[भी] जनकॊ जनदेवस तु जञापितः परमर्षिणा पुनर एवानुपप्रच्छ साम्प्रयाये भवाभवौ ॥ 1 ॥
भगवन यद इदं परेत्य संज्ञा भवति कस्य चित एवं सति किम अज्ञानं जञानं वा किं करिष्यति ॥ 2 ॥
सर्वम उच्छेद निष्ठं सयात पश्य चैतद दविजॊत्तम अप्रमत्तः परमत्तॊ वा किं विशेषं करिष्यति ॥ 3 ॥
असंसर्गॊ हि भूतेषु संसर्गॊ वा विनाशिषु कस्मै करियेत कल्पेन निश्चयः कॊ ऽतर तत्त्वतः ॥ 4 ॥
तमसा हि परतिच्छन्नं विभ्रान्तम इव चातुरम पुनः परशमयन वाक्यैः कविः पञ्चशिखॊ ऽबरवीत ॥ 5 ॥
उच्छेद निष्ठा नेहास्ति भावनिष्ठा न विद्यते अयं हय अपि समाहारः शरीरेन्द्रिय चेतसाम वर्तते पृथग अन्यॊन्यम अप्य अपाश्रित्य कर्मसु ॥ 6 ॥
धातवः पञ्चशाखॊ ऽयं खं वायुर जयॊतिर अम्बुभूः ते सवभावेन तिष्ठन्ति वियुज्यन्ते सवभावतः ॥ 7 ॥
आकाशं वायुर ऊष्मा च सनेहॊ यच चापि पार्थिवम एष पञ्च समाहारः शरीरम इति नैकधा जञानम ऊष्मा च वायुश च तरिविधः कर्मसंग्रहः ॥ 8 ॥
इन्द्रियाणीन्द्रियार्थाश च सवभावश चेतना मनः पराणापानौ विकारश च धातवश चात्र निःसृताः ॥ 9 ॥
शरवणं सपर्शनं जिह्वा दृष्टिर नासा तथैव च इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः ॥ 10 ॥
तत्र विज्ञानसंयुक्ता तरिविधा वेदना धरुवा सुखदुःखेति याम आहुर अदुःखेत्य असुखेति च ॥ 11 ॥
शब्दः सपर्शश च रूपं च रसॊ गन्धश च मूर्त्य अथ एते हय आमरणात पञ्च सॊ गुणा जञानसिद्धये ॥ 12 ॥
तेषु कर्म निसर्गश च सर्वतत्त्वार्थ निश्चयः तम आहुः परमं शुक्रं बुद्धिर इत्य अव्ययं महत ॥ 13 ॥
इमं गुणसमाहारम आत्मभावेन पश्यतः असम्यग दर्शनैर दुःखम अनन्तं नॊपशाम्यति ॥ 14 ॥
अनात्मेति च यद दृष्टं तेनाहं न ममेत्य अपि वर्तते किम अधिष्ठाना परसक्ता दुःखसंततिः ॥ 15 ॥
तत्र सम्यङ मनॊ नाम तयागशास्त्रम अनुत्तमम शृणु यत तव मॊक्षाय भास्यमानं भविष्यति ॥ 16 ॥
तयाग एव हि सर्वेषाम उक्तानाम अपि कर्मणाम नित्यं मिथ्या विनीतानां कलेशॊ दुःखावहॊ मतः ॥ 17 ॥
दरव्यत्यागे तु कर्माणि भॊगत्यागे वरतान्य अपि सुखत्यागे तपॊयॊगः सर्वत्यागे समापना ॥ 18 ॥
तस्य मार्गॊ ऽयम अद्वैधः सर्वत्यागस्य दर्शितः विप्रहानाय दुःखस्य दुर्गतिर हय अन्यथा भवेत ॥ 19 ॥
पञ्च जञानेन्द्रियाण्य उक्त्वा मनः सस्थानि चेतसि मनः सस्थानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु ॥ 20 ॥
हस्तौ कर्मेन्द्रियं जञेयम अथ पादौ गतीन्द्रियम परजनानन्दयॊः शेफॊ विसर्गे पायुर इन्द्रियम ॥ 21 ॥
वाक तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः एवम एकादशैतानि बुद्ध्या तव अवसृजेन मनः ॥ 22 ॥
कर्णौ शब्दश च चित्तं च तरयः शरवणसंग्रहे तथा सपर्शे तथारूपे तथैव रसगन्धयॊः ॥ 23 ॥
एवं पञ्च तरिका हय एते गुणास तद उपलब्धये येन यस तरिविधॊ भावः पर्यायात समुपस्थितः ॥ 24 ॥
सात्त्विकॊ राजसश चैव तामसश चैव ते तरयः तरिविधा वेदना येषु परसूता सर्वसाधना ॥ 25 ॥
परहर्षः परीतिर आनन्दः सुखं संशान्त चित्तता अकुतश चित कुतश चिद वा चित्ततः सात्त्विकॊ गुणः ॥ 26 ॥
अतुष्टिः परितापश च शॊकॊ लॊभस तथाक्षमा लिङ्गानि रजसस तानि दृश्यन्ते हेत्वहेतुतः ॥ 27 ॥
अविवेकस तथा मॊहः परमादः सवप्नतन्द्रिता कथं चिद अपि वर्तन्ते विविधास तामसा गुणाः ॥ 28 ॥
