[वयास] सृजते तु गुणान सत्त्वं कषेत्रज्ञस तव अनुतिष्ठति गुणान विक्रियतः सर्वान उदासीनवद ईश्वरः ॥ 1 ॥
सवभावयुक्तं तत सर्वं यद इमां सृजते गुणान ऊर्ण नाभिर यथा सूत्रं सृजते तन्तुवद गुणान ॥ 2 ॥
परध्वस्ता न निवर्तन्ते परवृत्तिर नॊपलभ्यते एवम एके वयवस्यन्ति निवृत्तिर इति चापरे ॥ 3 ॥
उभयं संप्रधार्यैतद अध्यवस्येद यथामति अनेनैव विधानेन भवेद गर्भशयॊ महान ॥ 4 ॥
अनादि निधनं नित्यम आसाद्य विचरेन नरः अक्रुध्यन्न अप्रहृष्यंश च नित्यं विगतमत्सरः ॥ 5 ॥
इत्य एवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृधम अतीत्य सुखम आसीत अशॊचंश छिन्नसंशयः ॥ 6 ॥
तप्येयुः परच्युताः पृथ्व्या यथा पूर्णां नदीं नराः अवगाधा हय अविद्वांसॊ विद्धि लॊकम इमं तथा ॥ 7 ॥
न तु ताम्यति वै विद्वान सथले चरति तत्त्ववित एवं यॊ विन्दते ऽऽतमानं केवलं जञानम आत्मनः ॥ 8 ॥
एवं बुद्ध्वा नरः सर्वां भूतानाम आगतिं गतिम समवेक्ष्य शनैः सम्यग लभते शमम उत्तमम ॥ 9 ॥
एतद वै जन्म सामर्थ्यं बराह्मणस्य विशेषतः आत्मज्ञानं शमश चैव पर्याप्तं तत्परायनम ॥ 10 ॥
एतद बुद्ध्वा भवेद बुद्धः किम अन्यद बुद्ध लक्षणम विज्ञायैतद विमुच्यन्ते कृतकृत्या मनीषिणः ॥ 11 ॥
न भवति विदुषां महद भयं; यद अविदुषां सुमहद भयं भवेत न हि गतिर अधिकास्ति कस्य चिद; भवति हि या विदुषः सनातनी ॥ 12 ॥
लॊकमातुरम असूयते जनस; तत तद एव च निरीक्ष्य शॊचते तत्र पश्य कुशलान अशॊचतॊ; ये विदुस तद उभयं कृताकृतम ॥ 13 ॥
यत करॊत्य अनभिसंधि पूर्वकं; तच च निर्नुदति यत पुरा कृतम न परियं तद उभयं न चाप्रियं; तस्य तज जनयतीह कुर्वतः ॥ 14 ॥
शान्तिपर्व · Shanti Parva
अध्याय 241
Reach this point to mark the section finished.
Continue to अध्याय 242