धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 222

  1. [य] किं शीलः किं समाचारः किं विद्यः किं परायनः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम ॥ 1 ॥

  2. [भी] मॊक्षधर्मेषु नियतॊ लघ्व आहारॊ जितेन्द्रियः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम ॥ 2 ॥

  3. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम जैगीसव्यस्य संवादम असितस्य च भारत ॥ 3 ॥

  4. जैगीसव्यं महाप्राज्ञं धर्माणाम आगतागमम अक्रुध्यन्तम अहृष्यन्तम असितॊ देवलॊ ऽबरवीत ॥ 4 ॥

  5. न परीयसे वन्द्यमानॊ निन्द्यमानॊ न कुप्यसि का ते परज्ञा कुतश चैषा किं चैतस्याः परायनम ॥ 5 ॥

  6. इति तेनानुयुक्तः स तम उवाच महातपाः महद वाक्यम असंदिग्धं पुष्करार्थ पदं शुचि ॥ 6 ॥

  7. या गतिर या परा निष्ठा या शान्तिः पुण्यकर्मणाम तां ते ऽहं संप्रवक्ष्यामि यन मां पृच्छसि वै दविज ॥ 7 ॥

  8. निन्दत्सु च समॊ नित्यं परशंसत्सु च देवल निह्नुवन्ति च ये तेषां समयं सुकृतं च ये ॥ 8 ॥

  9. उक्ताश च न विवक्षन्ति वक्तारम अहिते रतम परतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥ 9 ॥

  10. नाप्राप्तम अनुशॊचन्ति पराप्तकालानि कुर्वते न चातीतानि शॊचन्ति न चैनान परतिजानते ॥ 10 ॥

  11. संप्राप्तानां च पूज्यानां कामाद अर्थेषु देवल यथॊपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः ॥ 11 ॥

  12. पक्वविद्या महाप्राज्ञा जितक्रॊधा जितेन्द्रियाः मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित ॥ 12 ॥

  13. अनीर्षवॊ न चान्यॊन्यं विहिंसन्ति कदा चन न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ 13 ॥

  14. निन्दा परशंसे चार्त्यर्थं न वदन्ति परस्य ये न च निन्दा परशंसाभ्यां विक्रियन्ते कदा चन ॥ 14 ॥

  15. सर्वतश च परशान्ता ये सर्वभूतहिते रताः न करुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित विमुच्य हृदयग्रन्थींश चङ्कम्यन्ते यथासुखम ॥ 15 ॥

  16. न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः अमित्राश च न सन्त्य एषां ये चामित्रा न कस्य चित ॥ 16 ॥

  17. य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा धर्मम एवानुवर्तन्ते धर्मज्ञा दविजसत्तम ये हय अतॊ विच्युता मार्गात ते हृष्यन्त्य उद्विजन्ति च ॥ 17 ॥

  18. आस्थितस तम अहं मार्गम असूयिष्यामि कं कथम निन्द्यमानः परशन्स्तॊ वा हृष्येयं केन हेतुना ॥ 18 ॥

  19. यद यद इच्छन्ति तन मार्गम अभिगच्छन्ति मानवाः न मे निन्दा परशंसाभ्यां हरास वृद्धी भविष्यतः ॥ 19 ॥

  20. अमृतस्येव संतृप्येद अवमानस्य तत्त्ववित विषस्येवॊद्विजेन नित्यं संमानस्य विचक्षणः ॥ 20 ॥

  21. अवज्ञातः सुखं शेते इह चामुत्र चॊभयॊः विमुक्तः सर्वपापेभ्यॊ यॊ ऽवमन्ता स बध्यते ॥ 21 ॥

  22. परां गतिं च ये के चित परार्थयन्ति मनीषिणः एतद वरतं समाश्रित्य सुखम एधन्ति ते जनाः ॥ 22 ॥

  23. सर्वतश च समाहृत्य करतून सर्वाञ जितेन्द्रियः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम ॥ 23 ॥

  24. नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः पदम अन्ववरॊहन्ति पराप्तस्य परमां गतिम ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 223

Previous: अध्याय 221