[य] मग्नस्य वयसने कृच्छ्रे किं शरेयः पुरुषस्य हि बन्धुनाशे महीपाल राज्यनाने ऽपि वा पुनः ॥ 1 ॥
तवं हि नः परमॊ वक्ता लॊके ऽसमिन भरतर्षभ एतद भवन्तं पृच्छामि तन मे वक्तुम इहार्हसि ॥ 2 ॥
[भी] पुत्रदारैः सुखैश चैव वियुक्तस्य धनेन च मग्नस्य वयसने कृच्छ्रे धृतिः शरेयः करी नृप ॥ 3 ॥
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते आरॊग्याच च शरीरस्य स पुनर विन्दते शरियम ॥ 4 ॥
यस्य राज्ञॊ नरास तात सात्त्विकीं वृत्तिम आस्थिताः तस्य सथैर्यं च धर्यं च वयवसायश च कर्मसु ॥ 5 ॥
अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम बलिवासव संवादं पुनर एव युधिष्ठिर ॥ 6 ॥
वृत्ते देवासुरे युद्धे दैत्यदानव संक्षये विष्णुक्रान्तेषु लॊकेषु देवराजे शतक्रतौ ॥ 7 ॥
इज्यमानेषु देवेषु चातुर्वर्ण्ये वयवस्थिते समृध्यमाने तरैलॊक्ये परीतियुक्ते सवयम्भुवि ॥ 8 ॥
रुद्रैर वसुभिर आदित्यैर अश्विभ्याम अपि चर्षिभिः गन्धर्वैर भुजगेन्द्रैश च सिद्धैर्श चान्यैर वृतः परभुः ॥ 9 ॥
चतुर्दन्तं सुदान्तं च वारणेन्द्रं शरिया वृतम आरुह्यैरावतं शक्रस तरैलॊक्यम अनुसंययौ ॥ 10 ॥
स कदा चित समुद्रान्ते कस्मिंश चिद गिरिगह्वरे बलिं वैरॊचनिं वज्ञी ददर्शॊपससर्प च ॥ 11 ॥
तम ऐरावत मूर्धस्थं परेक्ष्य देवगणैर वृतम सुरेन्द्रम इन्द्रं दैत्येन्द्रॊ न शुशॊच न विव्यथे ॥ 12 ॥
दृष्ट्वा तम अविकारस्थं तिष्ठन्तं निर्भयं बलिम अधिरूढॊ दविपश्रेष्ठम इत्य उवाच शतक्रतुः ॥ 13 ॥
दैत्य न वयथसे शैर्याद अथ वा वृद्धसेवया तपसा भावितत्वाद वा सर्वथैतत सुदुष्करम ॥ 14 ॥
शत्रुभिर वशम आनीतॊ हीनः सथानाद अनुत्तमात वैरॊचने किम आश्रित्य शॊचितव्ये न शॊचसि ॥ 15 ॥
शरैष्ठ्यं पराप्य सवजातीनां भुक्त्वा भॊगान अनुत्तमान हृतस्वबलराज्यस तवं बरूहि तस्मान न शॊचसि ॥ 16 ॥
ईश्वरॊ हि पुरा भूत्वा पितृपैतमहे पदे तत्त्वम अद्य हृतं दृष्ट्वा सपत्नैः किं न शॊचसि ॥ 17 ॥
बद्धश च वारुणैः पाशैर वज्रेण च समाहतः हृतदारॊ हृतधनॊ बरूहि कस्मान न शॊचसि ॥ 18 ॥
भरष्ट शरीर विभव भरष्टॊ यन न शॊचसि दुष्करम तरैलॊक्यराज्यनाशे हि कॊ ऽनयॊ जीवितुम उत्सहेत ॥ 19 ॥
एतच चान्यच च परुषं बरुवन्तं परिभूय तम शरुत्वा सुखम असंभ्रान्तॊ बलिर वैरॊचनॊ ऽबरवीत ॥ 20 ॥
निगृहीते मयि भृशं शक्र किं कत्थितेन ते वज्रम उद्यम्य तिष्ठन्तं पश्यामि तवां पुरंदर ॥ 21 ॥
अशक्तः पूर्वम आसीस तवं कथं चिच छक्ततां गतः कस तवदन्य इमा वाचः सुक्रूरा वक्तुम अर्हति ॥ 22 ॥
यस तु शत्रॊर वशस्थस्य शक्तॊ ऽपि कुरुते दयाम हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥ 23 ॥
अनिश्चयॊ हि युद्धेषु दवयॊर विवदमानयॊः एकः पराप्नॊति विजयम एकश चैव पराभवम ॥ 24 ॥
