धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 217

  1. [भी] पुनर एव तु तं शक्रः परहसन्न इदम अब्रवीत निःश्वसन्तं यथा नागं परव्याहाराय भारत ॥ 1 ॥

  2. यत तद यानसहस्रेण जञातिभिः परिवारितः लॊकान परतापयन सर्वान यास्य अस्मान अवितर्कयन ॥ 2 ॥

  3. दृष्ट्वा सुकृपणां चेमाम अवस्थाम आत्मनॊ बले जञातिमित्र परित्यक्तः शॊचस्य आहॊ न शॊचसि ॥ 3 ॥

  4. परीतिं परात्यातुलां पूर्वं लॊकांश चात्मवशे सथिताम विनिपातम इमं चाद्य शॊचस्य आहॊ न शॊचसि ॥ 4 ॥

  5. [बलि] अनित्यम उपलक्ष्येदं कालपर्यायम आत्मनः तस्माच छक्र न शॊचामि सर्वं हय एवेदम अन्तवत ॥ 5 ॥

  6. अन्तवन्त इमे देहा भूतानाम अमराधिप तेन शक्र न शॊचामि नापराधाद इदं मम ॥ 6 ॥

  7. जीवितं च शरीरं च परेत्य वै सह जायते उभे सह विवर्धेते उभे सह विनश्यतः ॥ 7 ॥

  8. तद ईदृशम इदं भावम अवशः पराप्य केवलम यद्य एवम अभिजानामि का वयथा मे विजानतः ॥ 8 ॥

  9. भूतानां निधनं निष्ठा सरॊतसाम इव सागरः नैतत सम्यग विजानन्तॊ नरा मुह्यन्ति वज्रभृत ॥ 9 ॥

  10. ये तव एवं नाभिजानन्ति रजॊ मॊहपरायनाः ते कृच्छ्रं पराप्य सीदन्ति बुद्धिर येषां परनश्यति ॥ 10 ॥

  11. बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति ॥ 11 ॥

  12. ततस तु ये निवर्तन्ते जायन्ते वा पुनः पुनः कृपणाः परितप्यन्ते ते ऽनर्थैर परिचॊदिताः ॥ 12 ॥

  13. अर्थसिद्धिम अनर्थं च जीवितं मरणं तथा सुखदुःखफलं चैव न दवेष्मि न च कामये ॥ 13 ॥

  14. हतं हन्ति हतॊ हय एव यॊ नरॊ हन्ति कं चन उभौ तौ न विजानीतॊ यश च हन्ति हतश च यः ॥ 14 ॥

  15. हत्वा जित्वा च मघवन यः कश चित पुरुषायते अकर्ता हय एव भवति कर्ता तव एव करॊति तत ॥ 15 ॥

  16. हॊ हि लॊकस्य कुरुते विनाशप्रभवाव उभौ कृतं हि तत कृतेनैव कर्ता तस्यापि चापरः ॥ 16 ॥

  17. पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम एतद्यॊनीनि भूतानि तत्र का परिदेवना ॥ 17 ॥

  18. महाविद्यॊ ऽलपविद्यश च बलवान दुर्बलश च यः दर्शनीयश विरूपश च सुभगॊ दुर्भगश च यः ॥ 18 ॥

  19. सर्वं कालः समादत्ते गम्भीरः सवेन तेजसा तस्मिन कालवशं पराप्ते का वयथा मे विजानतः ॥ 19 ॥

  20. दग्धम एवानुदहति हतम एवानुहन्ति च नश्यते नष्टम एवाग्रे लब्धव्यं लभते नरः ॥ 20 ॥

  21. नास्य दवीपः कुतः पारं नावारः संप्रदृश्यते नान्तम अस्य परपश्यामि विधेर दिव्यस्य चिन्तयम ॥ 21 ॥

  22. यदि मे पश्यतः कालॊ भूतानि न विनाशयेत सयान मे हर्शश च दर्पश च करॊधश चैव शचीपते ॥ 22 ॥

  23. तुषभक्षं तु मां जञात्वा परविविक्त जने गृहे बिभ्रतं गार्दभं रूपम आदिश्य परिगर्हसे ॥ 23 ॥

  24. इच्छन्न अहं विकुर्यां हि रूपाणि बहुधात्मनः विभीसनानि यानीक्ष्य पलायेथास तवम एव मे ॥ 24 ॥

  25. कालः सर्वं समादत्ते कालः सर्वं परयच्छति कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम ॥ 25 ॥

  26. पुरा सर्वं परव्यथते मयि करुद्धे पुरंदर अवैमि तव अस्य लॊकस्य धर्मं शक्र सनातनम ॥ 26 ॥

  27. तवम अप्य एवम अपेक्षस्व मात्मना विस्मयं गमः परभवश च परभावश च नात्म संस्थः कदा चन ॥ 27 ॥

  28. कौमारम एव ते चित्तं तथैवाद्य यथा पुरा समवेक्षस्व मघवन बुद्धिं विन्दस्व नैष्ठिकीम ॥ 28 ॥

  29. देवा मनुष्याः पितरॊ गन्धर्वॊरगराक्षसाः आसन सर्वे मम वशे तत सर्वं वेत्थ वासव ॥ 29 ॥

  30. नमस तस्यै दिशे ऽपय अस्तु यस्यां वैरॊचनॊ बलिः इति माम अभ्यपद्यन्त बुद्धिमात्सय मॊहिताः ॥ 30 ॥

