[य] आद्यन्तं सर्वभूतानां शरॊतुम इच्छामि कौरव धयानं कर्म च कालं च तथैवायुर युगे युगे ॥ 1 ॥
लॊकतत्त्वं च कार्त्स्न्येन भूतानाम आगतिं गतिम सर्गश च निधनं चैव कुत एतत परवर्तते ॥ 2 ॥
यदि ते ऽनुग्रहे बुद्धिर अस्मास्व इह सतां वर एतद भवन्तं पृच्छामि तद भवान परब्रवीतु मे ॥ 3 ॥
पूर्वं हि कथितं शरुत्वा भृगुभासितम उत्तमम भरद्वाजस्य विप्रर्षेस ततॊ मे बुद्धिर उत्तमा ॥ 4 ॥
जाता परमधर्मिष्ठा दिव्यसंस्थान संस्थिता ततॊ भूयस तु पृच्छामि तद भवान वक्तुम अर्हति ॥ 5 ॥
[भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम जगौ यद भगवान वयासः पुत्राय परिपृच्छते ॥ 6 ॥
अधीत्य वेदान अखिलान साङ्गॊपनिषदस तथा अन्विच्छन नैष्ठिकं कर्म धर्मनैपुन दर्शनात ॥ 7 ॥
कृष्णद्वैपायनं वयासं पुत्रॊ वैयासकिः शुकः पप्रच्छ संदेहम इमं छिन्नधर्मार्थसंशयम ॥ 8 ॥
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम बराह्मणस्य च यत्कृत्यं तद भवान वक्तुम अर्हति ॥ 9 ॥
तस्मै परॊवाच तत सर्वं पिता पुत्राय पृच्छते अतीतानागते विद्वान सर्वज्ञः सर्वधर्मवित ॥ 10 ॥
अनाद्य अन्तम अजं दिव्यम अजरं धरुवम अव्ययम अप्रतर्क्यम अविज्ञेयं बरह्माग्रे समवर्तत ॥ 11 ॥
कास्था निमेषा दश पञ्च चैव; तरिशत तु कास्था गणयेत कलां ताम तरिंशत कलाश चापि भवेन मुहूर्तॊ; भागः कलाया दशमश च यः सयात ॥ 12 ॥
तरिंशन मुहूर्तश च भवेद अहश च; रात्रिश च संख्या मुनिभिः परनीता मासः समृतॊ रात्र्यहनी च तरिंशत; संवत्सरॊ दवादशमास उक्तः संवत्सरं दवे अयने वदन्ति; संख्याविदॊ दक्षिणम उत्तरं च ॥ 13 ॥
अहॊरात्रे विभजते सूर्यॊ मानुषलौकिके रात्रिः सवप्नाय भूतानां चेष्टायै कर्मणाम अहर ॥ 14 ॥
पित्र्ये रात्र्यहनी मासः परविभागस तयॊः पुनः कृष्णॊ ऽहः कर्म चेष्टायां शुक्लः सवप्नाय शर्वरी ॥ 15 ॥
दैवे रात्र्यहनी वर्षं परविभागस तयॊः पुनः अहस तत्रॊदग अयनं रात्रिः सयाद दक्षिणायनम ॥ 16 ॥
ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके तयॊः संख्याय वर्षाग्रं बराह्मे वक्ष्याम्य अहः कषपे ॥ 17 ॥
तेषां संवत्सराग्राणि परवक्ष्याम्य अनुपूर्वशः कृते तरेतायुगे चैव दवापरे च कलौ तथा ॥ 18 ॥
चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम तस्य तावच छती संध्या संध्यांशश च तथाविधः ॥ 19 ॥
इतरेषु ससंध्येषु ससंध्यांशेषु च तरिषु एकापायेन संयान्ति सहस्राणि शतानि च ॥ 20 ॥
एतानि शाश्वताँल लॊकान धारयन्ति सनातनान एतद बरह्मविदां तात विदितं बरह्म शाश्वतम ॥ 21 ॥
चतुर्पात सकलॊ धर्मः सत्यं चैव कृते युगे नाधर्मेणागमः कश चित परस तस्य परवर्तते ॥ 22 ॥
इतरेष्व आगमाद धर्मः पदशस तव अवरॊप्यते चौरिकानृत मायाभिर अधर्मश चॊपचीयते ॥ 23 ॥
अरॊगाः सर्वसिद्धार्थाश चतुर्वर्ष शतायुषः कृते तरेतादिष्व एतेषां पादशॊ हरसते वयः ॥ 24 ॥
वेदवादाश चानुयुगं हरसन्तीति च नः शरुतम आयूंसि चाशिषश चैव वेदस्यैव च यत फलम ॥ 25 ॥