मा च ते भूत सवभावॊ ऽयं मया दैवतपुंगव ईश्वरः सर्वभूतानां विक्रमेण जितॊ बलात ॥ 25 ॥
नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम ॥ 26 ॥
अहम आसं यथाद्य तवं भविता तवं यथा वयम मावमन्स्था मया कर्म दुष्कृतं कृतम इत्य उत ॥ 27 ॥
सुखदुःखे हि पुरुषः पर्यायेनाधिगच्छति पर्यायेनासि शक्रत्वं पराप्तः शक्र न कर्मणा ॥ 28 ॥
कालः काले नयति मां तवां च कालॊ नयत्य अयम तेनाहं तवं यथा नाद्य तवं चापि न यथा वयम ॥ 29 ॥
न मातृपितृशुश्रूसा न च दैवतपूजनम नान्यॊ गुणसमाचारः पुरुषस्य सुखावहः ॥ 30 ॥
न विद्या न तपॊ दानं न मित्राणि न बन्धवाः शक्नुवन्ति परित्रातुं नरं कालेन पीडितम ॥ 31 ॥
नागामिनम अनर्थं हि परतिघात शतैर अपि शक्नुवन्ति परतिव्यॊधुम ऋते बुद्धिबलान नरः ॥ 32 ॥
पर्यायैर हन्यमानानां परित्राता न विद्यते इदं तु दुःखं यच्च छक्र कर्ताहम इति मन्यते ॥ 33 ॥
यदि कर्ता भवेत कर्ता न करियेत कदा चन यस्मात तु करियते कर्ता तस्मात कर्ताप्य अनीश्वरः ॥ 34 ॥
कालेन तवाहम अजयं कालेनाहं जितस तवया गन्ता गतिमतां कालः कालः कलयति परजाः ॥ 35 ॥
इन्द्र पराकृतया बुद्ध्या परलपन नावबुध्यसे के चित तवां बहु मन्यन्ते शरैष्ठ्यं पराप्तं सवकर्मणा ॥ 36 ॥
कथम अस्मद्विधॊ नाम जानँल लॊकप्रवृत्तयः कालेनाभ्याहतः शॊचेन मुह्येद वाप्य अर्थसंभ्रमे ॥ 37 ॥
नित्यं कालपरीतस्य मम वा मद्विधस्य वा बुद्धिर वयसनम आसाद्य भिन्ना नौर इव सीदति ॥ 38 ॥
अहं च तवं च ये चान्ये भविष्यन्ति सुराधिपाः ते सर्वे शक्र यास्यन्ति मार्गम इन्द्र शतैर गतम ॥ 39 ॥
तवाम अप्य एवं सुदुर्धर्षं जवलन्तं परया शरिया काले परिनते कालः कालयिष्यति माम इव ॥ 40 ॥
बहूनीन्द्र सहस्राणि दैतेयानां युगे युगे अभ्यतीतानि कालेन कालॊ हि दुरतिक्रमः ॥ 41 ॥
इदं तु लब्ध्वा तवं सथानम आत्मानं बहु मन्यसे सर्वभूतभवं देवं बरह्माणम इव शाश्वतम ॥ 42 ॥
न चेदम अचलं सथानम अनन्तं वापि कस्य चित तवं तु बालिशया बुद्ध्या ममेदम इति मन्यसे ॥ 43 ॥
अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं धरुवम ममेयम इति मॊहात तवं राजश्रियम अभीप्ससि ॥ 44 ॥
नेयं तव न चास्माकं न चान्येषां सथिरा मता अतिक्रम्य बहून अन्यांस तवयि तावद इयं सथिता ॥ 45 ॥
कं चित कालम इयं सथित्वा तवयि वासव चञ्चला गौर निपानम इवॊत्सृज्य पुनर अन्यं गमिष्यति ॥ 46 ॥
राजलॊका हय अतिक्रान्ता यान न संख्यातुम उत्सहे तवत्तॊ बहुतराश चान्ये भविष्यन्ति पुरंदर ॥ 47 ॥
सवृक्षौषधि रत्रेयं ससरित पर्वताकरा तान इदानीं न पश्यामि यैर भुक्तेयं पुरा मही ॥ 48 ॥
पृथुर ऐलॊ मयॊ भौमॊ नरकः शम्बरस तथा अश्वग्रीवः पुलॊमा च सवर्भानुर अमितध्वजः ॥ 49 ॥
