[य] दविजातयॊ वरतॊपेता यद इदं भुञ्जते हविः अन्नं बराह्मण कामाय कथम एतत पितामह ॥ 1 ॥
[भी] अवेदॊक्त वरतॊपेता भुञ्जानाः कार्यकारिणः वेदॊक्तेषु च भुञ्जाना वरतलुप्ता युधिष्ठिर ॥ 2 ॥
[य] यद इदं तप इत्य आहुर उपवासं पृथग्जनाः एतत तपॊ महाराज उताहॊ किं तपॊ भवेत ॥ 3 ॥
[भी] मासपक्षॊपवासेन मन्यन्ते यत तपॊ जनाः आत्मतन्त्रॊपघातः स न तपस तत सतां मतम तयागश च सन्नतिश चैव शिष्यते तप उत्तमम ॥ 4 ॥
सदॊपवासी च भवेद बरह्मचारी सदैव च मुनिश च सयात सदा विप्रॊ दैवतं च सदा भजेत ॥ 5 ॥
कुतुम्बिकॊ धर्मकामः सदा सवप्नश च भारत अमांसाशी सदा च सयात पवित्रं च सदा जपेत ॥ 6 ॥
अमृताशी सदा च सयान न च सयाद विषभॊजनः विघसाशी सदा च सयात सदा चैवातिथि परियः ॥ 7 ॥
[य] कथं सदॊपवासी सयाद बरह्मचारी कथं भवेत विघसाशी कथं च सयात सदा चैवातिथि परियः ॥ 8 ॥
[भी] अन्तरा परातर आशं च सायम आशं तथैव च सदॊपवासी च भवेद यॊ न भुङ्क्ते कथं चन ॥ 9 ॥
भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः ऋतवादी सदा च सयाज जञाननित्यश च यॊ नरः ॥ 10 ॥
अभक्षयन वृथा मांसम अमांसाशी भवत्य उत दाननित्यः पवित्रश च अस्वप्नश च दिवा सवपन ॥ 11 ॥
भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु सदा स ह अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर ॥ 12 ॥
अभुक्तवत्सु नाश्नानः सततं यस तु वै दविजः अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत ॥ 13 ॥
देवताभ्यः पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह अवशिष्टं तु यॊ ऽशनाति तम आहुर विघसासिनम ॥ 14 ॥
तेषां लॊका हय अपर्यन्ताः सदने बरह्मणा सह उपस्थिताश चाप्सरॊभिः परियान्ति दिवौकसः ॥ 15 ॥
देवताभिश च ये सार्धं पितृभिश चॊपभुञ्जते रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा ॥ 16 ॥
शान्तिपर्व · Shanti Parva
अध्याय 214
Reach this point to mark the section finished.
Continue to अध्याय 215