अन्ये कृतयुगे धर्मास तरेतायां दवापरे ऽपरे अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥ 26 ॥
तपः परं कृतयुगे तरेतायां जञानम उत्तमम दवापरे यज्ञम एवाहुर दानम एव कलौ युगे ॥ 27 ॥
एतां दवादश साहस्रीं युगाख्यां कवयॊ विदुः सहस्रं परिवृत्तं तद बराह्मं दिवसम उच्यते ॥ 28 ॥
रात्रिस तावत तिथी बराह्मी तद आदौ विश्वम ईश्वरः परलये ऽधयात्मम आविश्य सुप्त्वा सॊ ऽनते विबुध्यते ॥ 29 ॥
सहस्रयुगपर्यन्तम अहर यद बरह्मणॊ विदुः रात्रिं युगसहस्रान्तां ते ऽहॊरात्रविदॊ जनाः ॥ 30 ॥
परतिबुद्धॊ विकुरुते बरह्माक्षय्यं कषपाक्षये सृजते च महद भूतं तस्माद वयक्तात्मकं मनः ॥ 31 ॥
बरह्मतेजॊमयं शुक्रं यस्य सर्वम इदं जगत एकस्य भूतं भूतस्य दवयं सथावरजङ्गमम ॥ 32 ॥
अहर मुखे विबुद्धः सन सृजते विद्यया जगत अग्र एव महाभूतम आशु वयक्तात्मकं मनः ॥ 33 ॥
अभिभूयेह चार्चिष्मद वयसृजत सप्त मानसान दूरगं बहुधागामि परार्थना संशयात्मकम ॥ 34 ॥
मनः सृष्टिं विकुरुते चॊद्यमानं सिसृक्षया आकाशं जायते तस्मात तस्य शब्दॊ गुणॊ मतः ॥ 35 ॥
आकाशात तु विकुर्वाणात सर्वगन्धवहः शुचिः बलवाञ जायते वायुस तस्य सपर्शॊ गुणॊ मतः ॥ 36 ॥
वायॊर अपि विकुर्वाणाज जयॊतिर भूतं तमॊनुदम रॊचिष्णु जायते तत्र तद रूपगुणम उच्यते ॥ 37 ॥
जयॊतिषॊ ऽपि विकुर्वाणाद भवन्त्य आपॊ रसात्मिकाः अद्भ्यॊ गन्धगुणा भूमिः पूर्वैषा सृष्टिर उच्यते ॥ 38 ॥
गुणाः पूर्वस्य पूर्वस्य पराप्नुवन्त्य उत्तरॊत्तरम तेषां यावत तिथं यद यत तत तत तावद गुणं समृतम ॥ 39 ॥
उपलभ्याप्सु चेद गन्धं के चिद बरूयुर अनैपुणात पृथिव्याम एव तं विद्याद आपॊ वायुं च संश्रितम ॥ 40 ॥
एते तु सप्त पुरुषा नाना विर्याः पृथक पृथक नाशक्नुवन परजाः सरष्टुम असमागम्य सर्वतः ॥ 41 ॥
ते समेत्य महात्मानम अन्यॊन्यम अभिसंश्रिताः शरीराश्रयणं पराप्तास ततः पुरुष उच्यते ॥ 42 ॥
शरयणाच छरीरं भवति मूर्तिमत सॊदशात्मकम तद आविशन्ति भूतानि महान्ति सह कर्मणा ॥ 43 ॥
सर्वभूतानि चादाय तपसश चरणाय च आदिकर्ता महाभूतं तम एवाहुः परजापतिम ॥ 44 ॥
स वै सृजति भूतानि स एव पुरुषः परः अजॊ जनयते बरह्मा देवर्षिपितृमानवान ॥ 45 ॥
लॊकान नदीः समुद्रांश च दिशः शैलान वनस्पतीन नरकिंनर रक्षांसि वयः पशुमृगॊरगान अव्ययं च वययं चैव दवयं सथावरजङ्गमम ॥ 46 ॥
तेषां ये यानि कर्माणि पराक सृष्ट्यां परतिपेदिरे तान्य एव परतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ 47 ॥
हिंस्राहिंस्रे मृदु करूरे धर्माधर्मे ऋतानृते अतॊ यन मन्यते धाता तस्मात तत तस्य रॊचते ॥ 48 ॥
महाभूतेषु नानात्वम इन्द्रियार्थेषु मूर्तिषु विनियॊगं च भूतानां धातैव विदधात्य उत ॥ 49 ॥
के चित पुरुषकारं तु पराहुः कर्मविदॊ जनाः दैवम इत्य अपरे विप्राः सवभावं भूतचिन्तकाः ॥ 50 ॥
पौरुषं कर्म दैवं च फलवृत्ति सवभावतः तरय एते ऽपृथग बूता नविवेकं तु के चन ॥ 51 ॥