परह्रादॊ नमुचिर दक्षॊ विप्रचित्तिर विरॊचनः हरीनिषेधः सुहॊत्रश च भूरिहा पुष्पवान वृषः ॥ 50 ॥
सत्येषुर ऋषभॊ राहुः कपिलाश्वॊ विरूपकः बानः कार्तस्वरॊ वह्निर विश्वदंस्त्रॊ ऽथ नैरृतः ॥ 51 ॥
रित्थाहुत्थौ वीर ताम्रौ वराहाश्वॊ रुचिः परभुः विश्वजित परतिशौरिश च वृषाण्डॊ विष्करॊ मधुः ॥ 52 ॥
हिरण्यकशिपुश चैव कैतभश चैव दानवः दैत्याश च कालखञ्जाश च सर्वे ते नैरृतैः सह ॥ 53 ॥
एते चान्ये च बहवः पूर्वे पूर्वतराश च ये दैत्येन्द्रा दानवेन्द्राश च यांश चान्यान अनुशुश्रुम ॥ 54 ॥
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः कालेनाभ्याहताः सर्वे कालॊ हि बलवत्तरः ॥ 55 ॥
सर्वैः करतुशतैर इष्टं न तवम एकः शतक्रतुः सर्वे धर्मपराश चासन सर्वे सततसत्त्रिणः ॥ 56 ॥
अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयॊधिनः सर्वे संहननॊपेताः सर्वे परिघबाहवः ॥ 57 ॥
सर्वे माया शतधराः सर्वे ते कामचारिणः सर्वे समरम आसाद्य न शरूयन्ते पराजिताः ॥ 58 ॥
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः सर्वे वेद वरतपराः सर्वे चासन बहुश्रुताः ॥ 59 ॥
सर्वे संहतम ऐश्वर्यम ईश्वराः परतिपेदिरे न चैश्वर्यं मदस तेषां भूतपूर्वॊ महात्मनाम ॥ 60 ॥
सर्वे यथार्थदातारः सर्वे विगतमत्सराः सर्वे सर्वेषु भूतेषु यथावत परतिपेदिरे ॥ 61 ॥
सर्वे दाक्षायणी पुत्राः पराजापत्या महाबलाः जवलन्तः परतपन्तश च कालेन परतिसंहृताः ॥ 62 ॥
तवं चैवेमा यदा भुक्त्वा पृथिवीं तयक्ष्यसे पुनः न शक्ष्यसि तदा शक्र नियन्तुं शॊकम आत्मनः ॥ 63 ॥
मुञ्चेच्छां कामभॊगेषु मुञ्चेमं शरीभवं मदम एवं सवराज्यनाशे तवं शॊकं संप्रसहिष्यसि ॥ 64 ॥
शॊककाले शुचॊ मा तवं हर्षकाले च मा हृषः अतीतानागते हित्वा परत्युत्पन्नेन वर्तय ॥ 65 ॥
मां चेद अभ्यागतः कालः सदा युक्तम अतन्द्रितम कषमस्व नचिराद इन्द्र तवाम अप्य उपगमिष्यति ॥ 66 ॥
तरासयन्न इव देवेन्द्र वाग्भिर तक्षसि माम इह संयते मयि नूनं तवम आत्मानं बहु मन्यसे ॥ 67 ॥
कालः परथमम आयान मां पश्चात तवम अनुधावति तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ॥ 68 ॥
कॊ हि सथातुम अलं लॊके करुद्धस्य मम संयुगे कालस तु बलवान पराप्तस तेन तिष्ठसि वासव ॥ 69 ॥
यत तद वर्षसहस्रान्तं पूर्णं भवितुम अर्हति यथा मे सर्वगात्राणि न सवस्थानि हतौजसः ॥ 70 ॥
अहम ऐन्द्रच चयुतः सथानात तवम इन्द्रः परकृतॊ दिवि सुचित्रे जीवलॊके ऽसमिन्न उपास्यः कालपर्ययात ॥ 71 ॥
किं हि कृत्वा तवम इन्द्राद्य किं हि कृत्वा चयुता वयम कालः कर्ता विकर्ता च सर्वम अन्यद अकारणम ॥ 72 ॥
नाशं विनाशम ऐश्वर्यं सुखदुःखे भवाभवौ विप्रान पराप्यैवम अत्यर्थं न परहृष्येन न च वयथेत ॥ 73 ॥
