धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 221

  1. [य] पूर्वरूपाणि मे राजन पुरुषस्य भविष्यतः पराभविष्यतश चैव तवं मे बरूहि पितामह ॥ 1 ॥

  2. [भी] मन एव मनुष्यस्य पूर्वरूपाणि शंसति भविष्यतश च भद्रं ते तथैव न भविष्यतः ॥ 2 ॥

  3. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शरिया शक्रस्य संवादं तन निबॊध युधिष्ठिर ॥ 3 ॥

  4. महतस तपसॊ वयुष्ट्या पश्यँल लॊकौ परावरौ सामान्यम ऋषिभिर गत्वा बरह्मलॊकनिवासिभिः ॥ 4 ॥

  5. बरह्मैवामित दीप्तौजाः शान्तपाप्मा महातपाः विचचार यथाकामं तरिषु लॊकेषु नारदः ॥ 5 ॥

  6. कदा चित परातर उत्थाय पिस्पृक्षुः सलिलं शुचि धरुवद्वार भवां गङ्गां जगामावततार च ॥ 6 ॥

  7. सहस्रनयनश चापि वज्री शम्बर पाकहा तस्या देवर्षिजुष्टायास तीरम अभ्याजगाम ह ॥ 7 ॥

  8. ताव आप्लुत्य यतात्मानौ कृतजप्यौ समासतुः नद्याः पुलिनम आसाद्य सूक्ष्मकाञ्चनवालिकम ॥ 8 ॥

  9. पुण्यकर्मभिर आख्याता देवर्षिकथिताः कथाः चक्रतुस तौ कथाशीलौ शुचि संहृष्टमानसौ पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ ॥ 9 ॥

  10. अथ भास्करम उद्यन्तं रश्मिजालपुरस्कृतम पूर्णमन्दलम आलॊक्य ताव उत्थायॊपतस्थतुः ॥ 10 ॥

  11. अभितस तूदयन्तं तम अर्कम अर्कम इवापरम आकाशे ददृशे जयॊतिर उद्यतार्चिः समप्रभम ॥ 11 ॥

  12. तयॊः समीपं संप्राप्तं परत्यदृश्यत भारत तत सुपर्णार्क चरितम आस्थितं वैष्नवं पदम भाभिर अप्रतिमं भाति तरैलॊक्यम अवभासयत ॥ 12 ॥

  13. दिव्याभिरूप शॊभाभिर अप्सरॊभिः पुरस्कृताम बृहतीम अंशुमत परख्यां बृहद भानॊर इवार्चिषम ॥ 13 ॥

  14. नक्षत्रकल्पाभरणां तारा भक्तिसमस्रजम शरियं ददृशतुः पद्मां साक्षात पद्मतलस्थिताम ॥ 14 ॥

  15. सावरुह्य विमानाग्राद अङ्गनानाम अनुत्तमा अभ्यगच्छत तरिलॊकेशं शक्रं चर्षिं च नारदम ॥ 15 ॥

  16. नारदानुगतः साक्षान मघवांस ताम उपागमत कृताञ्जलिपुतॊ देवीं निवेद्यात्मानम आत्मना ॥ 16 ॥

  17. चक्रे चानुपमां पूजां तस्याश चापि स सर्ववित देवराजः शरियं राजन वाक्यं चेदम उवाच ह ॥ 17 ॥

  18. का तवं केन च कार्येण संप्राप्ता चारुहासिनि कुतश चागम्यते सुभ्रु गन्तव्यं कव च ते शुभे ॥ 18 ॥

  19. [षरी] पुण्येषु तरिषु लॊकेषु सर्वे सथावरजङ्गमः ममात्मभावम इच्छन्तॊ यतन्ते परमात्मना ॥ 19 ॥

  20. साहं वै पङ्कजे जाता सूर्यरश्मि विबॊधिते भूत्यर्थं सर्वभूतानां पद्मा शरीः पद्ममालिनी ॥ 20 ॥

  21. अहं लक्ष्मीर अहं भूतिः शरीश चाहं बलसूदन अहं शरद्धा च मेधा च सन्नतिर विजितिः सथितिः ॥ 21 ॥

  22. अहं धृतिर अहं सिद्धिर अहं तविड भूतिर एव च अहं सवाहा सवधा चैव संस्तुतिर नियतिः कृतिः ॥ 22 ॥

  23. राज्ञां विजयमानानां सेनाग्रेषु धवजेषु च निवासे धर्मशीलानां विषयेषु पुरेषु च ॥ 23 ॥

  24. जितकाशिनि शूरे च संग्रामेष्व अनिवर्तिनि निवसामि मनुष्येन्द्रे सदैव बलसूदलन ॥ 24 ॥

