धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 211

  1. [य] केन वृत्तेन वृत्तज्ञॊ जनकॊ मिथिलाधिपः जगाम मॊक्षं धर्मज्ञॊ भॊगान उत्सृज्य मानुषान ॥ 1 ॥

  2. [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम येन वृत्तेन वृत्तज्ञः स जगाम महत सुखम ॥ 2 ॥

  3. जनकॊ जनदेवस तु मिथिलायां जनाधिपः और्ध्व देहिक धर्माणाम आसीद युक्तॊ विचिन्तने ॥ 3 ॥

  4. तस्य सम शतम आचार्या वसन्ति सततं गृहे दर्शयन्तः पृथग धर्मान नाना पासन्द वादिनः ॥ 4 ॥

  5. स तेषां परेत्य भावे च परेत्य जातौ विनिश्चये आगमस्थः स भूयिष्ठम आत्मतत्त्वे न तुष्यति ॥ 5 ॥

  6. तत्र पञ्चशिखॊ नाम कापिलेयॊ महामुनिः परिधावन महीं कृत्स्नां जगाम मिथिलाम अपि ॥ 6 ॥

  7. सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये सुपर्यवसितार्थश च निर्द्वन्द्वॊ नष्ट संशयः ॥ 7 ॥

  8. ऋषीणाम आहुर एकं यं कामाद अवसितं नृषु शाश्वतं सुखम अत्यन्तम अन्विच्छन स सुदुर्लभम ॥ 8 ॥

  9. यम आहुः कपिलं सांख्याः परमर्षिं परजापतिम स मन्ये तेन रूपेण विस्मापयति हि सवयम ॥ 9 ॥

  10. आसुरेः परथमं शिष्यं यम आहुश चिरजीविनम पञ्च सरॊतसि यः सत्त्रम आस्ते वर्षसहस्रिकम ॥ 10 ॥

  11. तं समासीनम आगम्य मन्दलं कापिलं महत पुरुषावस्थम अव्यक्तं परमार्थं निबॊधयत ॥ 11 ॥

  12. इष्टि सत्त्रेण संसिद्धॊ भूयश च तपसा मुनिः कषेत्रक्षेत्रज्ञयॊर वयक्तिं बुबुधे देव दर्शनः ॥ 12 ॥

  13. यत तद एकाक्षरं बरह्म नानारूपं परदृश्यते आसुरिर मन्दले तस्मिन परतिपेदे तद अव्ययम ॥ 13 ॥

  14. तस्य पञ्चशिखः शिष्यॊ मानुष्या पयसा भृतः बराह्मणी कपिला नाम का चिद आसीत कुतुम्बिनी ॥ 14 ॥

  15. तस्याः पुत्रत्वम आगम्य सत्रियाः स पिबति सतनौ ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम ॥ 15 ॥

  16. एतन मे भगवान आह कापिलेयाय संभवम तस्य तत कापिलेयत्वं सर्ववित्त्वम अनुत्तमम ॥ 16 ॥

  17. सामान्यं कपिलॊ जञात्वा धर्मज्ञानाम अनुत्तमम उपेत्य शतम आचार्यान मॊहयामस हेतुभिः ॥ 17 ॥

  18. जनकस तव अभिसंरक्तः कापिलेयानुदर्शनात उत्सृज्य शतम आचार्यान पृष्ठतॊ ऽनुजगाम तम ॥ 18 ॥

  19. तस्मै परमकल्पाय परनताय च धर्मतः अब्रवीत परमं मॊक्षं यत तत सांख्यं विधीयते ॥ 19 ॥

  20. जातिनिर्वेदम उक्त्वा हि कर्म निर्वेदम अब्रवीत कर्म निर्वेदम उक्त्वा च सर्वनिर्वेदम अब्रवीत ॥ 20 ॥

  21. यदर्थं कर्म संसर्गः कर्मणां च फलॊदयः तद अनाश्वासिकं मॊघं विनाशि चलम अध्रुवम ॥ 21 ॥

  22. दृश्यमाने विनाशे च परत्यक्षे लॊकसाक्षिके आगमात परम अस्तीति बरुवन्न अपि पराजितः ॥ 22 ॥

  23. अनात्मा हय आत्मनॊ मृत्युः कलेशॊ मृत्युर जरा मयः आत्मानं मन्यते मॊहात तद असम्यक परं मतम ॥ 23 ॥

  24. अथ चेद एवम अप्य अस्ति यल लॊके नॊपपद्यते अजरॊ ऽयम अमृत्युश च राजासौ मन्यते तथा ॥ 24 ॥

  25. अस्ति नास्तीति चाप्य एतत तस्मिन्न असति लक्षणे किम अधिष्ठाय तद बरूयाल लॊकयात्रा विनिश्चयम ॥ 25 ॥