तवम एव हीन्द्र वेत्थास्मान वेदाहं तवां च वासव विकत्थसे मां किं बद्धं कालेन निरपत्रप ॥ 74 ॥
तवम एव हि पुरा वेत्थ यत तदा पौरुषं मम समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम ॥ 75 ॥
आदित्याश चैव रुद्राश च साध्याश च वसुभिः सह मया विनिर्जिताः सर्वे मरुतश च शचीपते ॥ 76 ॥
तवम एव शक्र जानासि देवासुरसमागमे समेता विबुधा भग्नास तरसा समरे मया ॥ 77 ॥
पर्वताश चासकृत कषिप्ताः सवनाः सवनौकसः सतङ्क शिखरा घॊराः समरे मूर्ध्नि ते मया ॥ 78 ॥
किं नु शक्यं मया कर्तुं यत कालॊ दुरतिक्रमः न हि तवां नॊत्सहे हन्तुं सवज्रम अपि मुष्टिना ॥ 79 ॥
न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः तेन तवा मर्षये शक्र दुर्मर्षणतरस तवया ॥ 80 ॥
तवं मा परिनते काले परीतं कालवह्निना नियतं कालपाशेन बद्धं शक्र विकत्थसे ॥ 81 ॥
अयं स पुरुषः शयामॊ लॊकस्य दुरतिक्रमः बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥ 82 ॥
लाभालाभौ सुखं दुःखं कामक्रॊधौ भवाभवौ वधॊ बन्धः परमॊक्षश च सर्वं कालेन लभ्यते ॥ 83 ॥
नाहं कर्ता न कर्ता तवं कर्ता यस तु सदा परभुः सॊ ऽयं पचति कालॊ मां वृक्षे फलम इवागतम ॥ 84 ॥
यान्य एव पुरुषः कुर्वन सुखैः कालेन युज्यते पुनस तान्य एव कुर्वाणॊ दुःखैः कालेन युज्यते ॥ 85 ॥
न च कालेन कालज्ञः सपृष्टः शॊचितुम अर्हति तेन शक्र न शॊचामि नास्ति शॊके सहायता ॥ 86 ॥
यदा हि शॊचतां शॊकॊ वयसनं नापकर्षति सामर्थ्यं शॊचतॊ नास्ति नाद्य शॊचाम्य अहं ततः ॥ 87 ॥
एवम उक्तः सहस्राक्षॊ भगवान पाकशासनः परतिसंहृत्य संरम्भम इत्य उवाच शतक्रतुः ॥ 88 ॥
सवज्रम उद्यतं बाहुं दृष्ट्वा पाशांश च वारुणान कस्येह न वयथेद बुद्धिर मृत्यॊर अपि जिघांसतः ॥ 89 ॥
सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी बरुवन न वयथसे स तवं वाक्यं सत्यपराक्रम ॥ 90 ॥
हॊ हि विश्वासम अर्थेषु शरीरे वा शरीरभृत कर्तुम उत्सहते लॊके दृष्ट्वा संप्रस्थितं जगत ॥ 91 ॥
अहम अप्य एवम एवैनं लॊकं जानामि शाश्वतम कालाग्नाव आहितं घॊरे गुह्ये सततगे ऽकषरे ॥ 92 ॥
न चात्र परिहारॊ ऽसति कालस्पृष्टस्य कस्य चित सूक्ष्माणां महतां चैव भूतानां परिपच्यताम ॥ 93 ॥
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा अनिवृत्तस्य कालस्य कषयं पराप्तॊ न मुच्यते ॥ 94 ॥
अप्रमत्तः परमत्तेषु कालॊ जागर्ति देहिषु परयत्नेनाप्य अतिक्रान्तॊ दृष्टपूर्वॊ न केन चित ॥ 95 ॥
पुराणः शाश्वतॊ धर्मः सर्वप्राणभृतां समः कालॊ न परिहार्यश च न चास्यास्ति वयतिक्रमः ॥ 96 ॥
अहॊरात्रांश च मासांश च कषणान काष्ठाः कला लवान संपिन्दयति नः कालॊ बुद्धिं वार्धुषिकॊ यथा ॥ 97 ॥