  25. धर्मनित्ये महाबुद्धौ बरह्मण्ये सत्यवादिनि परश्रिते दानशीले च सदैव निवसाम्य अहम ॥ 25 ॥

  26. असुरेष्व अवसंस पूर्वं सत्यधर्मनिबन्धना विपारीतांस तु तान बुद्ध्वा तवयि वासम अरॊचयम ॥ 26 ॥

  27. [षक्र] कथं वृत्तेषु दैत्येषु तवम अवात्सीर वरानने दृष्ट्वा च किम इहागास तवं हित्वा दैतेय दानवान ॥ 27 ॥

  28. [षरी] सवधर्मम अनुतिष्ठत्सु धैर्याद अचलितेषु च सवर्गमार्गाभिरामेषु सत्त्वेषु निरता हय अहम ॥ 28 ॥

  29. दानाध्ययनयज्ञेज्या गुरु दैवतपूजनम विप्राणाम अतिथीनां च तेषां नित्यम अवर्तत ॥ 29 ॥

  30. सुसंमृष्ट गृहाश चासञ जितस्त्रीका हुताग्नयः गुरु शुश्रूसवॊ दान्ता बरह्मण्याः सत्यवादिनः ॥ 30 ॥

  31. शरद्दधाना जितक्रॊधा दानशीलानसूयकाः भृतपुत्रा भृतामात्या भृतदारा हय अनीर्षवः ॥ 31 ॥

  32. अमर्षणा न चान्यॊन्यं सपृहयन्ति कदा चन न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ 32 ॥

  33. दातारः संगृहीतार आर्याः करुणवेदिनः महाप्रसादा ऋजवॊ दृध भक्ता जितेन्द्रियाः ॥ 33 ॥

  34. संतुष्टभृत्यसचिवाः कृतज्ञाः परियवादिनः यथार्थमानार्थ करा हरीनिषेधा यतव्रताः ॥ 34 ॥

  35. नित्यं पर्वसु सुस्नाताः सवनुलिप्ताः सवलंकृताः उपवासतपः शीलाः परतीता बरह्मवादिनः ॥ 35 ॥

  36. नैनान अभ्युदियात सूर्यॊ न चाप्य आसन परगेनिशाः रात्रौ दधि च सक्तूंश च नित्यम एव वयवर्जयन ॥ 36 ॥

  37. काल्यं घृतं चान्ववेक्षन परयता बरह्मचारिणः मङ्गलान अपि चापश्यन बराह्मणांश चाप्य अपूजयन ॥ 37 ॥

  38. सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम अर्धं च रात्र्याः सवपतां दिवा चास्वपतां तथा ॥ 38 ॥

  39. कृपणानाथ वृद्धानां दुर्बलातुर यॊषिताम दायं च संविभागं च नित्यम एवानुमॊदताम ॥ 39 ॥

  40. विषण्णं तरस्तम उद्विग्नं भयार्तं वयाधिपीडितम हृतस्वं वयसनार्तं च नित्यम आश्वासयन्ति ते ॥ 40 ॥

  41. धर्मम एवान्ववर्तन्त न हिंसन्ति परस्परम अनुकूलांश च कार्येषु गुरु वृद्धॊपसेविनः ॥ 41 ॥

  42. पितृदेवातिथींश चैव यथावत ते ऽभयपूजयन अवशेषाणि चाश्नन्ति नित्यं सत्यतपॊ रताः ॥ 42 ॥

  43. नैके ऽशनन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम सर्वभूतेष्व अवर्तन्त यथात्मनि दयां परति ॥ 43 ॥

  44. नैवाकाशे न पशुषु नायॊनौ न च पर्वसु इन्द्रियस्य विसर्गं ते ऽरॊचयन्त कदा चन ॥ 44 ॥

  45. नित्यं दानं तथा दाक्ष्यम आर्जवं चैव नित्यदा उत्साहश चानहंकारः परमं सौहृदं कषमा ॥ 45 ॥

  46. सत्यं दानं तपः शौचं कारुण्यं वाग अनिष्ठुरा मित्रेषु चानभिद्रॊहः सर्वं तेष्व अभवत परभॊ ॥ 46 ॥

  47. निद्रा तन्द्री रसं परीतिर असूया चानवेक्षिता अरतिश च विषादश च न सपृहा चाविशन्त ता ॥ 47 ॥

  48. साहम एवंगुणेष्व एव दानवेष्व अवसं पुरा परजा सर्गम उपादाय नैकं युगविपर्यमम ॥ 48 ॥

