धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 223

  1. [य] परियः सर्वस्य लॊकस्य सर्वसत्त्वाभिनन्दिता गुणैः सर्वैर उपेतश च कॊ नव अस्ति भुवि मानवः ॥ 1 ॥

  2. [भी] अत्र ते वर्तयिष्यामि पृच्छतॊ भरतर्षभ उग्रसेनस्य संवादं नारदे केशवस्य च ॥ 2 ॥

  3. [उग्रसेन] पश्य संकल्पते लॊकॊ नारदस्य परकीर्तने मन्ये स गुणसंपन्नॊ बरूहि तन मम पृच्छतः ॥ 3 ॥

  4. [वासुदेव] कुकुराधिप यान मन्ये शृणु तान मे विवक्षतः नारदस्य गुणान साधून संक्षेपेण नराधिप ॥ 4 ॥

  5. न चारित्रनिमित्तॊ ऽसयाहंकारॊ देहपातनः अभिन्न शरुतचारित्रस तस्मात सर्वत्र पूजितः ॥ 5 ॥

  6. तपस्वी नारदॊ बाधं वाचि नास्य वयतिक्रमः कामद वा यदि वा लॊभात तस्मात सर्वत्र पूजितः ॥ 6 ॥

  7. अध्यात्मविधितत्त्वज्ञः कषान्तः शक्तॊ जितेन्द्रियः ऋजुश च सत्यवादी च तस्मात सर्वत्र पूजितः ॥ 7 ॥

  8. तेजसा यशसा बुद्ध्या नयेन विनयेन च जन्मना तपसा वृद्धस तस्मात सर्वत्र पूजितः ॥ 8 ॥

  9. सुखशीलः सुसंभॊगः सुभॊज्यः सवादरः शुचिः सुवाक्यश चाप्य अनीर्ष्यश च तस्मात सर्वत्र पूजितः ॥ 9 ॥

  10. कल्यानं कुरुते बाधं पापम अस्मिन न विद्यते न परीयते परान अर्थैस तस्मात सर्वत्र पूजितः ॥ 10 ॥

  11. वेदश्रुतिभिर आख्यानैर अर्थान अभिजिगीसते तितिक्षुर अनवज्ञश च तस्मात सर्वत्र पूजितः ॥ 11 ॥

  12. समत्वाद धि परियॊ नास्ति नाप्रियश च कथं चन मनॊ ऽनुकूल वादी च तस्मात सर्वत्र पूजितः ॥ 12 ॥

  13. बहुश्रुतश चैत्रकथः पण्डितॊ ऽनलसॊ ऽशथः अदीनॊ ऽकरॊधनॊ ऽलुब्धस तस्मात सर्वत्र पूजितः ॥ 13 ॥

  14. नार्थे न धर्मे कामे वा भूतपूर्वॊ ऽसय विग्रहः दॊषाश चास्य समुच्छिन्नास तस्मात सर्वत्र पूजितः ॥ 14 ॥

  15. दृध भक्तिर अनिन्द्यात्मा शरुतवान अनृशंसवान वीतसंमॊह दॊषश च तस्मात सर्वत्र पूजितः ॥ 15 ॥

  16. असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते अदीर्घसंशयॊ वाग्मी तस्मात सर्वत्र पूजितः ॥ 16 ॥

  17. समाधिर नास्य मानार्थे नात्मानं सतौति कर्हि चित अनीर्ष्युर दृध संभासस तस्मात सर्वत्र पूजितः ॥ 17 ॥

  18. लॊकस्य विविधं वृत्तं परकृतेश चाप्य अकुत्सयन संसर्गविद्या कुशलस तस्मात सर्वत्र पूजितः ॥ 18 ॥

  19. नासूयत्य आगमं कं चित सवं तपॊ नॊपजीवति अवन्ध्य कालॊ वश्यात्मा तस्मात सर्वत्र पूजितः ॥ 19 ॥

  20. कृतश्रमः कृतप्रज्ञॊ न च तृप्तः समाधितः नियमस्थॊ ऽपरमत्तश च तस्मात सर्वत्र पूजितः ॥ 20 ॥

  21. सापत्रपश च युक्तश च सुनेयः शरेयसे परैः अभेत्ता परगुह्यानां तस्मात सर्वत्र पूजितः ॥ 21 ॥

  22. न हृष्यत्य अर्थलाभेषु नालाभेषु वयथत्य अपि सथिरबुद्धिर असक्तात्मा तस्मात सर्वत्र पूजितः ॥ 22 ॥

  23. तं सर्वगुण संपन्नं दक्षं शुचिम अकातरम कालज्ञं च नयज्ञं च कः परियं न करिष्यति ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 224

Previous: अध्याय 222