धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 229

  1. [वयास] अथ जञानप्लवं धीरॊ गृहीत्वा शान्तिम आस्थितः उन्मज्जंश च निमज्जंश च जञानम एवाभिसंश्रयेत ॥ 1 ॥

  2. [षुक्र] किं तज जञानम अथॊ विद्या यया निस्तरति दवयम परवृत्ति लक्षणॊ धर्मॊ निवृत्तिर इति चैव हि ॥ 2 ॥

  3. [वयास] यस तु पश्येत सवभावेन विनाभवम अचेतनः पुष्यते च पुनः सर्वान परज्ञया मुक्तहेतुकः ॥ 3 ॥

  4. येषां चैकान्त भावेन सवभवः कारणं मतम पूत्वा तृणबुसीकां वै ते लभन्ते न किं चन ॥ 4 ॥

  5. ये चैनं पक्षम आश्रित्य वर्तयन्त्य अल्पचेतसः सवभावं कारणं जञात्वा न शरेयः पराप्नुवन्ति ते ॥ 5 ॥

  6. सवभावॊ हि विनाशाय मॊहकर्म मनॊ भवः निरुक्तम एतयॊर एतत सवभावपरभावयॊः ॥ 6 ॥

  7. कृष्यादीनि हि कर्माणि सस्यसंहरणानि च परज्ञावद्भिः परकॢप्तानि यानासनगृहाणि च ॥ 7 ॥

  8. आक्रीदानां गृहाणां च गदानाम अगदस्य च परज्ञावन्तः परवक्तारॊ जञानवद्भिर अनुष्ठिताः ॥ 8 ॥

  9. परज्ञा संयॊजयत्य अर्थैः परज्ञा शरेयॊ ऽधिगच्छति राजानॊ भुञ्जते राज्यं परज्ञया तुल्यलक्षणाः ॥ 9 ॥

  10. पारावर्यं तु भूतानां जञानेनैवॊपलभ्यते विद्यया तात सृष्टानां विद्यैव परमा गतिः ॥ 10 ॥

  11. भूतानां जन्म सर्वेषां विविधानां चतुर्विधम जरय्व अन्दम अथॊद्भेदं सवेदं चाप्य उपलक्षयेत ॥ 11 ॥

  12. सथावरेभ्यॊ विशिष्टानि जङ्गमान्य उपलक्षयेत उपपन्नं हि यच चेष्टा विशिष्येत विशेष्ययॊः ॥ 12 ॥

  13. आहुर दविबहु पादानि जङ्गमानि दवयानि च बहु पाद्भ्यॊ विशिष्टानि दविपादानि बहून्य अपि ॥ 13 ॥

  14. दविपदानि दवयान्य आहुः पार्थिवानीतराणि च पार्थिवानि विशिष्टानि तानि हय अन्नानि भुञ्जते ॥ 14 ॥

  15. पार्थिवानि दवयान्य आहुर मध्यमान्य उत्तमानि च मध्यमानि विशिष्टानि जातिधर्मॊपधारणात ॥ 15 ॥

  16. मध्यमानि दवयान्य आहुर धर्मज्ञानीतराणि च धर्मज्ञानि विशिष्टानि कार्याकार्यॊपधारणात ॥ 16 ॥

  17. धर्मज्ञानि दवयान्य आहुर वेदज्ञानीतराणि च वेदज्ञानि विशिष्टानि वेदॊ हय एषु परतिष्ठितः ॥ 17 ॥

  18. वेदज्ञानि दवयान्य आहुः परवक्तॄणीतराणि च परवक्तॄणि विशिष्टानि सर्वधर्मॊपधारणात ॥ 18 ॥

  19. विज्ञायन्ते हि यैर वेदाः सर्वधर्मक्रिया फलाः सयज्ञाः सखिला वेदाः परवक्तृभ्यॊ विनिःसृताः ॥ 19 ॥

  20. परवक्तॄणि दवयान्य आहुर आत्मज्ञानीतराणि च आत्मज्ञानि विशिष्टानि जन्माजन्मॊपधारणात ॥ 20 ॥

  21. धर्मद्वयं हि यॊ वेद स सर्वः सर्वधर्मविद स तयागी सत्यसंकल्पः स तु कषान्तः स ईश्वरः ॥ 21 ॥

  22. धर्मज्ञानप्रतिष्ठं हि तं देवा बराह्मणं विदुः शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम ॥ 22 ॥

  23. अन्तःस्थं च बहिष्ठं च ये ऽधियज्ञाधिवैवतम जानन्ति तान नमस्यामस ते देवास तात ते दविजाः ॥ 23 ॥

  24. तेषु विश्वम इदं भूतं साग्रं च जगद आहितम तेषां माहात्म्यभावस्य सदृशं नास्ति किं चन ॥ 24 ॥

  25. आदिं ते निधनं चैव कर्म चातीत्य सर्वशः चतुर्विधस्य भूतस्य सर्वस्येशाः सवयम्भुवः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 230

Previous: अध्याय 228