  49. ततः कालविपर्यासे तेषां गुणविपर्ययात अपश्यं विगतं धर्मं कामक्रॊधवशात्मनाम ॥ 49 ॥

  50. सभा सदां ते वृद्धानां सत्याः कथयतां कथाः पराहसन्न अभ्यसूयंश च सर्ववृद्धान गुणावराः ॥ 50 ॥

  51. यूनः सह समासीनान वृद्धान अभिगतान सतः नाभ्युत्थानाभिवादाभ्यां यथापूर्वम अपूजयन ॥ 51 ॥

  52. वर्तयन्त्य एव पितरि पुत्राः परभवतात्मनः अमित्रभृत्यतां पराप्य खयापयन्तॊ ऽनपत्रपाः ॥ 52 ॥

  53. तथा धर्माद अपेतेन कर्मणा गर्हितेन ये महतः पराप्नुवन्त्य अर्थांस तेष्व एषाम अभवत सपृहा ॥ 53 ॥

  54. उच्छैश चाप्य अवदन रात्रौ नीचैस तत्राग्निर अज्वलत पुत्राः पितॄन अभ्यवदन भार्याश चाभ्यवदन पतीन ॥ 54 ॥

  55. मातरं पितरं वृद्धम आचार्यम अतिथिं गुरुम गुरुवन नाभ्यनन्दन्त कुमारान नान्वपालयन ॥ 55 ॥

  56. भिक्षां बलिम अदत्त्वा च सवयम अन्नानि भुञ्जते अनिष्ट्वा संविभज्याथ पितृदेवातिथीन गुरून ॥ 56 ॥

  57. न शौचम अनुरुध्यन्त तेषां सूदजनास तथा मनसा कर्मणा वाचा भकम आसीद अनावृतम ॥ 57 ॥

  58. विप्रकीर्णानि धान्यानि काकमूषक भॊजनम अपावृतं पयॊ ऽतिष्ठद उच्छिष्टाश चास्पृशन घृतम ॥ 58 ॥

  59. कुद्दाल पाती पतकं परकीर्णं कांस्यभाजनम दरव्यॊपकरणं सर्वं नान्ववैक्षत कुतुम्बिनी ॥ 59 ॥

  60. पराकारागार विध्वंसान न सम ते परतिकुर्वते नाद्रियन्ते पशून बद्ध्वा यवसेनॊदकेन च ॥ 60 ॥

  61. बालानां परेक्षमाणानां सवयं भक्षान अभक्षयन तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः ॥ 61 ॥

  62. पायसं कृसरं मांसम अपूपान अथ शस्कुलीः अपाचयन्न आत्मनॊ ऽरथे वृथा मांसान्य अभक्षयन ॥ 62 ॥

  63. उत्सूर्य शायिनश चासन सर्वे चासन परगेनिशाः अवर्तन कलहाश चात्र दिवारात्रं गृहे गृहे ॥ 63 ॥

  64. अनार्याश चार्यम आसीनं पर्युपासन न तत्र ह आश्रमस्थान विकर्मस्थाः परद्विषन्ति परस्परम संकराश चाप्य अवर्तन्त न च शौचम अवर्तत ॥ 64 ॥

  65. ये च वेद विदॊ विप्रा विस्पष्टम अनृचश च ये निरन्तरविशेषास ते बहुमानावमानयॊः ॥ 65 ॥

  66. हावम आभरणं वेषं गतिं सथितिम अवेक्षितुम असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम ॥ 66 ॥

  67. सत्रियः पुरुषवेषेण पुंसः सत्री वेषधारिणः करीदा रतिविहारेषु परां मुदम अवाप्नुवन ॥ 67 ॥

  68. परभवद्भिः पुरा दायान अर्हेभ्यः परतिपादितान नाभ्यवर्तन्त नास्तिक्याद वर्तन्तः संभवेष्व अपि ॥ 68 ॥

  69. मित्रेणाभ्यर्थितं मित्रम अर्थे संशयिते कव चित बाल कॊत्य अग्रमात्रेण सवार्थेनाघ्नत तद वसु ॥ 69 ॥

  70. परस्वादान रुचयॊ विपन्य वयवहारिणः अदृश्यन्तार्य वर्णेषु शूद्राश चापि तपॊधनाः ॥ 70 ॥

  71. अधीयन्ते ऽवरताः के चिद वृथा वरतम अथापरे अशुश्रूसुर गुरॊः शिष्यः कश चिच छिष्य सखॊ गुरुः ॥ 71 ॥

  72. पिता चैव जनित्री च शरान्तौ वृत्तॊत्सवाव इव अप्रभुत्वे सथितौ वृत्थाव अन्नं परार्थयतः सुतान ॥ 72 ॥