तत्र यत परीतिसंयुक्तं काये मनसि वा भवेत वर्तते सात्त्विकॊ भाव इत्य अपेक्षेत तत तथा ॥ 29 ॥
यत तु संतापसंयुक्तम अप्रीतिकरम आत्मनः परवृत्तं रज इत्य एव ततस तद अभिचिन्तयेत ॥ 30 ॥
अथ यन मॊहसंयुक्तं काये मनसि वा भवेत अप्रतर्क्यम अविज्ञेयं तमस तद उपधारयेत ॥ 31 ॥
तद धि शरॊत्राश्रयं भूतं शब्दः शरॊत्रं समाश्रितः नॊभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥ 32 ॥
एवं तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी सपर्शे रूपे रसे गन्धे तानि चेतॊ मनश च तत ॥ 33 ॥
सवकर्म युगपद भावॊ दशस्व एतेषु तिष्ठति चित्तम एकादशं विद्धि बुद्धिर दवादशमी भवेत ॥ 34 ॥
तेषाम अयुगपद भावे उच्छेदॊ नास्ति तामसः आस्थितॊ युगपद भावे वयवहारः स लौकिकः ॥ 35 ॥
इन्द्रियाण्य अवसृज्यापि दृष्ट्वा पूर्वं शरुतागमम चिन्तयन नानुपर्येति तरिभिर एवान्वितॊ गुणैः ॥ 36 ॥
यत तमॊपहतं चित्तम आशु संचारम अध्रुवम करॊत्य उपरमं काले तद आहुस तामसं सुखम ॥ 37 ॥
यद यद आगमसंयुक्तं न कृत्स्नम उपशाम्यति अथ तत्राप्य उपादत्ते तमॊ वयक्तम इवानृतम ॥ 38 ॥
एवम एष परसंख्यातः सवकर्म परत्ययी गुणः कथं चिद वर्तते सम्यक केषां चिद वा न वर्तते ॥ 39 ॥
एवम आहुः समाहारं कषेत्रम अध्यात्मचिन्तकाः सथितॊ मनसि यॊ भावः स वै कषेत्रज्ञ उच्यते ॥ 40 ॥
एवं सति क उच्छेदः शाश्वतॊ वाकथं भवेत सवभावाद वर्तमानेषु सर्वभूतेषु हेतुतः ॥ 41 ॥
यथार्णव गता नद्यॊ वयक्तीर जहति नाम च न च सवतां नियच्छन्ति तादृशः सत्त्वसंक्षयः ॥ 42 ॥
एवं सति कुतः संज्ञा परेत्य भावे पुनर भवेत परति संमिश्रिते जीवे गृह्यमाणे च मध्यतः ॥ 43 ॥
इमां तु यॊ वेद विमॊक्षबुद्धिम; आत्मानम अन्विच्छति चाप्रमत्तः न लिप्यते कर्मफलैर अनिष्टैः; पत्त्रं बिसस्येव जलेन सिक्तम ॥ 44 ॥
दृधैर्श च पाशैर बहुभिर विमुक्तः; परजा निमित्तैर अपि दैवतैश च यदा हय असौ सुखदुःखे जहाति; मुक्तस तदाग्र्यां गतिम एत्य अलिङ्गः शरुतिप्रमानागम मङ्गलैश च; शेते जरामृत्युभयाद अतीतः ॥ 45 ॥
कषीणे च पुण्ये विगते च पापे; ततॊ निमित्ते च फले विनस्ते अलेपम आकाशम अलिङ्गम एवम; आस्थाय पश्यन्ति महद धयसक्ताः ॥ 46 ॥
यथॊर्ण नाभिः परिवर्तमानस; तन्तु कषये तिष्ठति पात्यमानः तथा विमुक्तः परजहाति दुःखं; विध्वंसते लॊष्ट इवाद्रिम अर्च्छन ॥ 47 ॥
यथा रुरुः शृङ्गम अथॊ पुराणं; हित्वा तवचं वाप्य उरगॊ यथावत विहाय गच्छत्य अनवेक्षमाणस; तथा विमुक्तॊ विजहाति दुःखम ॥ 48 ॥
दरुमं यथा वाप्य उदके पतन्तम; उत्सृज्य पक्षी परपतत्य असक्तः तथा हय असौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिम एत्य अलिङ्गः ॥ 49 ॥
अपि च भवति मैथिलेन गीतं; नरगम उपाहितम अग्निनाभिवीक्ष्य न खलु मम तुषॊ ऽपि दह्यते ऽतर; सवयम इदम आह किल सम भूमिपालः ॥ 50 ॥
इदम अमृतपदं विदेहराजः; सवयम इह पञ्चशिखेन भास्यमानः निखिलम अभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशॊकः ॥ 51 ॥
इमं हि यः पथति विमॊक्षनिश्चयं; न हीयते सततम अवेक्षते तथा उपद्रवान नानुभवत्य अदुःखितः; परमुच्यते कपिलम इवैत्य मैथिलः ॥ 52 ॥
शान्तिपर्व · Shanti Parva
अध्याय 212
Reach this point to mark the section finished.
Continue to अध्याय 213