः शान्तः परसन्नात्मात्मवित्तमः सॊ भिर लक्षणवान एतैः समग्रः पुनर एष्यति ॥ 13 ॥
सॊ भिः सत्त्वगुणॊपेतैः पराज्ञैर अधिकमन्त्रिभिः ये विदुः परेत्य चात्मानम इहस्थांस तांस तथा विदुः ॥ 14 ॥
अकृत्रिमम असंहार्यं पराकृतं निरुपस्कृतम अध्यात्मं सुकृतप्रज्ञः सुखम अव्ययम अश्नुते ॥ 15 ॥
निष्प्रचारं मनः कृत्वा परतिष्ठाप्य च सर्वतः याम अयं लभते तुष्टिं सा न शक्यम अतॊ ऽनयथा ॥ 16 ॥
येन तृप्यत्य अभुञ्जानॊ येन तुष्यत्य अवित्तवान येनास्नेहॊ बलं धत्ते यस तं वेद स वेदवित ॥ 17 ॥
संगॊप्य हय आत्मनॊ दवाराण्य अपिधाय विचिन्तयन यॊ हय आस्ते बराह्मणः शिष्टः स आत्मरतिर उच्यते ॥ 18 ॥
समाहितं परे तत्त्वे कषीणकामम अवस्थितम सर्वतः सुखम अन्वेति वपुश चान्द्रमसं यथा ॥ 19 ॥
सविशेषाणि भूतानि गुणांश चाभजतॊ मुनेः सुखेनापॊह्यते दुःखं भास्करेण तमॊ यथा ॥ 20 ॥
तम अतिक्रान्त कर्माणम अतिक्रान्त गुणक्षयम बराह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ॥ 21 ॥
स यदा सर्वतॊ मुक्तः समः पर्यवतिष्ठते इन्द्रियाणीन्द्रियार्थांश च शरीरस्थॊ ऽतिवर्तते ॥ 22 ॥
कारणं परमं पराप्य अतिक्रान्तस्य कार्यताम पुनरावर्तनं नास्ति संप्राप्तस्य परात परम ॥ 23 ॥
शान्तिपर्व · Shanti Parva
अध्याय 243
Reach this point to mark the section finished.
Continue to अध्याय 244