  73. तत्र वेद विदः पराज्ञा गाम्भीर्ये सगरॊपमाः कृष्यादिष्व अभवन सक्ता मूर्खाः शराद्धान्य अभुञ्जत ॥ 73 ॥

  74. परातः परातर च सुप्रश्नं कल्पनं परेषण करियाः शिष्यानुप्रहितास तस्मिन्न अकुर्वन गुरवश च ह ॥ 74 ॥

  75. शवश्रू शवशुरयॊर अग्रे वधूः परेष्यान अशासत अन्वशासच च भर्तारं समाहूयाभिजल्पती ॥ 75 ॥

  76. परयत्नेनापि चारक्षच चित्तं पुत्रस्य वै पिता वयभजंश चापि संरम्भाद दुःखवासं तथावसन ॥ 76 ॥

  77. अग्निदाहेन चॊरैर वा राजभिर वा हृतं धनम दृष्ट्वा दवेषात पराहसन्त सुहृत संभाविता हय अपि ॥ 77 ॥

  78. कृतघ्ना नास्तिकाः पापा गुरु दाराभिमर्शिनः अभक्ष्य भक्षण रता निर्मर्यादा हतत्विषः ॥ 78 ॥

  79. तेष्व एवमादीन आचारान आचरत्सु विपर्यये नाहं देवेन्द्र वत्स्यामि दानवेष्व इति मे मतिः ॥ 79 ॥

  80. तां मां सवयम अनुप्राप्ताम अभिनन्द शचीपते तवयार्चितां मां देवेश पुरॊधास्यन्ति देवताः ॥ 80 ॥

  81. यत्राहं तत्र मत कान्ता मद्विशिष्टा मदर्पणाः सप्त देव्यॊ मयास्तम्यॊ वसं चेष्यन्ति मे ऽसतधा ॥ 81 ॥

  82. आशा शरद्धा धृतिः कान्तिर विजितिः सन्नतिः कषमा अस्तमी वृत्तिर एतासां पुरॊगा पाकशासन ॥ 82 ॥

  83. ताश चाहं चासुरांस तयक्त्वा युष्मद विषयम आगता तरिदशेषु निवत्स्यामॊ धर्मनिष्ठान्तर आत्मसु ॥ 83 ॥

  84. [भी] इत्य उक्तवचनां देवीम अत्यर्थं तौ ननन्दतुः नारदश च तरिलॊकर्षिर वृत्र हन्ता च वासवः ॥ 84 ॥

  85. ततॊ ऽनल सखॊ वायुः परववौ देव वेश्मसु इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥ 85 ॥

  86. शुचौ चाभ्यर्चिते देशे तरिदशाः परायशः सथिताः लक्ष्म्या सहितम आसीनं मघवन्तं दिदृक्षवः ॥ 86 ॥

  87. ततॊ दिवं पराप्य सहस्रलॊचनः; शरियॊपपन्नः सुहृदा सुरर्षिणा रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणाम अभिसत्कृतॊ ययौ ॥ 87 ॥

  88. अथेङ्गितं वज्रधरस्य नारदः; शरियाश च देव्या मनसा विचारयन शरियै शशंसामर दृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत ॥ 88 ॥

  89. ततॊ ऽमृतं दयौः परववर्ष भास्वती; पितामहस्यायतने सवयम्भुवः अनाहत दुन्दुभयश च नेदिरे; तथा परसन्नाश च दिशश चकाशिरे ॥ 89 ॥

  90. यथर्तु सस्येषु ववर्ष वासवॊ; न धर्ममार्गाद विचचाल कश चन अनेकरत्राकर भूसना च भूः; सुघॊषघॊषा भुवनौकसां जये ॥ 90 ॥

  91. करियाभिरामा मनुजा यशस्विनॊ; बभुः शुभे पुण्यकृतां पथि सथिताः नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनॊ यशस्विनः ॥ 91 ॥

  92. न जात्व अकाले कुसुमं कुतः फलं; पपात वृक्षात पवनेरिताद अपि रसप्रदाः कामदुघाश च धेनवॊ; न दारुणा वाग विचचार कस्य चित ॥ 92 ॥

  93. इमां सपर्यां सह सर्वकामदैः; शरियां च शक्र परमुखैश च दैवतैः पथन्ति ये विप्रसदः समागमे; समृद्धकामाः शरियम आप्नुवन्ति ते ॥ 93 ॥

  94. तवया कुरूणां वरयत परचॊदितं; भवाभवस्येह परं निदर्शनम तद अद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुम अर्हसि ॥ 94 ॥

Reach this point to mark the section finished.

Continue to अध्याय 222

Previous: अध्याय 220