धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 213

  1. [य] किं कुर्वन सुखम आप्नॊति किं कुर्वन दुःखम आप्नुते किं कुर्वन निर्भयॊ लॊके सिद्धश चरति भारत ॥ 1 ॥

  2. [भी] दमम एव परशंसन्ति वृद्धाः शरुतिसमाधयः सर्वेषाम एव वर्णानां बराह्मणस्य विशेषतः ॥ 2 ॥

  3. नादान्तस्य करिया सिद्धिर यथावद उपलभ्यते करिया तपश च वेदाश च दमे सर्वं परतिष्ठितम ॥ 3 ॥

  4. दमस तेजॊ वर्धयति पवित्रं दम उच्यते विपाप्मा निर्भयॊ दान्तः पुरुषॊ विन्दते महत ॥ 4 ॥

  5. सुखं दान्तः परस्वपिति सुखं च परतिबुध्यते सुखं लॊके विपर्येति मनश चास्य परसीदति ॥ 5 ॥

  6. तेजॊ दमेन धरियते न तत तीक्ष्णॊ ऽधिगच्छति अमित्रांश च बहून नित्यं पृथग आत्मनि पश्यति ॥ 6 ॥

  7. करव्याद्भ्य इव भूतानाम अदान्तेभ्यः सदा भयम तेषां विप्रतिषेधार्थं राजा सृष्टः सवयम्भुवा ॥ 7 ॥

  8. आश्रमेषु च सर्वेषु दम एव विशिष्यते यच च तेषु फलं धर्मे भूयॊ दान्ते तद उच्यते ॥ 8 ॥

  9. तेषां लिङ्गानि वक्ष्यामि येषां समुदयॊ दमः अकार्पण्यम असंरम्भः संतॊषः शरद्दधानता ॥ 9 ॥

  10. अक्रॊध आर्जवं नित्यं नातिवादॊ न मानिता गुरु पूजानसूया च दया भूतेष्व अपैशुनम ॥ 10 ॥

  11. जनवादमृषा वादस्तुति निन्दा विवर्जनम साधु कामश चास्पृहयन्न आयाति परत्ययं नृषु ॥ 11 ॥

  12. अवैरकृत सूपचारः समॊ निन्दा परशंसयॊः सुवृत्तः शीलसंपन्नः परसन्नात्मात्मवान बुधः पराप्य लॊके च सत्कारं सवर्गं वै परेत्य गच्छति ॥ 12 ॥

  13. सर्वभूतहिते युक्तॊ न समयाद दवेष्टि वै जनम महाह्रद इवाक्षॊभ्य परज्ञा तृप्तः परसीदति ॥ 13 ॥

  14. अभयं सर्वभूतेभ्यः सर्वेषाम अभयं यतः नमस्यः सर्वभूतानां दान्तॊ भवति जञानवान ॥ 14 ॥

  15. न हृष्यति महत्य अर्थे वयसने च न शॊचति स वै परिमित परज्ञः स दान्तॊ दविज उच्यते ॥ 15 ॥

  16. कर्मभिः शरुतसंपन्नः सद्भिर आचरितैः शुभैः सदैव दमसंयुक्तस तस्य भुङ्क्ते महत फलम ॥ 16 ॥

  17. अनसूया कषमा शान्तिः संतॊषः परियवादिता सत्यं दानम अनायासॊ नैष मार्गॊ दुरात्मनाम ॥ 17 ॥

  18. कामक्रॊधौ वशे कृत्वा बरह्मचारी जितेन्द्रियः विक्रम्य घॊरे तपसि बराह्मणः संशितव्रतः कालाकाङ्क्षी चरेल लॊकान निरपाय इवात्मवान ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 214

Previous: अध्याय 212