  26. परत्यक्षं हय एतयॊर मूलं कृतान्तैतिह्ययॊर अपि परत्यक्षॊ हय आगमॊ ऽभिन्नः कृतान्तॊ वा न किं चन ॥ 26 ॥

  27. यत्र तत्रानुमाने ऽसति कृतं भावयते ऽपि वा अन्यॊ जीवः शरीरस्य नास्तिकानां मते समृतः ॥ 27 ॥

  28. रेतॊ वत कनीकायां घृतपाकाधिवासनम जातिस्मृतिर अयः कान्तः सूर्यकान्तॊ ऽमबुलक्षणम ॥ 28 ॥

  29. परेत्य भूतात्ययश चैव देवताभ्युपयाचनम मृते कर्म निवृत्तिश च परमानम इति निश्चयः ॥ 29 ॥

  30. न तव एते हेतवः सन्ति ये के चिन मूर्ति संस्थिताः अमर्त्यस्य हि मर्त्येन सामान्यं नॊपपद्यते ॥ 30 ॥

  31. अविद्या कर्म चेष्टानां के चिद आहुः पुनर्भवम कारणं लॊभमॊहौ तु दॊषाणां च निषेवणम ॥ 31 ॥

  32. अविद्यां कषेत्रम आहुर हि कर्म बीजं तथा कृतम तृष्णा संजननं सनेह एष तेषां पुनर्भवः ॥ 32 ॥

  33. तस्मिन वयूधे च दग्धे च चित्ते मरणधर्मिणि अन्यॊ ऽनयाज जायते देहस तम आहुः सत्त्वसंक्षयम ॥ 33 ॥

  34. यदा स रूपतश चान्यॊ जातितः शरुतितॊ ऽरथतः कथम अस्मिन स इत्य एव संबन्धः सयाद असंहितः ॥ 34 ॥

  35. एवं सति च का परीतिर दानविद्या तपॊबलैः यद अन्याचरितं कर्म सर्वम अन्यः परपद्यते ॥ 35 ॥

  36. यदा हय अयम इहैवान्यैः पराकृतैर दुःखितॊ भवेत सुखितैर दुःखितैर वापि दृश्यॊ ऽपय अस्य विनिर्नयः ॥ 36 ॥

  37. तथा हि मुसलैर हन्यः शरीरं तत पुनर्भवेत पृथग जञानं यद अन्यच च येनैतन नॊपलभ्यते ॥ 37 ॥

  38. ऋतुः संवत्सरस तिथ्यः शीतॊष्णे च परियाप्रिये यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः ॥ 38 ॥

  39. जरया हि परीतस्य मृत्युना वा विनाशिना दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ 39 ॥

  40. इन्द्रियाणि मनॊ वायुः शॊनितं मांसम अस्थि च आनुपूर्व्या विनश्यन्ति सवं धातुम उपयान्ति च ॥ 40 ॥

  41. लॊकयात्रा विधानं च दानधर्मफलागमः यदर्थं वेद शब्दाश च वयवहाराश च लौकिकाः ॥ 41 ॥

  42. इति सम्यङ मनस्य एते बहवः सन्ति हेतवः एतद अस्तीदम अस्तीति न किं चित परतिपद्यते ॥ 42 ॥

  43. तेषां विमृशताम एवं तत तत समभिधावताम कव चिन निविशते बुद्धिस तत्र जीर्यति वृक्षवत ॥ 43 ॥

  44. एवम अर्थैर अनर्थैश च दुःखिताः सर्वजन्तवः आगमैर अपकृष्यन्ते हस्तिपैर हस्तिनॊ यथा ॥ 44 ॥

  45. अर्थांस तथात्यन्तसुखावहांश च; लिप्सन्त एते बहवॊ विशुल्काः महत्तरं दुःखम अभिप्रपन्ना; हित्वामिषं मृत्युवशं परयान्ति ॥ 45 ॥

  46. विनाशिनॊ हय अध्रुव जीवितस्य; किं बन्धुभिर मित्र परिग्रहैश च विहाय यॊ गच्छति सर्वम एव; कषणेन गत्वा न निवर्तते च ॥ 46 ॥

  47. भूव्यॊम तॊयानल वायवॊ हि; सदा शरीरं परिपालयन्ति इतीदम आलक्ष्य कुतॊ रतिभवेद; विनाशिनॊ हय अस्य न शर्म विद्यते ॥ 47 ॥

  48. इदम अनुपधि वाक्यम अच्छलं; परमनिरामयम आत्मसाक्षिकम नरपतिर अभिवीक्ष्य विस्मितः; पुनर अनुयॊक्तुम इदं परचक्रमे ॥ 48 ॥

Reach this point to mark the section finished.

Continue to अध्याय 212

Previous: अध्याय 210