  31. नाहं तद अनुशॊचामि नात्म भरंशं शचीपते एवं मे निश्चिता बुद्धिः शास्तुस तिष्ठाम्य अहं वशे ॥ 31 ॥

  32. दृश्यते हि कुले जातॊ दर्शनीयः परतापवान दुःखं जीवन सहामात्यॊ भवितव्यं हि तत तथा ॥ 32 ॥

  33. दौष्कुलेल्यस तथा मूढॊ दुर्जातः शक्र दृश्यते सुखं जीवन सहामात्य भवितव्यं हि तत तथा ॥ 33 ॥

  34. कल्यानी रूपसंपन्ना दुर्भगा शक्र दृश्यते अलक्षणा विरूपा च सुभगा शक्र दृश्यते ॥ 34 ॥

  35. नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम ॥ 35 ॥

  36. न कर्म तव नान्येषां कुतॊ मम शतक्रतॊ ऋद्धिर वाप्य अथ वा नर्द्धिः पर्याय कृतम एव तत ॥ 36 ॥

  37. पश्यामि तवा विराजन्तं देवराजम अवस्थितम शरीमन्तं दयुतिमन्तं च गर्जन्तं च ममॊपरि ॥ 37 ॥

  38. एतच चैवं न चेत कालॊ माम आक्रम्य सथितॊ भवेत पातयेयम अहं तवाद्य सवर्जम अपि मुष्टिना ॥ 38 ॥

  39. न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः कालः सथापयते सर्वं कालः पचति वै तथा ॥ 39 ॥

  40. मां चेद अभ्यागतः कालॊ दानवेश्वरम ऊर्जितम गर्जन्तं परतपन्तं च कम अन्यं नागमिष्यति ॥ 40 ॥

  41. दवादशानां हि भवताम आदित्यानां महात्मनाम तेजांस्य एकेन सर्वेषां देवराजहृतानि मे ॥ 41 ॥

  42. अहम एवॊद्वहाम्य आपॊ विसृजामि च वासव तपामि चैव तरैलॊक्यं विद्यॊताम्य अहम एव च ॥ 42 ॥

  43. संरक्षामि विलुम्पामि ददाम्य अहम अथाददे संयच्छामि नियच्छामि लॊकेषु परभुर ईश्वरः ॥ 43 ॥

  44. तद अद्य विनिवृत्तं मे परभुत्वम अमराधिप कालसैन्यावगाधस्य सर्वं न परतिभाति मे ॥ 44 ॥

  45. नाहं कर्ता न चैव तवं नान्यक कर्ता शचीपते पर्यायेन हि भुज्यन्ते लॊकाः शक्र यदृच्छया ॥ 45 ॥

  46. मासार्ध मासवेश्मानम अहॊरात्राभिसंवृतम ऋतुद्वारं वर्षमुखम आहुर वेदविदॊ जनाः ॥ 46 ॥

  47. आहुः सर्वम इदं चिन्त्यं जनाः के चिन मनीसया अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥ 47 ॥

  48. गन्भीरं गहनं बरह्म महत तॊयार्णवं यथा अनादि निधनं चाहुर अक्षरं परम एव च ॥ 48 ॥

  49. सत्त्वेषु लिङ्गम आवेश्य नलिङ्गम अपि तत सवयम मन्यन्ते धरुवम एवैनं ये नरास तत्त्वदर्शिनः ॥ 49 ॥

  50. भूतानां तु विपर्यासं मन्यते गतवान इति न हय एतावद भवेद गम्यं नयस्मात परकृतेः परः ॥ 50 ॥

  51. गतिं हि सर्वभूतानाम अगत्वा कव गमिष्यसि यॊ धावता न हातव्यस तिष्ठन्न अपि न हीयते तम इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥ 51 ॥

  52. आहुश चैनं के चिद अग्निं के चिद आहुः परजापतिम ऋतुमासार्ध मामांश च दिवसांस तु कषणांस तथा ॥ 52 ॥

  53. पूर्वाह्नम अपराह्नं च मध्याह्नम अपि चापरे मुहूर्तम अपि चैवाहुर एकं सन्तम अनेकधा तं कालम अवजानीहि यस्य सर्वम इदं वशे ॥ 53 ॥

  54. बहुनीन्द्र सहस्राणि समतीतानि वासव बलवीर्यॊपपन्नानि यथैव तवं शचीपते ॥ 54 ॥

  55. तवाम अप्य अतिबलं शक्रं देवराजं बलॊत्कतम पराप्ते काले महावीर्यः कालः संशमयिष्यति ॥ 55 ॥

  56. य इदं सर्वम आदत्ते तस्माच छक्र सथिरॊ भव मया तवया च पूर्वैश च न स शक्यॊ ऽतिवर्तितुम ॥ 56 ॥

  57. याम एतां पराप्य जानीसे राजश्रियम अनुत्तमाम सथिता मयीति तन मिथ्या नैषा हय एकत्र तिष्ठति ॥ 57 ॥

  58. सथिता हीन्द्र सहस्रेषु तवद विशिष्टतमेष्व इयम मां च लॊला परित्यज्य तवाम अगाद विबुधाधिप ॥ 58 ॥

  59. मैवं शक्र पुनः कार्षीः शान्तॊ भवितुम अर्हसि तवाम अप्य एवंगतं तयक्त्वा कषिप्रम अन्यं गमिष्यति ॥ 59 ॥

Reach this point to mark the section finished.

Continue to अध्याय 218

Previous: अध्याय 216