इदम अद्य करिष्यामि शवः कर्तास्मीति वादिनम कालॊ हरति संप्राप्तॊ नदीवेग इवॊदुपम ॥ 98 ॥
इदानीं तावद एवासौ मया दृष्टः कथं मृतः इति कालेन हरियतां परलापः शरूयते नृणाम ॥ 99 ॥
नश्यन्त्य अर्थास तथा भॊगाः सथानम ऐश्वर्यम एव च अनित्यम अध्रुवं सर्वं वयवसायॊ हि दुष्करः उच्छ्राया विनिपातान्ता भावाभावस्थ एव च ॥ 100 ॥
सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी अहम आसं पुरा चेति मनसापि न बुध्यसे ॥ 101 ॥
कालेनाक्रम्य लॊके ऽसमिन पच्यमाने बलीयसा अज्येष्ठम अकनिष्ठं च कषिप्यमाणॊ न बुध्यसे ॥ 102 ॥
ईर्ष्याभिमान लॊभेषु कामक्रॊधभयेषु च सपृहा मॊहाभिमानेषु लॊकः सक्तॊ विमुह्यति ॥ 103 ॥
भवांस तु भावतत्त्वज्ञॊ विद्वाञ जञानतपॊ ऽनवितः कालं पश्यति सुव्यक्तं पानाव आमलकं यथा ॥ 104 ॥
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः वैरॊचने कृतात्मासि सपृहणीयॊ विजानताम ॥ 105 ॥
सर्वलॊकॊ हय अयं मन्ये बुद्ध्या परिगतस तवया विहरन सर्वतॊ मुक्तॊ न कव चित परिषज्जसे ॥ 106 ॥
रजश च हि तमश च तवा सपृशतॊ न जितेन्द्रियम निष्प्रीतिं नष्ट संतापं तवम आत्मानम उपाससे ॥ 107 ॥
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम दृष्ट्वा तवां मम संजाता तवय्य अनुक्रॊशनी मतिः ॥ 108 ॥
नाहम एतादृशं बुद्धिं हन्तुम इच्छामि बन्धने आनृशंस्यं परॊ धर्मॊ अनुक्रॊशस तथा तवयि ॥ 109 ॥
मॊक्ष्यन्ते वारुणाः पाशास तवेमे कालपर्ययात परजानाम अपचारेण सवस्ति ते ऽसतु महासुर ॥ 110 ॥
यदा शवश्रूं सनुषा वृद्धां परिचारेण यॊक्ष्यते पुत्रश च पितरं मॊहात परेषयिष्यति कर्मसु ॥ 111 ॥
बराह्मणैः कारयिष्यन्ति वृषलाः पादधावनम शूद्राश च बराह्मणीं भर्याम उपयास्यन्ति निर्भयाः ॥ 112 ॥
वियॊनिषु च बीजानि मॊक्ष्यन्ते पुरुषा यदा संकरं कांस्यभान्दैश च बलिं चापि कुपात्रकैः ॥ 113 ॥
चातुर्वर्ण्यं यदा कृत्स्नम उन्मर्यादं भविष्यति एकैकस ते तदा पाशः करमशः परतिमॊक्ष्यते ॥ 114 ॥
अस्मत्तस ते भयं नास्ति समयं परतिपालय सुखी भव निराबाधः सवस्थचेता निरामयः ॥ 115 ॥
तम एवम उक्त्वा भगवाञ शतक्रतुः; परतिप्रयातॊ गजराजवाहनः विजित्य सर्वान असुरान सुराधिपॊ; ननन्द हर्षेण बभूव चैकराट ॥ 116 ॥
महर्षयस तुष्टुवुर अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम हिमापहॊ हव्यम उदावहंस तवरंस; तथामृतं चार्पितम ईश्वराय ह ॥ 117 ॥
दविजॊत्तमैः सर्वगतैर अभिष्टुतॊ; विदीप्त तेजा गतमन्युर ईश्वरः परशान्तचेता मुदितः सवम आलयं; तरिविष्टपं पराप्य मुमॊद वासवः ॥ 118 ॥
शान्तिपर्व · Shanti Parva
अध्याय 220
Reach this point to mark the section finished.
Continue to अध्याय 221