[य] यया बुद्ध्या महीपालॊ भरष्ट शरीर विचरेन महीम कालदण्ड विनिष्पिष्टस तन मे बरूहि पितामह ॥ 1 ॥
[भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम वासवस्य च संवादं बलेर वैरॊचनस्य च ॥ 2 ॥
पितामहम उपागत्य परनिपत्य कृताञ्जलिः सर्वान एवासुराञ जित्वा बलिं पप्रच्छ वासवः ॥ 3 ॥
यस्य सम ददतॊ वित्तं न कदा चन हीयते तं बलिं नाधिगच्छामि बरह्मन्न आचक्ष्व मे बलिम ॥ 4 ॥
स एव हय अस्तम अयते स सम विद्यॊतते दिशः स वर्षति सम वर्षाणि यथाकालम अतन्द्रितः तं बलिं नाधिगच्छामि बरह्मन्न आचक्ष्व मे बलिम ॥ 5 ॥
स वायुर वरुणश चैव स रविः स च चन्द्रमाः सॊ ऽगनिस तपति भूतानि पृथिवी च भवत्य उत तं बलिं नाधिगच्छामि बरह्मन्न आचक्ष्व मे बलिम ॥ 6 ॥
[बरह्मा] नैतत ते साधु मघवन यद एतद अनुपृच्छसि पृष्टस तु नानृतं बरूयात तस्माद वक्ष्यामि ते बलिम ॥ 7 ॥
उष्ट्रेषु यदि वा गॊषु खरेष्व अश्वेषु वा पुनः वरिष्ठॊ भविता जन्तुः शून्यागारे शचीपते ॥ 8 ॥
[षक्र] यदि सम बलिना बरह्मञ शून्यागारे समेयिवान हन्याम एनं न वा हन्यां तद बरह्मन्न अनुशाधि माम ॥ 9 ॥
[बरह्मा] मा सम शक्र बलिं हिंसीर न बलिर वधम अर्हति नयायांस तु शक्र परस्तव्यस तवया वासव काम्यया ॥ 10 ॥
[भी] एवम उक्तॊ भगवता महेन्द्रः पृथिवीं तदा चचारैरावत सकन्धम अधिरुह्य शरिया वृतः ॥ 11 ॥
ततॊ ददर्श सबलिं खरवेषेण संवृतम यथा खयातं भगवता शून्यागार कृतालयम ॥ 12 ॥
[षक्र] खरयॊनिम अनुप्राप्तस तुषभक्षॊ ऽसि दानव इयं ते यॊनिर अधमा शॊषस्य आहॊ न शॊचसि ॥ 13 ॥
अदृष्टं बत पश्यामि दविषतां वशम आगतम शरिया विहीनं मित्रैश च भरष्ट वीर्यपराक्रमम ॥ 14 ॥
यद यद यानसहस्रेण जञातिभिः परिवारितः लॊकान परतापयन सर्वान यास्य अस्मान अवितर्कयन ॥ 15 ॥
तवन मुखाश चैव दैतेया वयतिष्ठंस तव शासने अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह इदं च ते ऽदय वयसनं शॊचस्य आहॊ न शॊचसि ॥ 16 ॥
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन जञातिभ्यॊ विभजन वित्तं तदासीत ते मनः कथम ॥ 17 ॥
यत ते सहस्रसमिता ननृतुर देव यॊषितः बहूनि वर्षपूगानि विहारे दीप्यतः शरिया ॥ 18 ॥
सर्वाः पुष्कर मालिन्यः सर्वाः काञ्चनसप्रभाः कथम अद्य तदा चैव मनस ते दानवेश्वर ॥ 19 ॥
छत्त्रं तवासीत सुमहत सौवर्णं मनि भूषितम ननृतुर यत्र गन्धर्वाः सः सहस्राणि सप्तधा ॥ 20 ॥
यूपस तवासीत सुमहाञ जयतः सर्वकाञ्चनः यत्राददः सहस्राणाम अयुतानि गवां दश ॥ 21 ॥
यदा तु पृथिवीं सर्वां यजमानॊ ऽनुपर्ययाः शम्याक्षेपेण विधिना तदासीत किं नु ते हृदि ॥ 22 ॥
न ते पश्यामि भृङ्गारं न छत्त्रं वयजनं न च बरह्मदत्तां च ते मालां न पश्याम्य असुराधिप ॥ 23 ॥
[बलि] न तवं पश्यसि भृङ्गारं न छत्त्रं वयजनं न च बरह्मदत्तां च मे मालां न तवं दरक्ष्यसि वासव ॥ 24 ॥
गुहायां निहितानि तवं मम रत्नानि पृच्छसि यदा मे भविता कालस तदा तवं तानि दरक्ष्यसि ॥ 25 ॥
न तव एतद अनुरूपं ते यशसॊ वा कुलस्य वा समृद्धार्थॊ ऽसमृद्धार्थं यन मां कत्थितुम इच्छसि ॥ 26 ॥
न हि दुःखेषु शॊचन्ति न परहृष्यन्ति चर्द्धिषु कृतप्रज्ञा जञानतृप्ताः कषान्ताः सन्तॊ मनीसिनः ॥ 27 ॥
तवं तुप्राकृतया बुद्ध्या पुरन्दर विकत्थसे यदाहम इव भावी तवं तदा नैवं वदिष्यसि ॥ 28 ॥
शान्तिपर्व · Shanti Parva
अध्याय 216
Reach this point to mark the section finished.
Continue to अध्याय 217