धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 238

  1. [वयास] परकृतेस तु विकारा ये कषेत्रज्ञस तैः परिश्रितः ते चैनं न परजानन्ति स तु जानाति तान अपि ॥ 1 ॥

  2. तैश चैष कुरुते कार्यं मनः सस्थैर इहेन्द्रियैः सुदान्तैर इव संयन्ता दृधैः परमवाजिभिः ॥ 2 ॥

  3. इन्द्रियेभ्यॊ परा हय अर्था अर्थेभ्यः परमं मनः मनसस तु परा बुद्धिर बुद्धेर आत्मा महान परः ॥ 3 ॥

  4. महतः परम अव्यक्तम अव्यक्तात परतॊ ऽमृतम अमृतान न परं किं चित सा काष्ठा सा परा गतिः ॥ 4 ॥

  5. एवं सर्वेषु भूतेषु गूढॊ ऽऽतमा न परकाशते दृश्यते तवाग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥ 5 ॥

  6. अन्तरात्मनि संलीयमनः सस्थानि मेधया इन्द्रियाणीन्द्रियार्थांश च बहु चिन्त्यमचिन्तयन ॥ 6 ॥

  7. धयानॊपरमणं कृत्वा विद्या संपादितं मनः अनीश्वरः परशान्तात्म ततॊ ऽरछत्य अमृतं पदम ॥ 7 ॥

  8. इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः आत्मनः संप्रदानेन मर्त्यॊ मृत्युम उपाश्नुते ॥ 8 ॥

  9. हित्वा तु सर्वसंकल्पान सत्त्वे चित्तं निवेशयेत सत्त्वे चित्तं समावेश्य ततः कालंजरॊ भवेत ॥ 9 ॥

  10. चित्तप्रसादेन यतिर जहाति हि शुभाशुभम परसन्नात्मात्मनि सथित्वा सुखम आनन्त्यम अश्नुते ॥ 10 ॥

  11. लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत निवाते वा यथा दीपॊ दीप्यमानॊ न कम्पते ॥ 11 ॥

  12. एवं पूर्वापरे रात्रे युञ्जन्न आत्मानम आत्मना सत्त्वाहार विशुद्धात्मा पश्यत्य आत्मानम आत्मनि ॥ 12 ॥

  13. रहस्यं सर्ववेदानाम अनैतिह्यम अनागमम आत्मप्रत्ययिकं शास्त्रम इदं पुत्रानुशासनम ॥ 13 ॥

  14. धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद वसु दशेदम ऋक सहस्राणि निर्मथ्यामृतम उद्धृतम ॥ 14 ॥

  15. नव नीतं यथा दध्नः काष्ठाद अग्निर यथैव च तथैव विदुषां जञानं पुत्र हेतॊः समुद्धृतम सनातकानाम इदं शास्त्रं वाच्यं पुत्रानुशासनम ॥ 15 ॥

  16. तद इदं नाप्रशान्ताय नादान्तायातपस्विने नावेद विदुषे वाच्यं तथा नानुगताय च ॥ 16 ॥

  17. नासूयकायानृजवे न चानिर्दिष्ट कारिणे न तर्क शास्त्रदग्धाय तथैव पिशुनाय च ॥ 17 ॥

  18. शलाघते शलाघनीयाय परशान्ताय तपस्विने इदं परियाय पुत्राय शिष्यायानुगताय च रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचनन ॥ 18 ॥

  19. यद्य अप्य अस्य महीं दद्याद रत्नपूर्णाम इमां नरः इदम एव ततः शरेय इति मन्येत तत्त्ववित ॥ 19 ॥

  20. अतॊ गुह्यतरार्थं तद अध्यात्मम अतिमानुषम यत तन महर्षिभिर दृष्टं वेदान्तेषु च गीयते तत ते ऽहं संप्रवक्ष्यामि यन मां तवं परिपृच्छसि ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 239

Previous: अध्याय 237