एवम एतच च नैवं च यद भूतं सृजते जगत कर्मस्था विषमं बरूयुः सत्त्वस्थाः समदर्शिनः ॥ 52 ॥
तपॊ निःश्रेयसं जन्तॊस तस्य मूलं दमः शमः तेन सर्वान अवाप्नॊति यान कामान मनसेच्छति ॥ 53 ॥
तपसा तद अवाप्नॊति यद भूतं सृजते जगत स तद भूतश च सर्वेषां भूतानां भवति परभुः ॥ 54 ॥
ऋषयस तपसा वेदान अध्यैषन्त दिवानिशम अनादि निधना नित्या वाग उत्सृष्टा सवयम्भुवा ॥ 55 ॥
ऋषीणां नामधेयानि याश च वेदेषु सृष्टयः शर्वर्य अन्तेषु जातानां तान्य एवैभ्यॊ ददाति सः ॥ 56 ॥
नाम भेदस तपः कर्म यज्ञाख्या लॊकसिद्धयः आत्मसिद्धिस तु वेदेषु परॊच्यते दशभिः करमैः ॥ 57 ॥
यद उक्तं वेदवादेषु गहनं वेद दृष्टिभिः तद अन्तेषु यथा युक्तं करमयॊगेन लक्ष्यते ॥ 58 ॥
कर्मजॊ ऽयं पृथग्भावॊ दवन्द्वयुक्तॊ वियॊगिनः आत्मसिद्धिस तु विज्ञाता जहाति परायशॊ बलम ॥ 59 ॥
दवे बरह्मणी वेदितव्ये शब्दब्रह्म परं च यत शब्दब्रह्मणि निष्णातः परं बरह्माधिगच्छति ॥ 60 ॥
आरम्भ यज्ञाः कषत्रस्य हविर यज्ञा विशस तथा परिचारयज्ञाः शूद्रास तु तपॊयज्ञा दविजातयः ॥ 61 ॥
तरेतायुगे विधिस तव एषां यज्ञानां न कृते युगे दवापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥ 62 ॥
अपृथग धर्मिणॊ मर्त्या ऋक सामानि यजूंसि च काम्यां पुष्टिं पृथग दृष्ट्वा तपॊभिस तप एव च ॥ 63 ॥
तरेतायां तु समस्तास ते परादुरासन महाबलाः संयन्तारः सथावराणां जङ्गमानां च सर्वशः ॥ 64 ॥
तरेतायां संहता हय एते यज्ञा वर्णास तथैव च संरॊधाद आयुषस तव एते वयस्यन्ते दवापरे युगे ॥ 65 ॥
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगे ऽखिलाः उत्सीदन्ते सयज्ञाश च केवला धर्मसेतवः ॥ 66 ॥
कृते युगे यस तु धर्मॊ बराह्मणेषु परदृश्यते आत्मवत्सु तपॊवत्सु शरुतवत्सु परतिष्ठितः ॥ 67 ॥
अधर्मव्रतसंयॊगं यथा धर्मं युगे युगे विक्रियन्ते सवधर्मस्था वेदवादा यथा युगम ॥ 68 ॥
यथा विश्वानि भूतानि वृष्ट्या भूयांसि परावृषि सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे ॥ 69 ॥
यथर्तुष्व ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य एव तथा बरह्माह रात्रिषु ॥ 70 ॥
विहितं कालनानात्वम अनादि निधनं तथा कीर्तितं यत पुरस्तात ते तत सूते चात्ति च परजाः ॥ 71 ॥
दधाति परभवे सथानं भूतानां संयमॊ यमः सवभावेनैव वर्तन्ते दवन्द्वयुक्तानि भूरिशः ॥ 72 ॥
सर्गः कालः करिया वेदाः कर्ता कार्यं करियाफलम परॊक्तं ते पुत्र सर्वं वै यन मां तवं परिपृच्छसि ॥ 73 ॥
परत्याहारं तु वक्ष्यामि शर्वर्य आदौ गते ऽहनि यथेदं कुरुते ऽधयात्मं सुसूक्ष्मं विश्वम ईश्वरः ॥ 74 ॥
दिवि सूर्यास तथा सप्त दहन्ति शिखिनॊ ऽरचिषा सर्वम एतत तदार्चिर्भिः पूर्णं जाज्वल्यते जगत ॥ 75 ॥
शान्तिपर्व · Shanti Parva
अध्याय 224
Reach this point to mark the section finished.
Continue to अध्याय 225