[वयास] पृथिव्यां यानि भूतानि जङ्गमानि धरुवाणि च तान्य एवाग्रे परलीयन्ते भूमित्वम उपयान्ति च ॥ 1 ॥
ततः परलीने सर्वस्मिन सथावरे जङ्गमे तथा अकाष्ठा निस्तृणा भूमिर दृश्यते कूर्मपृष्ठवत ॥ 2 ॥
भूमेर अपि गुणं गन्धम आप आददते यदा आत्तगन्धा तदा भूमिः परलयत्वाय कल्पते ॥ 3 ॥
आपस ततः परतिष्ठन्ति ऊर्मिमत्यॊ महास्वनाः सर्वम एवेदम आपूर्य तिष्ठन्ति च चरन्ति च ॥ 4 ॥
अपाम अपि गुणांस तात जयॊतिर आददते यदा आपस तदा आत्तगुणा जयॊतिष्य उपरमन्ति च ॥ 5 ॥
यदादित्यं सथितं मध्ये गूहन्ति शिखिनॊ ऽरचिषः सर्वम एवेदम अर्चिर्भिः पूर्णं जाज्वल्यते नभः ॥ 6 ॥
जयॊतिषॊ ऽपि गुणं रूपं वायुर आददते यदा परशाम्यति तदा जयॊतिर वायुर दॊधूयते महान ॥ 7 ॥
ततस तु मूलम आसाद्य वायुः संभवम आत्मनः अधश चॊर्ध्वं च तिर्यक च दॊधवीति दिशॊ दश ॥ 8 ॥
वाय्यॊर अपि गुणं सपर्शम आकाशं गरसते यदा परशाम्यति तदा वायुः खं तु तिष्ठति नानदत ॥ 9 ॥
आकाशस्य गुणं शब्दम अभिव्यक्तात्मकं मनः मनसॊ वयक्तम अव्यक्तं बराह्मः स परतिसंचरः ॥ 10 ॥
तद आत्मगुणम आविश्य मनॊ गरसति चन्द्रमः मनस्य उपरते ऽधयात्मा चन्द्रमस्य अवतिष्ठते ॥ 11 ॥
तं तु कालेन महता संकल्पः कुरुते वशे चित्तं गरसति संकल्पस तच च जञानम अनुत्तमम ॥ 12 ॥
कालॊ गिरति विज्ञानं कालॊ बलम इति शरुतिः बलं कालॊ गरसति तु तं विद्वान कुरुते वशे ॥ 13 ॥
आकाशस्य तदा घॊषं तं विद्वान कुरुत आत्मनि तद अव्यक्तं परं बरह्म तच छाश्वतम अनुत्तमम एवं सर्वाणि भूतानि बरह्मैव परतिसंचरः ॥ 14 ॥
यथावत कीर्तितं सम्यग एवम एतद असंशयम बॊध्यं विद्यामयं दृष्ट्वा यॊगिभिः परमात्मभिः ॥ 15 ॥
एवं विस्तार संक्षेपौ बरह्माव्यक्ते पुनः पुनः युगसाहस्रयॊर आदाव अह्नॊ रात्र्यास तथैव च ॥ 16 ॥
शान्तिपर्व · Shanti Parva
अध्याय 225
Reach this point to mark the section finished.
Continue to अध्याय 226